भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 05.10

05.10.001

_*
भ्प्_05.10.001।0 श्री-शुक उवाच
अथ सिन्धु-सौवीर-पते रहूगणस्य व्रजत इक्षुमत्यास् तटे तत्-कुल-पतिना शिबिका-वाह-पुरुषान्वेषण-समये दैवेनोपसादितः स द्विज-वर उपलब्ध एष पीवा युवा संहननाङ्गो गो-खरवद् धुरं वोढुम् अलम् इति पूर्व-विष्टि-गृहीतैः सह गृहीतः प्रसभम् अतद्-अर्ह उवाह शिबिकां स महानुभावः

05.10.002

_*
यदा हि द्विज-वरस्येषु-मात्रावलोकानुगतेर् न समाहिता पुरुष-गतिस् तदा विषम-गतां स्व-शिबिकां रहूगण उपधार्य पुरुषान् अधिवहत आह हे वोढारः साध्व् अतिक्रमत किम् इति विषमम् उह्यते यानम् इति

05.10.003

_*
अथ त ईश्वर-वचः सोपालम्भम् उपाकर्ण्योपाय-तुरीयाच् छङ्कित-मनसस् तं विज्ञापयां बभूवुः

05.10.004

_*
न वयं नर-देव प्रमत्ता भवन्-नियमानुपथाः साध्व् एव वहामः अयम् अधुनैव नियुक्तो ऽपि न द्रुतं व्रजति नानेन सह वोढुम् उ ह वयं पारयाम इति

05.10.005

_*
सांसर्गिको दोष एव नूनम् एकस्यापि सर्वेषां सांसर्गिकाणां भवितुम् अर्हतीति निश्चित्य निशम्य कृपण-वचो राजा रहूगण उपासित-वृद्धो ऽपि निसर्गेण बलात् कृत ईषद्-उत्थित-मन्युर् अविस्पष्ट-ब्रह्म-तेजसं जात-वेदसम् इव रजसावृत-मतिर् आह

05.10.006

_*
अहो कष्टं भ्रातर् व्यक्तम् उरु-परिश्रान्तो दीर्घम् अध्वानम् एक एव ऊहिवान् सुचिरं नाति-पीवा न संहननाङ्गो जरसा चोपद्रुतो भवान् सखे नो एवापर एते सङ्घट्टिन इति बहु-विप्रलब्धो ऽप्य् अविद्यया रचित-द्रव्य-गुण-कर्माशय-स्व-चरम-कलेवरे ऽवस्तुनि संस्थान-विशेषे ऽहं ममेत्य् अनध्यारोपित-मिथ्या-प्रत्ययो ब्रह्म-भूतस् तूष्णीं शिबिकां पूर्ववद् उवाह

05.10.007

_*
अथ पुनः स्व-शिबिकायां विषम-गतायां प्रकुपित उवाच रहूगणः किम् इदम् अरे त्वं जीवन्-मृतो मां कदर्थी-कृत्य भर्तृ-शासनम् अतिचरसि प्रमत्तस्य च ते करोमि चिकित्सां दण्ड-पाणिर् इव जनताया यथा प्रकृतिं स्वां भजिष्यस इति

05.10.008

_*
एवं बह्व् अबद्धम् अपि भाषमाणं नर-देवाभिमानं रजसा तमसानुविद्धेन मदेन तिरस्कृताशेष-भगवत्-प्रिय-निकेतं पण्डित-मानिनं स भगवान् ब्राह्मणो ब्रह्म-भूत-सर्व-भूत-सुहृद्-आत्मा योगेश्वर-चर्यायां नाति-व्युत्पन्न-मतिं स्मयमान इव विगत-स्मय इदम् आह

05.10.009

_*
भ्प्_05.10.009।0 ब्राह्मण उवाच
त्वयोदितं व्यक्तम् अविप्रलब्धं भर्तुः स मे स्याद् यदि वीर भारः ।
गन्तुर् यदि स्याद् अधिगम्यम् अध्वा पीवेति राशौ न विदां प्रवादः

05.10.010

स्थौल्यं कार्श्यं व्याधय आधयश् च क्षुत् तृड् भयं कलिर् इच्छा जरा च ।
निद्रा रतिर् मन्युर् अहं मदः शुचो देहेन जातस्य हि मे न सन्ति

05.10.011

जीवन्-मृतत्वं नियमेन राजन् आद्यन्तवद् यद् विकृतस्य दृष्टम् ।
स्व-स्वाम्य-भावो ध्रुव ईड्य यत्र तर्ह्य् उच्यते ऽसौ विधिकृत्य-योगः

05.10.012

विशेष-बुद्धेर् विवरं मनाक् च पश्याम यन् न व्यवहारतो ऽन्यत् ।
क ईश्वरस् तत्र किम् ईशितव्यं तथापि राजन् करवाम किं ते

05.10.013

उन्मत्त-मत्त-जडवत् स्व-संस्थां गतस्य मे वीर चिकित्सितेन ।
अर्थः कियान् भवता शिक्षितेन स्तब्ध-प्रमत्तस्य च पिष्टपेषः

05.10.014

भ्प्_05.10.014।0 श्री-शुक उवाच
एतावद् अनुवाद-परिभाषया प्रत्युदीर्य मुनि-वर उपशम-शील उपरतानात्म्य-निमित्त उपभोगेन कर्मारब्धं व्यपनयन् राज-यानम् अपि तथोवाह

05.10.015

_*
स चापि पाण्डवेय सिन्धु-सौवीर-पतिस् तत्त्व-जिज्ञासायां सम्यक्-श्रद्धयाधिकृताधिकारस् तद् धृदय-ग्रन्थि-मोचनं द्विज-वच आश्रुत्य बहु-योग-ग्रन्थ-सम्मतं त्वरयावरुह्य शिरसा पाद-मूलम् उपसृतः क्षमापयन् विगत-नृप-देव-स्मय उवाच

05.10.016

_*
कस् त्वं निगूढश् चरसि द्विजानां बिभर्षि सूत्रं कतमो ऽवधूतः ।
कस्यासि कुत्रत्य इहापि कस्मात् क्षेमाय नश् चेद् असि नोत शुक्लः

05.10.017

नाहं विशङ्के सुर-राज-वज्रान् न त्र्यक्ष-शूलान् न यमस्य दण्डात् ।
नाग्न्य्-अर्क-सोमानिल-वित्तपास्त्राच् छङ्के भृशं ब्रह्म-कुलावमानात्

05.10.018

तद् ब्रूह्य् असङ्गो जडवन् निगूढ- विज्ञान-वीर्यो विचरस्य् अपारः ।
वचांसि योग-ग्रथितानि साधो न नः क्षमन्ते मनसापि भेत्तुम्

05.10.019

अहं च योगेश्वरम् आत्म-तत्त्व- विदां मुनीनां परमं गुरुं वै ।
प्रष्टुं प्रवृत्तः किम् इहारणं तत् साक्षाद् धरिं ज्ञान-कलावतीर्णम्

05.10.020

स वै भवा लोक-निरीक्षणार्थम् अव्यक्त-लिङ्गो विचरत्य् अपि स्वित् ।
योगेश्वराणां गतिम् अन्ध-बुद्धिः कथं विचक्षीत गृहानुबन्धः

05.10.021

दृष्टः श्रमः कर्मत आत्मनो वै भर्तुर् गन्तुर् भवतश् चानुमन्ये ।
यथासतोदानयनाद्य्-अभावात् समूल इष्टो व्यवहार-मार्गः

05.10.022

स्थाल्य्-अग्नि-तापात् पयसो ऽभितापस् तत्-तापतस् तण्डुल-गर्भ-रन्धिः ।
देहेन्द्रियास्वाशय-सन्निकर्षात् तत्-संसृतिः पुरुषस्यानुरोधात्

05.10.023

शास्ताभिगोप्ता नृपतिः प्रजानां यः किङ्करो वै न पिनष्टि पिष्टम् ।
स्व-धर्मम् आराधनम् अच्युतस्य यद् ईहमानो विजहात्य् अघौघम्

05.10.024

तन् मे भवान् नर-देवाभिमान- मदेन तुच्छीकृत-सत्तमस्य ।
कृषीष्ट मैत्री-दृशम् आर्त-बन्धो यथा तरे सद्-अवध्यानम् अंहः

05.10.025

न विक्रिया विश्व-सुहृत्-सखस्य साम्येन वीताभिमतेस् तवापि ।
महद्-विमानात् स्व-कृताद् धि मादृङ् नङ्क्ष्यत्य् अदूराद् अपि शूलपाणिः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc