भागवत पुराण · अध्याय 04.29
भ्प्_04.29.001।0 प्राचीनबर्हिर् उवाच
भगवंस् ते वचो ऽस्माभिर् न सम्यग् अवगम्यते ।
कवयस् तद् विजानन्ति न वयं कर्म-मोहिताः
भ्प्_04.29.002।0 नारद उवाच
पुरुषं पुरञ्जनं विद्याद् यद् व्यनक्त्य् आत्मनः पुरम् ।
एक-द्वि-त्रि-चतुष्-पादं बहु-पादम् अपादकम्
यो ऽविज्ञाताहृतस् तस्य पुरुषस्य सखेश्वरः ।
यन् न विज्ञायते पुम्भिर् नामभिर् वा क्रिया-गुणैः
यदा जिघृक्षन् पुरुषः कार्त्स्न्येन प्रकृतेर् गुणान् ।
नव-द्वारं द्वि-हस्ताङ्घ्रि तत्रामनुत साध्व् इति
बुद्धिं तु प्रमदां विद्यान् ममाहम् इति यत्-कृतम् ।
याम् अधिष्ठाय देहे ऽस्मिन् पुमान् भुङ्क्ते ऽक्षभिर् गुणान्
सखाय इन्द्रिय-गणा ज्ञानं कर्म च यत्-कृतम् ।
सख्यस् तद्-वृत्तयः प्राणः पञ्च-वृत्तिर् यथोरगः
बृहद्-बलं मनो विद्याद् उभयेन्द्रिय-नायकम् ।
पञ्चालाः पञ्च विषया यन्-मध्ये नव-खं पुरम्
अक्षिणी नासिके कर्णौ मुखं शिश्न-गुदाव् इति ।
द्वे द्वे द्वारौ बहिर् याति यस् तद्-इन्द्रिय-संयुतः
अक्षिणी नासिके आस्यम् इति पञ्च पुरः कृताः ।
दक्षिणा दक्षिणः कर्ण उत्तरा चोत्तरः स्मृतः
पश्चिमे इत्य् अधो द्वारौ गुदं शिश्नम् इहोच्यते ।
खद्योताविर्मुखी चात्र नेत्रे एकत्र निर्मिते ।
रूपं विभ्राजितं ताभ्यां विचष्टे चक्षुषेश्वरः
नलिनी नालिनी नासे गन्धः सौरभ उच्यते ।
घ्राणो ऽवधूतो मुख्यास्यं विपणो वाग् रसविद् रसः
आपणो व्यवहारो ऽत्र चित्रम् अन्धो बहूदनम् ।
पितृहूर् दक्षिणः कर्ण उत्तरो देवहूः स्मृतः
प्रवृत्तं च निवृत्तं च शास्त्रं पञ्चाल-संज्ञितम् ।
पितृ-यानं देव-यानं श्रोत्राच् छ्रुत-धराद् व्रजेत्
आसुरी मेढ्रम् अर्वाग्-द्वार् व्यवायो ग्रामिणां रतिः ।
उपस्थो दुर्मदः प्रोक्तो निरृतिर् गुद उच्यते
वैशसं नरकं पायुर् लुब्धको ऽन्धौ तु मे शृणु ।
हस्त-पादौ पुमांस् ताभ्यां युक्तो याति करोति च
अन्तः-पुरं च हृदयं विषूचिर् मन उच्यते ।
तत्र मोहं प्रसादं वा हर्षं प्राप्नोति तद्-गुणैः
यथा यथा विक्रियते गुणाक्तो विकरोति वा ।
तथा तथोपद्रष्टात्मा तद्-वृत्तीर् अनुकार्यते
देहो रथस् त्व् इन्द्रियाश्वः संवत्सर-रयो ऽगतिः ।
द्वि-कर्म-चक्रस् त्रि-गुण- ध्वजः पञ्चासु-बन्धुरः
मनो-रश्मिर् बुद्धि-सूतो हृन्-नीडो द्वन्द्व-कूबरः ।
पञ्चेन्द्रियार्थ-प्रक्षेपः सप्त-धातु-वरूथकः
आकूतिर् विक्रमो बाह्यो मृग-तृष्णां प्रधावति ।
एकादशेन्द्रिय-चमूः पञ्च-सूना-विनोद-कृत्
संवत्सरश् चण्डवेगः कालो येनोपलक्षितः ।
तस्याहानीह गन्धर्वा गन्धर्व्यो रात्रयः स्मृताः ।
हरन्त्य् आयुः परिक्रान्त्या षष्ट्य्-उत्तर-शत-त्रयम्
काल-कन्या जरा साक्षाल् लोकस् तां नाभिनन्दति ।
स्वसारं जगृहे मृत्युः क्षयाय यवनेश्वरः
आधयो व्याधयस् तस्य सैनिका यवनाश् चराः ।
भूतोपसर्गाशु-रयः प्रज्वारो द्वि-विधो ज्वरः
एवं बहु-विधैर् दुःखैर् दैव-भूतात्म-सम्भवैः ।
क्लिश्यमानः शतं वर्षं देहे देही तमो-वृतः
प्राणेन्द्रिय-मनो-धर्मान् आत्मन्य् अध्यस्य निर्गुणः ।
शेते काम-लवान् ध्यायन् ममाहम् इति कर्म-कृत्
यदात्मानम् अविज्ञाय भगवन्तं परं गुरुम् ।
पुरुषस् तु विषज्जेत गुणेषु प्रकृतेः स्व-दृक्
गुणाभिमानी स तदा कर्माणि कुरुते ऽवशः ।
शुक्लं कृष्णं लोहितं वा यथा-कर्माभिजायते
शुक्लात् प्रकाश-भूयिष्ठा लोकान् आप्नोति कर्हिचित् ।
दुःखोदर्कान् क्रियायासांस् तमः-शोकोत्कटान् क्वचित्
क्वचित् पुमान् क्वचिच् च स्त्री क्वचिन् नोभयम् अन्ध-धीः ।
देवो मनुष्यस् तिर्यग् वा यथा-कर्म-गुणं भवः
क्षुत्-परीतो यथा दीनः सारमेयो गृहं गृहम् ।
चरन् विन्दति यद्-दिष्टं दण्डम् ओदनम् एव वा
तथा कामाशयो जीव उच्चावच-पथा भ्रमन् ।
उपर्य् अधो वा मध्ये वा याति दिष्टं प्रियाप्रियम्
दुःखेष्व् एकतरेणापि दैव-भूतात्म-हेतुषु ।
जीवस्य न व्यवच्छेदः स्याच् चेत् तत्-तत्-प्रतिक्रिया
यथा हि पुरुषो भारं शिरसा गुरुम् उद्वहन् ।
तं स्कन्धेन स आधत्ते तथा सर्वाः प्रतिक्रियाः
नैकान्ततः प्रतीकारः कर्मणां कर्म केवलम् ।
द्वयं ह्य् अविद्योपसृतं स्वप्ने स्वप्न इवानघ
अर्थे ह्य् अविद्यमाने ऽपि संसृतिर् न निवर्तते ।
मनसा लिङ्ग-रूपेण स्वप्ने विचरतो यथा
अथात्मनो ऽर्थ-भूतस्य यतो ऽनर्थ-परम्परा ।
संसृतिस् तद्-व्यवच्छेदो भक्त्या परमया गुरौ
वासुदेवे भगवति भक्ति-योगः समाहितः ।
सध्रीचीनेन वैराग्यं ज्ञानं च जनयिष्यति
सो ऽचिराद् एव राजर्षे स्याद् अच्युत-कथाश्रयः ।
शृण्वतः श्रद्दधानस्य नित्यदा स्याद् अधीयतः
यत्र भागवता राजन् साधवो विशदाशयाः ।
भगवद्-गुणानुकथन- श्रवण-व्यग्र-चेतसः
तस्मिन् महन्-मुखरिता मधुभिच्- चरित्र-पीयूष-शेष-सरितः परितः स्रवन्ति ।
ता ये पिबन्त्य् अवितृषो नृप गाढ-कर्णैस् तान् न स्पृशन्त्य् अशन-तृड्-भय-शोक-मोहाः
एतैर् उपद्रुतो नित्यं जीव-लोकः स्वभावजैः ।
न करोति हरेर् नूनं कथामृत-निधौ रतिम्
प्रजापति-पतिः साक्षाद् भगवान् गिरिशो मनुः ।
दक्षादयः प्रजाध्यक्षा नैष्ठिकाः सनकादयः
मरीचिर् अत्र्य्-अङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।
भृगुर् वसिष्ठ इत्य् एते मद्-अन्ता ब्रह्म-वादिनः
अद्यापि वाचस्-पतयस् तपो-विद्या-समाधिभिः ।
पश्यन्तो ऽपि न पश्यन्ति पश्यन्तं परमेश्वरम्
शब्द-ब्रह्मणि दुष्पारे चरन्त उरु-विस्तरे ।
मन्त्र-लिङ्गैर् व्यवच्छिन्नं भजन्तो न विदुः परम्
सर्वेषाम् एव जन्तूनां सततं देह-पोषणे ।
अस्ति प्रज्ञा समायत्ता को विशेषस् तदा नृणाम्
लब्ध्वेहान्ते मनुष्यत्वं हित्वा देहाद्य्-असद्-ग्रहम् ।
आत्म-सृत्या विहायेदं जीवात्मा स विशिष्यते
यदा यस्यानुगृह्णाति भगवान् आत्म-भावितः ।
स जहाति मतिं लोके वेदे च परिनिष्ठिताम्
तस्मात् कर्मसु बर्हिष्मन्न् अज्ञानाद् अर्थ-काशिषु ।
मार्थ-दृष्टिं कृथाः श्रोत्र- स्पर्शिष्व् अस्पृष्ट-वस्तुषु
स्वं लोकं न विदुस् ते वै यत्र देवो जनार्दनः ।
आहुर् धूम्र-धियो वेदं सकर्मकम् अतद्-विदः
आस्तीर्य दर्भैः प्राग्-अग्रैः कार्त्स्न्येन क्षिति-मण्डलम् ।
स्तब्धो बृहद्-वधान् मानी कर्म नावैषि यत् परम् ।
तत् कर्म हरि-तोषं यत् सा विद्या तन्-मतिर् यया
हरिर् देह-भृताम् आत्मा स्वयं प्रकृतिर् ईश्वरः ।
तत्-पाद-मूलं शरणं यतः क्षेमो नृणाम् इह
स वै प्रियतमश् चात्मा यतो न भयम् अण्व् अपि ।
इति वेद स वै विद्वान् यो विद्वान् स गुरुर् हरिः
भ्प्_04.29.052।0 नारद उवाच
प्रश्न एवं हि सञ्छिन्नो भवतः पुरुषर्षभ ।
अत्र मे वदतो गुह्यं निशामय सुनिश्चितम्
क्षुद्रं चरं सुमनसां शरणे मिथित्वा $ रक्तं षडङ्घ्रि-गण-सामसु लुब्ध-कर्णम् &अम्प्;
अग्रे वृकान् असु-तृपो ऽविगणय्य यान्तं % पृष्ठे मृगं मृगय लुब्धक-बाण-भिन्नम् ॥ भ्प्_04.29.053* ॥
अस्यार्थः सुमनः-सम-धर्मणां स्त्रीणां शरण आश्रमे पुष्प-मधु-गन्धवत् क्षुद्रतमं काम्य-कर्म-विपाकजं काम-सुख-लवं जैह्व्यौपस्थ्यादि विचिन्वन्तं मिथुनी-भूय तद्-अभिनिवेशित-मनसं षडङ्घ्रि-गण-साम-गीतवद् अतिमनोहर-वनितादि-जनालापेष्व् अतितराम् अतिप्रलोभित-कर्णम् अग्रे वृक-यूथवद् आत्मन आयुर् हरतो ऽहो-रात्रान् तान् काल-लव-विशेषान् अविगणय्य गृहेषु विहरन्तं पृष्ठत एव परोक्षम् अनुप्रवृत्तो लुब्धकः कृतान्तो ऽन्तः शरेण यम् इह पराविध्यति तम् इमम् आत्मानम् अहो राजन् भिन्न-हृदयं द्रष्टुम् अर्हसीति
_*
स त्वं विचक्ष्य मृग-चेष्टितम् आत्मनो ऽन्तश् $ चित्तं नियच्छ हृदि कर्ण-धुनीं च चित्ते &
स त्वं विचक्ष्य मृग-चेष्टितम् आत्मनो ऽन्तश् $ चित्तं नियच्छ हृदि कर्ण-धुनीं च चित्ते &
जह्य् अङ्गनाश्रमम् असत्तम-यूथ-गाथं % प्रीणीहि हंस-शरणं विरम क्रमेण ॥ भ्प्_04.29.055*
0 राजोवाच
श्रुतम् अन्वीक्षितं ब्रह्मन् भगवान् यद् अभाषत ।
नैतज् जानन्त्य् उपाध्यायाः किं न ब्रूयुर् विदुर् यदि
संशयो ऽत्र तु मे विप्र सञ्छिन्नस् तत्-कृतो महान् ।
ऋषयो ऽपि हि मुह्यन्ति यत्र नेन्द्रिय-वृत्तयः
कर्माण्य् आरभते येन पुमान् इह विहाय तम् ।
अमुत्रान्येन देहेन जुष्टानि स यद् अश्नुते
इति वेद-विदां वादः श्रूयते तत्र तत्र ह ।
कर्म यत् क्रियते प्रोक्तं परोक्षं न प्रकाशते
भ्प्_04.29.060।0 नारद उवाच
येनैवारभते कर्म तेनैवामुत्र तत् पुमान् ।
भुङ्क्ते ह्य् अव्यवधानेन लिङ्गेन मनसा स्वयम्
शयानम् इमम् उत्सृज्य श्वसन्तं पुरुषो यथा ।
कर्मात्मन्य् आहितं भुङ्क्ते तादृशेनेतरेण वा
ममैते मनसा यद् यद् असाव् अहम् इति ब्रुवन् ।
गृह्णीयात् तत् पुमान् राद्धं कर्म येन पुनर् भवः
यथानुमीयते चित्तम् उभयैर् इन्द्रियेहितैः ।
एवं प्राग्-देहजं कर्म लक्ष्यते चित्त-वृत्तिभिः
नानुभूतं क्व चानेन देहेनादृष्टम् अश्रुतम् ।
कदाचिद् उपलभ्येत यद् रूपं यादृग् आत्मनि
तेनास्य तादृशं राज लिङ्गिनो देह-सम्भवम् ।
श्रद्धत्स्वाननुभूतो ऽर्थो न मनः स्प्रष्टुम् अर्हति
मन एव मनुष्यस्य पूर्व-रूपाणि शंसति ।
भविष्यतश् च भद्रं ते तथैव न भविष्यतः
अदृष्टम् अश्रुतं चात्र क्वचिन् मनसि दृश्यते ।
यथा तथानुमन्तव्यं देश-काल-क्रियाश्रयम्
सर्वे क्रमानुरोधेन मनसीन्द्रिय-गोचराः ।
आयान्ति बहुशो यान्ति सर्वे समनसो जनाः
सत्त्वैक-निष्ठे मनसि भगवत्-पार्श्व-वर्तिनि ।
तमश् चन्द्रमसीवेदम् उपरज्यावभासते
नाहं ममेति भावो ऽयं पुरुषे व्यवधीयते ।
यावद् बुद्धि-मनो-ऽक्षार्थ- गुण-व्यूहो ह्य् अनादिमान्
सुप्ति-मूर्च्छोपतापेषु प्राणायन-विघाततः ।
नेहते ऽहम् इति ज्ञानं मृत्यु-प्रज्वारयोर् अपि
गर्भे बाल्ये ऽप्य् अपौष्कल्याद् एकादश-विधं तदा ।
लिङ्गं न दृश्यते यूनः कुह्वां चन्द्रमसो यथा
अर्थे ह्य् अविद्यमाने ऽपि संसृतिर् न निवर्तते ।
ध्यायतो विषयान् अस्य स्वप्ने ऽनर्थागमो यथा
एवं पञ्च-विधं लिङ्गं त्रि-वृत् षोडश विस्तृतम् ।
एष चेतनया युक्तो जीव इत्य् अभिधीयते
अनेन पुरुषो देहान् उपादत्ते विमुञ्चति ।
हर्षं शोकं भयं दुःखं सुखं चानेन विन्दति
भक्तिः कृष्णे दया जीवेष्व् अकुण्ठ-ज्ञानम् आत्मनि ।
यदि स्याद् आत्मनो भूयाद् अपवर्गस् तु संसृतेः
यथा तृण-जलूकेयं नापयात्य् अपयाति च ।
न त्यजेन् म्रियमाणो ऽपि प्राग्-देहाभिमतिं जनः
अदृष्टं दृष्टवन् नङ्क्षेद् भूतं स्वप्नवद् अन्यथा ।
भूतं भवद् भविष्यच् च सुप्तं सर्व-रहो-रहः
यावद् अन्यं न विन्देत व्यवधानेन कर्मणाम् ।
मन एव मनुष्येन्द्र भूतानां भव-भावनम्
यदाक्षैश् चरितान् ध्यायन् कर्माण्य् आचिनुते ऽसकृत् ।
सति कर्मण्य् अविद्यायां बन्धः कर्मण्य् अनात्मनः
अतस् तद् अपवादार्थं भज सर्वात्मना हरिम् ।
पश्यंस् तद्-आत्मकं विश्वं स्थित्य्-उत्पत्त्य्-अप्यया यतः
भ्प्_04.29.080।0 मैत्रेय उवाच
भागवत-मुख्यो भगवान् नारदो हंसयोर् गतिम् ।
प्रदर्श्य ह्य् अमुम् आमन्त्र्य सिद्ध-लोकं ततो ऽगमत्
प्राचीनबर्ही राजर्षिः प्रजा-सर्गाभिरक्षणे ।
आदिश्य पुत्रान् अगमत् तपसे कपिलाश्रमम्
तत्रैकाग्र-मना धीरो गोविन्द-चरणाम्बुजम् ।
विमुक्त-सङ्गो ऽनुभजन् भक्त्या तत्-साम्यताम् अगात्
एतद् अध्यात्म-पारोक्ष्यं गीतं देवर्षिणानघ ।
यः श्रावयेद् यः शृणुयात् स लिङ्गेन विमुच्यते
एतन् मुकुन्द-यशसा भुवनं पुनानं $ देवर्षि-वर्य-मुख-निःसृतम् आत्म-शौचम् &अम्प्;
यः कीर्त्यमानम् अधिगच्छति पारमेष्ठ्यं % नास्मिन् भवे भ्रमति मुक्त-समस्त-बन्धः ॥ भ्प्_04.29.084* ॥
अध्यात्म-पारोक्ष्यम् इदं मयाधिगतम् अद्भुतम् ।
एवं स्त्रियाश्रमः पुंसश् छिन्नो ऽमुत्र च संशयः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0