भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 06.04

06.04.001

भ्प्_06.04.001।0 श्रीराजोवाच
देवासुरनृणां सर्गो नागानां मृगपक्षिणाम् ।
सामासिकस्त्वया प्रोक्तो यस्तु स्वायम्भुवे ऽन्तरे

06.04.002

तस्यैव व्यासमिच्छामि ज्ञातुं ते भगवन् यथा ।
अनुसर्गं यया शक्त्या ससर्ज भगवान् परः

06.04.003

भ्प्_06.04.003।0 श्रीसूत उवाच
इति सम्प्रश्नमाकर्ण्य राजर्षेर्बादरायणिः ।
प्रतिनन्द्य महायोगी जगाद मुनिसत्तमाः

06.04.004

भ्प्_06.04.004।0 श्रीशुक उवाच
यदा प्रचेतसः पुत्रा दश प्राचीनबर्हिषः ।
अन्तःसमुद्रादुन्मग्ना ददृशुर्गां द्रुमैर्वृताम्

06.04.005

द्रुमेभ्यः क्रुध्यमानास्ते तपोदीपितमन्यवः ।
मुखतो वायुमग्निं च ससृजुस्तद्दिधक्षया

06.04.006

ताभ्यां निर्दह्यमानांस्तान् उपलभ्य कुरूद्वह ।
राजोवाच महान् सोमो मन्युं प्रशमयन्निव

06.04.007

न द्रुमेभ्यो महाभागा दीनेभ्यो द्रोग्धुमर्हथ ।
विवर्धयिषवो यूयं प्रजानां पतयः स्मृताः

06.04.008

अहो प्रजापतिपतिर्भगवान् हरिरव्ययः ।
वनस्पतीन् ओषधीश्च ससर्जोर्जमिषं विभुः

06.04.009

अन्नं चराणामचरा ह्य् अपदः पादचारिणाम् ।
अहस्ता हस्तयुक्तानां द्विपदां च चतुष्पदः

06.04.010

यूयं च पित्रान्वादिष्टा देवदेवेन चानघाः ।
प्रजासर्गाय हि कथं वृक्षान् निर्दग्धुमर्हथ

06.04.011

आतिष्ठत सतां मार्गं कोपं यच्छत दीपितम् ।
पित्रा पितामहेनापि जुष्टं वः प्रपितामहैः

06.04.012

तोकानां पितरौ बन्धू दृशः पक्ष्म स्त्रियाः पतिः ।
पतिः प्रजानां भिक्षूणां गृह्य् अज्ञानां बुधः सुहृत्

06.04.013

अन्तर्देहेषु भूतानामात्मास्ते हरिरीश्वरः ।
सर्वं तद्धिष्ण्यमीक्षध्वमेवं वस्तोषितो ह्य् असौ

06.04.014

यः समुत्पतितं देह आकाशान् मन्युमुल्बणम् ।
आत्मजिज्ञासया यच्छेत् स गुणान् अतिवर्तते

06.04.015

अलं दग्धैर्द्रुमैर्दीनैः खिलानां शिवमस्तु वः ।
वार्क्षी ह्य् एषा वरा कन्या पत्नीत्वे प्रतिगृह्यताम्

06.04.016

इत्य् आमन्त्र्य वरारोहां कन्यामाप्सरसीं नृप ।
सोमो राजा ययौ दत्त्वा ते धर्मेणोपयेमिरे

06.04.017

तेभ्यस्तस्यां समभवद्दक्षः प्राचेतसः किल ।
यस्य प्रजाविसर्गेण लोका आपूरितास्त्रयः

06.04.018

यथा ससर्ज भूतानि दक्षो दुहितृवत्सलः ।
रेतसा मनसा चैव तन् ममावहितः शृणु

06.04.019

मनसैवासृजत् पूर्वं प्रजापतिरिमाः प्रजाः ।
देवासुरमनुष्यादीन् नभःस्थलजलौकसः

06.04.020

तमबृंहितमालोक्य प्रजासर्गं प्रजापतिः ।
विन्ध्यपादान् उपव्रज्य सो ऽचरद्दुष्करं तपः

06.04.021

तत्राघमर्षणं नाम तीर्थं पापहरं परम् ।
उपस्पृश्यानुसवनं तपसातोषयद्धरिम्

06.04.022

अस्तौषीद्धंसगुह्येन भगवन्तमधोक्षजम् ।
तुभ्यं तदभिधास्यामि कस्यातुष्यद्यथा हरिः

06.04.023

भ्प्_06.04.023।0 श्रीप्रजापतिरुवाच
नमः परायावितथानुभूतये गुणत्रयाभासनिमित्तबन्धवे ।
अदृष्टधाम्ने गुणतत्त्वबुद्धिभिर् निवृत्तमानाय दधे स्वयम्भुवे

06.04.024

न यस्य सख्यं पुरुषो ऽवैति सख्युः सखा वसन् संवसतः पुरे ऽस्मिन् ।
गुणो यथा गुणिनो व्यक्तदृष्टेस् तस्मै महेशाय नमस्करोमि

06.04.025

देहो ऽसवो ऽक्षा मनवो भूतमात्राम् आत्मानमन्यं च विदुः परं यत् ।
सर्वं पुमान् वेद गुणांश्च तज्ज्ञो न वेद सर्वज्ञमनन्तमीडे

06.04.026

यदोपरामो मनसो नामरूप रूपस्य दृष्टस्मृतिसम्प्रमोषात् ।
य ईयते केवलया स्वसंस्थया हंसाय तस्मै शुचिसद्मने नमः

06.04.027

मनीषिणो ऽन्तर्हृदि सन्निवेशितं स्वशक्तिभिर्नवभिश्च त्रिवृद्भिः ।
वह्निं यथा दारुणि पाञ्चदश्यं मनीषया निष्कर्षन्ति गूढम्

06.04.028

स वै ममाशेषविशेषमाया निषेधनिर्वाणसुखानुभूतिः ।
स सर्वनामा स च विश्वरूपः प्रसीदतामनिरुक्तात्मशक्तिः

06.04.029

यद्यन् निरुक्तं वचसा निरूपितं धियाक्षभिर्वा मनसोत यस्य ।
मा भूत् स्वरूपं गुणरूपं हि तत् तत् स वै गुणापायविसर्गलक्षणः

06.04.030

यस्मिन् यतो येन च यस्य यस्मै यद्यो यथा कुरुते कार्यते च ।
परावरेषां परमं प्राक् प्रसिद्धं तद्ब्रह्म तद्धेतुरनन्यदेकम्

06.04.031

यच्छक्तयो वदतां वादिनां वै विवादसंवादभुवो भवन्ति ।
कुर्वन्ति चैषां मुहुरात्ममोहं तस्मै नमो ऽनन्तगुणाय भूम्ने

06.04.032

अस्तीति नास्तीति च वस्तुनिष्ठयोर् एकस्थयोर्भिन्नविरुद्धधर्मणोः ।
अवेक्षितं किञ्चन योगसाङ्ख्ययोः समं परं ह्य् अनुकूलं बृहत् तत्

06.04.033

यो ऽनुग्रहार्थं भजतां पादमूलम् अनामरूपो भगवान् अनन्तः ।
नामानि रूपाणि च जन्मकर्मभिर् भेजे स मह्यं परमः प्रसीदतु

06.04.034

यः प्राकृतैर्ज्ञानपथैर्जनानां यथाशयं देहगतो विभाति ।
यथानिलः पार्थिवमाश्रितो गुणं स ईश्वरो मे कुरुतां मनोरथम्

06.04.035

भ्प्_06.04.035।0 श्रीशुक उवाच
इति स्तुतः संस्तुवतः स तस्मिन्नघमर्षणे ।
प्रादुरासीत् कुरुश्रेष्ठ भगवान् भक्तवत्सलः

