भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 06.05

06.05.001

भ्प्_06.05.001।0 श्रीशुक उवाच
तस्यां स पाञ्चजन्यां वै विष्णुमायोपबृंहितः ।
हर्यश्वसंज्ञान् अयुतं पुत्रान् अजनयद्विभुः

06.05.002

अपृथग्धर्मशीलास्ते सर्वे दाक्षायणा नृप ।
पित्रा प्रोक्ताः प्रजासर्गे प्रतीचीं प्रययुर्दिशम्

06.05.003

तत्र नारायणसरस्तीर्थं सिन्धुसमुद्रयोः ।
सङ्गमो यत्र सुमहन् मुनिसिद्धनिषेवितम्

06.05.004

तदुपस्पर्शनादेव विनिर्धूतमलाशयाः ।
धर्मे पारमहंस्ये च प्रोत्पन्नमतयो ऽप्य् उत

06.05.005

तेपिरे तप एवोग्रं पित्रादेशेन यन्त्रिताः ।
प्रजाविवृद्धये यत्तान् देवर्षिस्तान् ददर्श ह

06.05.006

उवाच चाथ हर्यश्वाः कथं स्रक्ष्यथ वै प्रजाः ।
अदृष्ट्वान्तं भुवो यूयं बालिशा बत पालकाः

06.05.007

तथैकपुरुषं राष्ट्रं बिलं चादृष्टनिर्गमम् ।
बहुरूपां स्त्रियं चापि पुमांसं पुंश्चलीपतिम्

06.05.008

नदीमुभयतो वाहां पञ्चपञ्चाद्भुतं गृहम् ।
क्वचिद्धंसं चित्रकथं क्षौरपव्यं स्वयं भ्रमि

06.05.009

कथं स्वपितुरादेशमविद्वांसो विपश्चितः ।
अनुरूपमविज्ञाय अहो सर्गं करिष्यथ

06.05.010

भ्प्_06.05.010।0 श्रीशुक उवाच
तन् निशम्याथ हर्यश्वा औत्पत्तिकमनीषया ।
वाचः कूटं तु देवर्षेः स्वयं विममृशुर्धिया

06.05.011

भूः क्षेत्रं जीवसंज्ञं यदनादि निजबन्धनम् ।
अदृष्ट्वा तस्य निर्वाणं किमसत्कर्मभिर्भवेत्

06.05.012

एक एवेश्वरस्तुर्यो भगवान् स्वाश्रयः परः ।
तमदृष्ट्वाभवं पुंसः किमसत्कर्मभिर्भवेत्

06.05.013

पुमान् नैवैति यद्गत्वा बिलस्वर्गं गतो यथा ।
प्रत्यग्धामाविद इह किमसत्कर्मभिर्भवेत्

06.05.014

नानारूपात्मनो बुद्धिः स्वैरिणीव गुणान्विता ।
तन्निष्ठामगतस्येह किमसत्कर्मभिर्भवेत्

06.05.015

तत्सङ्गभ्रंशितैश्वर्यं संसरन्तं कुभार्यवत् ।
तद्गतीरबुधस्येह किमसत्कर्मभिर्भवेत्

06.05.016

सृष्ट्यप्ययकरीं मायां वेलाकूलान्तवेगिताम् ।
मत्तस्य तामविज्ञस्य किमसत्कर्मभिर्भवेत्

06.05.017

पञ्चविंशतितत्त्वानां पुरुषो ऽद्भुतदर्पणः ।
अध्यात्ममबुधस्येह किमसत्कर्मभिर्भवेत्

06.05.018

ऐश्वरं शास्त्रमुत्सृज्य बन्धमोक्षानुदर्शनम् ।
विविक्तपदमज्ञाय किमसत्कर्मभिर्भवेत्

06.05.019

कालचक्रं भ्रमि तीक्ष्णं सर्वं निष्कर्षयज् जगत् ।
स्वतन्त्रमबुधस्येह किमसत्कर्मभिर्भवेत्

06.05.020

शास्त्रस्य पितुरादेशं यो न वेद निवर्तकम् ।
कथं तदनुरूपाय गुणविस्रम्भ्य् उपक्रमेत्

06.05.021

इति व्यवसिता राजन् हर्यश्वा एकचेतसः ।
प्रययुस्तं परिक्रम्य पन्थानमनिवर्तनम्

06.05.022

स्वरब्रह्मणि निर्भात हृषीकेशपदाम्बुजे ।
अखण्डं चित्तमावेश्य लोकान् अनुचरन् मुनिः

06.05.023

नाशं निशम्य पुत्राणां नारदाच् छीलशालिनाम् ।
अन्वतप्यत कः शोचन् सुप्रजस्त्वं शुचां पदम्

06.05.024

स भूयः पाञ्चजन्यायामजेन परिसान्त्वितः ।
पुत्रान् अजनयद्दक्षः सवलाश्वान् सहस्रिणः

06.05.025

ते च पित्रा समादिष्टाः प्रजासर्गे धृतव्रताः ।
नारायणसरो जग्मुर्यत्र सिद्धाः स्वपूर्वजाः

06.05.026

तदुपस्पर्शनादेव विनिर्धूतमलाशयाः ।
जपन्तो ब्रह्म परमं तेपुस्तत्र महत् तपः

06.05.027

अब्भक्षाः कतिचिन् मासान् कतिचिद्वायुभोजनाः ।
आराधयन् मन्त्रमिममभ्यस्यन्त इडस्पतिम्

06.05.028

ओं नमो नारायणाय पुरुषाय महात्मने ।
विशुद्धसत्त्वधिष्ण्याय महाहंसाय धीमहि

06.05.029

इति तान् अपि राजेन्द्र प्रजासर्गधियो मुनिः ।
उपेत्य नारदः प्राह वाचः कूटानि पूर्ववत्

06.05.030

दाक्षायणाः संशृणुत गदतो निगमं मम ।
अन्विच्छतानुपदवीं भ्रातॄणां भ्रातृवत्सलाः

06.05.031

भ्रातॄणां प्रायणं भ्राता यो ऽनुतिष्ठति धर्मवित् ।
स पुण्यबन्धुः पुरुषो मरुद्भिः सह मोदते

06.05.032

एतावदुक्त्वा प्रययौ नारदो ऽमोघदर्शनः ।
ते ऽपि चान्वगमन् मार्गं भ्रातॄणामेव मारिष

06.05.033

सध्रीचीनं प्रतीचीनं परस्यानुपथं गताः ।
नाद्यापि ते निवर्तन्ते पश्चिमा यामिनीरिव

06.05.034

एतस्मिन् काल उत्पातान् बहून् पश्यन् प्रजापतिः ।
पूर्ववन् नारदकृतं पुत्रनाशमुपाशृणोत्

06.05.035

चुक्रोध नारदायासौ पुत्रशोकविमूर्च्छितः ।
देवर्षिमुपलभ्याह रोषाद्विस्फुरिताधरः

06.05.036

भ्प्_06.05.036।0 श्रीदक्ष उवाच
अहो असाधो साधूनां साधुलिङ्गेन नस्त्वया ।
असाध्वकार्य् अर्भकाणां भिक्षोर्मार्गः प्रदर्शितः

06.05.037

ऋणैस्त्रिभिरमुक्तानाममीमांसितकर्मणाम् ।
विघातः श्रेयसः पाप लोकयोरुभयोः कृतः

06.05.038

एवं त्वं निरनुक्रोशो बालानां मतिभिद्धरेः ।
पार्षदमध्ये चरसि यशोहा निरपत्रपः

06.05.039

ननु भागवता नित्यं भूतानुग्रहकातराः ।
ऋते त्वां सौहृदघ्नं वै वैरङ्करमवैरिणाम्

06.05.040

नेत्थं पुंसां विरागः स्यात् त्वया केवलिना मृषा ।
मन्यसे यद्य् उपशमं स्नेहपाशनिकृन्तनम्

06.05.041

नानुभूय न जानाति पुमान् विषयतीक्ष्णताम् ।
निर्विद्यते स्वयं तस्मान् न तथा भिन्नधीः परैः

06.05.042

यन् नस्त्वं कर्मसन्धानां साधूनां गृहमेधिनाम् ।
कृतवान् असि दुर्मर्षं विप्रियं तव मर्षितम्

06.05.043

तन्तुकृन्तन यन् नस्त्वमभद्रमचरः पुनः ।
तस्माल् लोकेषु ते मूढ न भवेद्भ्रमतः पदम्

06.05.044

भ्प्_06.05.044।0 श्रीशुक उवाच
प्रतिजग्राह तद्बाढं नारदः साधुसम्मतः ।
एतावान् साधुवादो हि तितिक्षेतेश्वरः स्वयम्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc