भागवत पुराण · अध्याय 05.11
भ्प्_05.11.001।0 ब्राह्मण उवाच
अकोविदः कोविद-वाद-वादान् वदस्य् अथो नाति-विदां वरिष्ठः ।
न सूरयो हि व्यवहारम् एनं तत्त्वावमर्शेन सहामनन्ति
तथैव राजन्न् उरु-गार्हमेध- वितान-विद्योरु-विजृम्भितेषु ।
न वेद-वादेषु हि तत्त्व-वादः प्रायेण शुद्धो नु चकास्ति साधुः
न तस्य तत्त्व-ग्रहणाय साक्षाद् वरीयसीर् अपि वाचः समासन् ।
स्वप्ने निरुक्त्या गृहमेधि-सौख्यं न यस्य हेयानुमितं स्वयं स्यात्
यावन् मनो रजसा पूरुषस्य सत्त्वेन वा तमसा वानुरुद्धम् ।
चेतोभिर् आकूतिभिर् आतनोति निरङ्कुशं कुशलं चेतरं वा
स वासनात्मा विषयोपरक्तो गुण-प्रवाहो विकृतः षोडशात्मा ।
बिभ्रत् पृथङ्-नामभि रूप-भेदम् अन्तर्-बहिष्ट्वं च पुरैस् तनोति
दुःखं सुखं व्यतिरिक्तं च तीव्रं कालोपपन्नं फलम् आव्यनक्ति ।
आलिङ्ग्य माया-रचितान्तरात्मा स्व-देहिनं संसृति-चक्र-कूटः
तावान् अयं व्यवहारः सदाविः क्षेत्रज्ञ-साक्ष्यो भवति स्थूल-सूक्ष्मः ।
तस्मान् मनो लिङ्गम् अदो वदन्ति गुणागुणत्वस्य परावरस्य
गुणानुरक्तं व्यसनाय जन्तोः क्षेमाय नैर्गुण्यम् अथो मनः स्यात् ।
यथा प्रदीपो घृत-वर्तिम् अश्नन् शिखाः सधूमा भजति ह्य् अन्यदा स्वम् ।
पदं तथा गुण-कर्मानुबद्धं वृत्तीर् मनः श्रयते ऽन्यत्र तत्त्वम्
एकादशासन् मनसो हि वृत्तय आकूतयः पञ्च धियो ऽभिमानः ।
मात्राणि कर्माणि पुरं च तासां वदन्ति हैकादश वीर भूमीः
गन्धाकृति-स्पर्श-रस-श्रवांसि विसर्ग-रत्य्-अर्त्य्-अभिजल्प-शिल्पाः ।
एकादशं स्वीकरणं ममेति शय्याम् अहं द्वादशम् एक आहुः
द्रव्य-स्वभावाशय-कर्म-कालैर् एकादशामी मनसो विकाराः ।
सहस्रशः शतशः कोटिशश् च क्षेत्रज्ञतो न मिथो न स्वतः स्युः
क्षेत्रज्ञ एता मनसो विभूतीर् जीवस्य माया-रचितस्य नित्याः ।
आविर्हिताः क्वापि तिरोहिताश् च शुद्धो विचष्टे ह्य् अविशुद्ध-कर्तुः
क्षेत्रज्ञ आत्मा पुरुषः पुराणः साक्षात् स्वयं ज्योतिर् अजः परेशः ।
नारायणो भगवान् वासुदेवः स्व-माययात्मन्य् अवधीयमानः
यथानिलः स्थावर-जङ्गमानाम् आत्म-स्वरूपेण निविष्ट ईशेत् ।
एवं परो भगवान् वासुदेवः क्षेत्रज्ञ आत्मेदम् अनुप्रविष्टः
न यावद् एतां तनु-भृन् नरेन्द्र विधूय मायां वयुनोदयेन ।
विमुक्त-सङ्गो जित-षट्-सपत्नो वेदात्म-तत्त्वं भ्रमतीह तावत्
न यावद् एतन् मन आत्म-लिङ्गं संसार-तापावपनं जनस्य ।
यच् छोक-मोहामय-राग-लोभ- वैरानुबन्धं ममतां विधत्ते
भ्रातृव्यम् एनं तद् अदभ्र-वीर्यम् उपेक्षयाध्येधितम् अप्रमत्तः ।
गुरोर् हरेश् चरणोपासनास्त्रो जहि व्यलीकं स्वयम् आत्म-मोषम्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0