06.04.036

कृतपादः सुपर्णांसे प्रलम्बाष्टमहाभुजः ।
चक्रशङ्खासिचर्मेषु धनुःपाशगदाधरः

06.04.037

पीतवासा घनश्यामः प्रसन्नवदनेक्षणः ।
वनमालानिवीताङ्गो लसच्छ्रीवत्सकौस्तुभः

06.04.038

महाकिरीटकटकः स्फुरन्मकरकुण्डलः ।
काञ्च्यङ्गुलीयवलय नूपुराङ्गदभूषितः

06.04.039

त्रैलोक्यमोहनं रूपं बिभ्रत् त्रिभुवनेश्वरः ।
वृतो नारदनन्दाद्यैः पार्षदैः सुरयूथपैः

06.04.040

स्तूयमानो ऽनुगायद्भिः सिद्धगन्धर्वचारणैः ।
रूपं तन् महदाश्चर्यं विचक्ष्यागतसाध्वसः

06.04.041

ननाम दण्डवद्भूमौ प्रहृष्टात्मा प्रजापतिः ।
न किञ्चनोदीरयितुमशकत् तीव्रया मुदा ।
आपूरितमनोद्वारैर्ह्रदिन्य इव निर्झरैः

06.04.042

तं तथावनतं भक्तं प्रजाकामं प्रजापतिम् ।
चित्तज्ञः सर्वभूतानामिदमाह जनार्दनः

06.04.043

भ्प्_06.04.043।0 श्रीभगवान् उवाच
प्राचेतस महाभाग संसिद्धस्तपसा भवान् ।
यच् छ्रद्धया मत्परया मयि भावं परं गतः

06.04.044

प्रीतो ऽहं ते प्रजानाथ यत् ते ऽस्योद्बृंहणं तपः ।
ममैष कामो भूतानां यद्भूयासुर्विभूतयः

06.04.045

ब्रह्मा भवो भवन्तश्च मनवो विबुधेश्वराः ।
विभूतयो मम ह्य् एता भूतानां भूतिहेतवः

06.04.046

तपो मे हृदयं ब्रह्मंस्तनुर्विद्या क्रियाकृतिः ।
अङ्गानि क्रतवो जाता धर्म आत्मासवः सुराः

06.04.047

अहमेवासमेवाग्रे नान्यत् किञ्चान्तरं बहिः ।
संज्ञानमात्रमव्यक्तं प्रसुप्तमिव विश्वतः

06.04.048

मय्य् अनन्तगुणे ऽनन्ते गुणतो गुणविग्रहः ।
यदासीत् तत एवाद्यः स्वयम्भूः समभूदजः

06.04.049

स वै यदा महादेवो मम वीर्योपबृंहितः ।
मेने खिलमिवात्मानमुद्यतः स्वर्गकर्मणि

06.04.050

अथ मे ऽभिहितो देवस्तपो ऽतप्यत दारुणम् ।
नव विश्वसृजो युष्मान् येनादावसृजद्विभुः

06.04.051

एषा पञ्चजनस्याङ्ग दुहिता वै प्रजापतेः ।
असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम्

06.04.052

मिथुनव्यवायधर्मस्त्वं प्रजासर्गमिमं पुनः ।
मिथुनव्यवायधर्मिण्यां भूरिशो भावयिष्यसि

06.04.053

त्वत्तो ऽधस्तात् प्रजाः सर्वा मिथुनीभूय मायया ।
मदीयया भविष्यन्ति हरिष्यन्ति च मे बलिम्

06.04.054

भ्प्_06.04.054।0 श्रीशुक उवाच
इत्य् उक्त्वा मिषतस्तस्य भगवान् विश्वभावनः ।
स्वप्नोपलब्धार्थ इव तत्रैवान्तर्दधे हरिः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc