भागवत पुराण · अध्याय 05.12
भ्प्_05.12.001।0 रहूगण उवाच
नमो नमः कारण-विग्रहाय स्वरूप-तुच्छीकृत-विग्रहाय ।
नमो ऽवधूत द्विज-बन्धु-लिङ्ग- निगूढ-नित्यानुभवाय तुभ्यम्
ज्वरामयार्तस्य यथागदं सत् निदाघ-दग्धस्य यथा हिमाम्भः ।
कुदेह-मानाहि-विदष्ट-दृष्टेः ब्रह्मन् वचस् ते ऽमृतम् औषधं मे
तस्माद् भवन्तं मम संशयार्थं प्रक्ष्यामि पश्चाद् अधुना सुबोधम् ।
अध्यात्म-योग-ग्रथितं तवोक्तम् आख्याहि कौतूहल-चेतसो मे
यद् आह योगेश्वर दृश्यमानं क्रिया-फलं सद्-व्यवहार-मूलम् ।
न ह्य् अञ्जसा तत्त्व-विमर्शनाय भवान् अमुष्मिन् भ्रमते मनो मे
भ्प्_05.12.005।0 ब्राह्मण उवाच
अयं जनो नाम चलन् पृथिव्यां यः पार्थिवः पार्थिव कस्य हेतोः ।
तस्यापि चाङ्घ्र्योर् अधि गुल्फ-जङ्घा- जानूरु-मध्योर-शिरोधरांसाः
अंसे ऽधि दार्वी शिबिका च यस्यां सौवीर-राजेत्य् अपदेश आस्ते ।
यस्मिन् भवान् रूढ-निजाभिमानो राजास्मि सिन्धुष्व् इति दुर्मदान्धः
शोच्यान् इमांस् त्वम् अधिकष्ट-दीनान् विष्ट्या निगृह्णन् निरनुग्रहो ऽसि ।
जनस्य गोप्तास्मि विकत्थमानो न शोभसे वृद्ध-सभासु धृष्टः
यदा क्षिताव् एव चराचरस्य विदाम निष्ठां प्रभवं च नित्यम् ।
तन् नामतो ऽन्यद् व्यवहार-मूलं निरूप्यतां सत्-क्रिययानुमेयम्
एवं निरुक्तं क्षिति-शब्द-वृत्तम् असन् निधानात् परमाणवो ये ।
अविद्यया मनसा कल्पितास् ते येषां समूहेन कृतो विशेषः
एवं कृशं स्थूलम् अणुर् बृहद् यद् असच् च सज् जीवम् अजीवम् अन्यत् ।
द्रव्य-स्वभावाशय-काल-कर्म- नाम्नाजयावेहि कृतं द्वितीयम्
ज्ञानं विशुद्धं परमार्थम् एकम् अनन्तरं त्व् अबहिर् ब्रह्म सत्यम् ।
प्रत्यक् प्रशान्तं भगवच्-छब्द-संज्ञं यद् वासुदेवं कवयो वदन्ति
रहूगणैतत् तपसा न याति न चेज्यया निर्वपणाद् गृहाद् वा ।
न च्छन्दसा नैव जलाग्नि-सूर्यैर् विना महत्-पाद-रजो-ऽभिषेकम्
यत्रोत्तमश्लोक-गुणानुवादः प्रस्तूयते ग्राम्य-कथा-विघातः ।
निषेव्यमाणो ऽनुदिनं मुमुक्षोर् मतिं सतीं यच्छति वासुदेवे
अहं पुरा भरतो नाम राजा विमुक्त-दृष्ट-श्रुत-सङ्ग-बन्धः ।
आराधनं भगवत ईहमानो मृगो ऽभवं मृग-सङ्गाद् धतार्थः
सा मां स्मृतिर् मृग-देहे ऽपि वीर कृष्णार्चन-प्रभवा नो जहाति ।
अथो अहं जन-सङ्गाद् असङ्गो विशङ्कमानो ऽविवृतश् चरामि
तस्मान् नरो ऽसङ्ग-सुसङ्ग-जात- ज्ञानासिनेहैव विवृक्ण-मोहः ।
हरिं तद्-ईहा-कथन-श्रुताभ्यां लब्ध-स्मृतिर् यात्य् अतिपारम् अध्वनः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0