भागवत पुराण · अध्याय 06.03
भ्प्_06.03.001।0 श्रीराजोवाच
निशम्य देवः स्वभटोपवर्णितं प्रत्याह किं तान् अपि धर्मराजः ।
एवं हताज्ञो विहतान् मुरारेर् नैदेशिकैर्यस्य वशे जनो ऽयम्
यमस्य देवस्य न दण्डभङ्गः कुतश्चनर्षे श्रुतपूर्व आसीत् ।
एतन् मुने वृश्चति लोकसंशयं न हि त्वदन्य इति मे विनिश्चितम्
भ्प्_06.03.003।0 श्रीशुक उवाच
भगवत्पुरुषै राजन् याम्याः प्रतिहतोद्यमाः ।
पतिं विज्ञापयामासुर्यमं संयमनीपतिम्
भ्प्_06.03.004।0 यमदूता ऊचुः
कति सन्तीह शास्तारो जीवलोकस्य वै प्रभो ।
त्रैविध्यं कुर्वतः कर्म फलाभिव्यक्तिहेतवः
यदि स्युर्बहवो लोके शास्तारो दण्डधारिणः ।
कस्य स्यातां न वा कस्य मृत्युश्चामृतमेव वा
किन्तु शास्तृबहुत्वे स्याद्बहूनामिह कर्मिणाम् ।
शास्तृत्वमुपचारो हि यथा मण्डलवर्तिनाम्
अतस्त्वमेको भूतानां सेश्वराणामधीश्वरः ।
शास्ता दण्डधरो नॄणां शुभाशुभविवेचनः
तस्य ते विहितो दण्डो न लोके वर्तते ऽधुना ।
चतुर्भिरद्भुतैः सिद्धैराज्ञा ते विप्रलम्भिता
नीयमानं तवादेशादस्माभिर्यातनागृहान् ।
व्यामोचयन् पातकिनं छित्त्वा पाशान् प्रसह्य ते
तांस्ते वेदितुमिच्छामो यदि नो मन्यसे क्षमम् ।
नारायणेत्य् अभिहिते मा भैरित्य् आययुर्द्रुतम्
भ्प्_06.03.011।0 श्रीबादरायणिरुवाच
इति देवः स आपृष्टः प्रजासंयमनो यमः ।
प्रीतः स्वदूतान् प्रत्याह स्मरन् पादाम्बुजं हरेः
भ्प्_06.03.012।0 यम उवाच
परो मदन्यो जगतस्तस्थुषश्च ओतं प्रोतं पटवद्यत्र विश्वम् ।
यदंशतो ऽस्य स्थितिजन्मनाशा नस्य् ओतवद्यस्य वशे च लोकः
यो नामभिर्वाचि जनं निजायां बध्नाति तन्त्र्यामिव दामभिर्गाः ।
यस्मै बलिं त इमे नामकर्म निबन्धबद्धाश्चकिता वहन्ति
अहं महेन्द्रो निरृतिः प्रचेताः सोमो ऽग्निरीशः पवनो विरिञ्चिः ।
आदित्यविश्वे वसवो ऽथ साध्या मरुद्गणा रुद्रगणाः ससिद्धाः
अन्ये च ये विश्वसृजो ऽमरेशा भृग्वादयो ऽस्पृष्टरजस्तमस्काः ।
यस्येहितं न विदुः स्पृष्टमायाः सत्त्वप्रधाना अपि किं ततो ऽन्ये
यं वै न गोभिर्मनसासुभिर्वा हृदा गिरा वासुभृतो विचक्षते ।
आत्मानमन्तर्हृदि सन्तमात्मनां चक्षुर्यथैवाकृतयस्ततः परम्
तस्यात्मतन्त्रस्य हरेरधीशितुः परस्य मायाधिपतेर्महात्मनः ।
प्रायेण दूता इह वै मनोहराश् चरन्ति तद्रूपगुणस्वभावाः
भूतानि विष्णोः सुरपूजितानि दुर्दर्शलिङ्गानि महाद्भुतानि ।
रक्षन्ति तद्भक्तिमतः परेभ्यो मत्तश्च मर्त्यान् अथ सर्वतश्च
धर्मं तु साक्षाद्भगवत्प्रणीतं न वै विदुरृषयो नापि देवाः ।
न सिद्धमुख्या असुरा मनुष्याः कुतो नु विद्याधरचारणादयः
स्वयम्भूर्नारदः शम्भुः कुमारः कपिलो मनुः ।
प्रह्लादो जनको भीष्मो बलिर्वैयासकिर्वयम्
द्वादशैते विजानीमो धर्मं भागवतं भटाः ।
गुह्यं विशुद्धं दुर्बोधं यं ज्ञात्वामृतमश्नुते
एतावान् एव लोके ऽस्मिन् पुंसां धर्मः परः स्मृतः ।
भक्तियोगो भगवति तन्नामग्रहणादिभिः
नामोच्चारणमाहात्म्यं हरेः पश्यत पुत्रकाः ।
अजामिलो ऽपि येनैव मृत्युपाशादमुच्यत
एतावतालमघनिर्हरणाय पुंसां $ सङ्कीर्तनं भगवतो गुणकर्मनाम्नाम् &अम्प्;
विक्रुश्य पुत्रमघवान् यदजामिलो ऽपि % नारायणेति म्रियमाण इयाय मुक्तिम् ॥ भ्प्_06.03.024* ॥
प्रायेण वेद तदिदं न महाजनो ऽयं $ देव्या विमोहितमतिर्बत माययालम् &
प्रायेण वेद तदिदं न महाजनो ऽयं $ देव्या विमोहितमतिर्बत माययालम् &
त्रय्यां जडीकृतमतिर्मधुपुष्पितायां % वैतानिके महति कर्मणि युज्यमानः ॥ भ्प्_06.03.025* ॥
एवं विमृश्य सुधियो भगवत्य् अनन्ते $ सर्वात्मना विदधते खलु भावयोगम् &
एवं विमृश्य सुधियो भगवत्य् अनन्ते $ सर्वात्मना विदधते खलु भावयोगम् &
ते मे न दण्डमर्हन्त्य् अथ यद्य् अमीषां % स्यात् पातकं तदपि हन्त्य् उरुगायवादः ॥ भ्प्_06.03.026* ॥
ते देवसिद्धपरिगीतपवित्रगाथा $ ये साधवः समदृशो भगवत्प्रपन्नाः &
ते देवसिद्धपरिगीतपवित्रगाथा $ ये साधवः समदृशो भगवत्प्रपन्नाः &
तान् नोपसीदत हरेर्गदयाभिगुप्तान् % नैषां वयं न च वयः प्रभवाम दण्डे ॥ भ्प्_06.03.027* ॥
तान् आनयध्वमसतो विमुखान् मुकुन्द $ पादारविन्दमकरन्दरसादजस्रम् &
तान् आनयध्वमसतो विमुखान् मुकुन्द $ पादारविन्दमकरन्दरसादजस्रम् &
निष्किञ्चनैः परमहंसकुलैरसङ्गैर् % जुष्टाद्गृहे निरयवर्त्मनि बद्धतृष्णान् ॥ भ्प्_06.03.028* ॥
जिह्वा न वक्ति भगवद्गुणनामधेयं $ चेतश्च न स्मरति तच्चरणारविन्दम् &
जिह्वा न वक्ति भगवद्गुणनामधेयं $ चेतश्च न स्मरति तच्चरणारविन्दम् &
कृष्णाय नो नमति यच्छिर एकदापि % तान् आनयध्वमसतो ऽकृतविष्णुकृत्यान् ॥ भ्प्_06.03.029* ॥
तत् क्षम्यतां स भगवान् पुरुषः पुराणो $ नारायणः स्वपुरुषैर्यदसत् कृतं नः &
तत् क्षम्यतां स भगवान् पुरुषः पुराणो $ नारायणः स्वपुरुषैर्यदसत् कृतं नः &
स्वानामहो न विदुषां रचिताञ्जलीनां % क्षान्तिर्गरीयसि नमः पुरुषाय भूम्ने ॥ भ्प्_06.03.030* ॥
तस्मात् सङ्कीर्तनं विष्णोर्जगन्मङ्गलमंहसाम् ।
महतामपि कौरव्य विद्ध्य् ऐकान्तिकनिष्कृतम्
शृण्वतां गृणतां वीर्याण्य् उद्दामानि हरेर्मुहुः ।
यथा सुजातया भक्त्या शुद्ध्येन् नात्मा व्रतादिभिः
कृष्णाङ्घ्रिपद्ममधुलिण् न पुनर्विसृष्ट $ मायागुणेषु रमते वृजिनावहेषु &अम्प्;
अन्यस्तु कामहत आत्मरजः प्रमार्ष्टुम् % ईहेत कर्म यत एव रजः पुनः स्यात् ॥ भ्प्_06.03.033* ॥
इत्थं स्वभर्तृगदितं भगवन्महित्वं $ संस्मृत्य विस्मितधियो यमकिङ्करास्ते &
इत्थं स्वभर्तृगदितं भगवन्महित्वं $ संस्मृत्य विस्मितधियो यमकिङ्करास्ते &
नैवाच्युताश्रयजनं प्रतिशङ्कमाना % द्रष्टुं च बिभ्यति ततः प्रभृति स्म राजन् ॥ भ्प्_06.03.034* ॥
इतिहासमिमं गुह्यं भगवान् कुम्भसम्भवः ।
कथयामास मलय आसीनो हरिमर्चयन्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0