भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 06.17

06.17.001

भ्प्_06.17.001।0 श्रीशुक उवाच
यतश्चान्तर्हितो ऽनन्तस्तस्यै कृत्वा दिशे नमः ।
विद्याधरश्चित्रकेतुश्चचार गगने चरः

06.17.002

स लक्षं वर्षलक्षाणामव्याहतबलेन्द्रियः ।
स्तूयमानो महायोगी मुनिभिः सिद्धचारणैः

06.17.003

कुलाचलेन्द्रद्रोणीषु नानासङ्कल्पसिद्धिषु ।
रेमे विद्याधरस्त्रीभिर्गापयन् हरिमीश्वरम्

06.17.004

एकदा स विमानेन विष्णुदत्तेन भास्वता ।
गिरिशं ददृशे गच्छन् परीतं सिद्धचारणैः

06.17.005

आलिङ्ग्याङ्कीकृतां देवीं बाहुना मुनिसंसदि ।
उवाच देव्याः शृण्वन्त्या जहासोच्चैस्तदन्तिके

06.17.006

भ्प्_06.17.006।0 चित्रकेतुरुवाच
एष लोकगुरुः साक्षाद्धर्मं वक्ता शरीरिणाम् ।
आस्ते मुख्यः सभायां वै मिथुनीभूय भार्यया

06.17.007

जटाधरस्तीव्रतपा ब्रह्मवादिसभापतिः ।
अङ्कीकृत्य स्त्रियं चास्ते गतह्रीः प्राकृतो यथा

06.17.008

प्रायशः प्राकृताश्चापि स्त्रियं रहसि बिभ्रति ।
अयं महाव्रतधरो बिभर्ति सदसि स्त्रियम्

06.17.009

भ्प्_06.17.009।0 श्रीशुक उवाच
भगवान् अपि तच् छ्रुत्वा प्रहस्यागाधधीर्नृप ।
तूष्णीं बभूव सदसि सभ्याश्च तदनुव्रताः

06.17.010

इत्य् अतद्वीर्यविदुषि ब्रुवाणे बह्वशोभनम् ।
रुषाह देवी धृष्टाय निर्जितात्माभिमानिने

06.17.011

भ्प्_06.17.011।0 श्रीपार्वत्य् उवाच
अयं किमधुना लोके शास्ता दण्डधरः प्रभुः ।
अस्मद्विधानां दुष्टानां निर्लज्जानां च विप्रकृत्

06.17.012

न वेद धर्मं किल पद्मयोनिर् न ब्रह्मपुत्रा भृगुनारदाद्याः ।
न वै कुमारः कपिलो मनुश्च ये नो निषेधन्त्य् अतिवर्तिनं हरम्

06.17.013

एषामनुध्येयपदाब्जयुग्मं जगद्गुरुं मङ्गलमङ्गलं स्वयम् ।
यः क्षत्रबन्धुः परिभूय सूरीन् प्रशास्ति धृष्टस्तदयं हि दण्ड्यः

06.17.014

नायमर्हति वैकुण्ठ पादमूलोपसर्पणम् ।
सम्भावितमतिः स्तब्धः साधुभिः पर्युपासितम्

06.17.015

अतः पापीयसीं योनिमासुरीं याहि दुर्मते ।
यथेह भूयो महतां न कर्ता पुत्र किल्बिषम्

06.17.016

भ्प्_06.17.016।0 श्रीशुक उवाच
एवं शप्तश्चित्रकेतुर्विमानादवरुह्य सः ।
प्रसादयामास सतीं मूर्ध्ना नम्रेण भारत

06.17.017

भ्प्_06.17.017।0 चित्रकेतुरुवाच
प्रतिगृह्णामि ते शापमात्मनो ऽञ्जलिनाम्बिके ।
देवैर्मर्त्याय यत् प्रोक्तं पूर्वदिष्टं हि तस्य तत्

06.17.018

संसारचक्र एतस्मिञ् जन्तुरज्ञानमोहितः ।
भ्राम्यन् सुखं च दुःखं च भुङ्क्ते सर्वत्र सर्वदा

06.17.019

नैवात्मा न परश्चापि कर्ता स्यात् सुखदुःखयोः ।
कर्तारं मन्यते ऽत्राज्ञ आत्मानं परमेव च

06.17.020

गुणप्रवाह एतस्मिन् कः शापः को न्वनुग्रहः ।
कः स्वर्गो नरकः को वा किं सुखं दुःखमेव वा

06.17.021

एकः सृजति भूतानि भगवान् आत्ममायया ।
एषां बन्धं च मोक्षं च सुखं दुःखं च निष्कलः

06.17.022

न तस्य कश्चिद्दयितः प्रतीपो न ज्ञातिबन्धुर्न परो न च स्वः ।
समस्य सर्वत्र निरञ्जनस्य सुखे न रागः कुत एव रोषः

06.17.023

तथापि तच्छक्तिविसर्ग एषां सुखाय दुःखाय हिताहिताय ।
बन्धाय मोक्षाय च मृत्युजन्मनोः शरीरिणां संसृतये ऽवकल्पते

06.17.024

अथ प्रसादये न त्वां शापमोक्षाय भामिनि ।
यन् मन्यसे ह्य् असाधूक्तं मम तत् क्षम्यतां सति

06.17.025

भ्प्_06.17.025।0 श्रीशुक उवाच
इति प्रसाद्य गिरिशौ चित्रकेतुररिन्दम ।
जगाम स्वविमानेन पश्यतोः स्मयतोस्तयोः

06.17.026

ततस्तु भगवान् रुद्रो रुद्राणीमिदमब्रवीत् ।
देवर्षिदैत्यसिद्धानां पार्षदानां च शृण्वताम्

06.17.027

भ्प्_06.17.027।0 श्रीरुद्र उवाच
दृष्टवत्य् असि सुश्रोणि हरेरद्भुतकर्मणः ।
माहात्म्यं भृत्यभृत्यानां निःस्पृहाणां महात्मनाम्

06.17.028

नारायणपराः सर्वे न कुतश्चन बिभ्यति ।
स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिनः

06.17.029

देहिनां देहसंयोगाद्द्वन्द्वानीश्वरलीलया ।
सुखं दुःखं मृतिर्जन्म शापो ऽनुग्रह एव च

06.17.030

अविवेककृतः पुंसो ह्य् अर्थभेद इवात्मनि ।
गुणदोषविकल्पश्च भिदेव स्रजिवत् कृतः

06.17.031

वासुदेवे भगवति भक्तिमुद्वहतां नृणाम् ।
ज्ञानवैराग्यवीर्याणां न हि कश्चिद्व्यपाश्रयः

06.17.032

नाहं विरिञ्चो न कुमारनारदौ न ब्रह्मपुत्रा मुनयः सुरेशाः ।
विदाम यस्येहितमंशकांशका न तत्स्वरूपं पृथगीशमानिनः

06.17.033

न ह्य् अस्यास्ति प्रियः कश्चिन् नाप्रियः स्वः परो ऽपि वा ।
आत्मत्वात् सर्वभूतानां सर्वभूतप्रियो हरिः

06.17.034

तस्य चायं महाभागश्चित्रकेतुः प्रियो ऽनुगः ।
सर्वत्र समदृक् शान्तो ह्य् अहं चैवाच्युतप्रियः

06.17.035

तस्मान् न विस्मयः कार्यः पुरुषेषु महात्मसु ।
महापुरुषभक्तेषु शान्तेषु समदर्शिषु

06.17.036

भ्प्_06.17.036।0 श्रीशुक उवाच
इति श्रुत्वा भगवतः शिवस्योमाभिभाषितम् ।
बभूव शान्तधी राजन् देवी विगतविस्मया

06.17.037

इति भागवतो देव्याः प्रतिशप्तुमलन्तमः ।
मूर्ध्ना स जगृहे शापमेतावत् साधुलक्षणम्

06.17.038

जज्ञे त्वष्टुर्दक्षिणाग्नौ दानवीं योनिमाश्रितः ।
वृत्र इत्य् अभिविख्यातो ज्ञानविज्ञानसंयुतः

06.17.039

एतत् ते सर्वमाख्यातं यन् मां त्वं परिपृच्छसि ।
वृत्रस्यासुरजातेश्च कारणं भगवन्मतेः

06.17.040

इतिहासमिमं पुण्यं चित्रकेतोर्महात्मनः ।
माहात्म्यं विष्णुभक्तानां श्रुत्वा बन्धाद्विमुच्यते

06.17.041

य एतत् प्रातरुत्थाय श्रद्धया वाग्यतः पठेत् ।
इतिहासं हरिं स्मृत्वा स याति परमां गतिम्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc