भागवत पुराण · अध्याय 04.28
भ्प्_04.28.001।0 नारद उवाच
सैनिका भय-नाम्नो ये बर्हिष्मन् दिष्ट-कारिणः ।
प्रज्वार-काल-कन्याभ्यां विचेरुर् अवनीम् इमाम्
त एकदा तु रभसा पुरञ्जन-पुरीं नृप ।
रुरुधुर् भौम-भोगाढ्यां जरत्-पन्नग-पालिताम्
काल-कन्यापि बुभुजे पुरञ्जन-पुरं बलात् ।
ययाभिभूतः पुरुषः सद्यो निःसारताम् इयात्
तयोपभुज्यमानां वै यवनाः सर्वतो-दिशम् ।
द्वार्भिः प्रविश्य सुभृशं प्रार्दयन् सकलां पुरीम्
तस्यां प्रपीड्यमानायाम् अभिमानी पुरञ्जनः ।
अवापोरु-विधांस् तापान् कुटुम्बी ममताकुलः
कन्योपगूढो नष्ट-श्रीः कृपणो विषयात्मकः ।
नष्ट-प्रज्ञो हृतैश्वर्यो गन्धर्व-यवनैर् बलात्
विशीर्णां स्व-पुरीं वीक्ष्य प्रतिकूलान् अनादृतान् ।
पुत्रान् पौत्रानुगामात्यान् जायां च गत-सौहृदाम्
आत्मानं कन्यया ग्रस्तं पञ्चालान् अरि-दूषितान् ।
दुरन्त-चिन्ताम् आपन्नो न लेभे तत्-प्रतिक्रियाम्
कामान् अभिलषन् दीनो यात-यामांश् च कन्यया ।
विगतात्म-गति-स्नेहः पुत्र-दारांश् च लालयन्
गन्धर्व-यवनाक्रान्तां काल-कन्योपमर्दिताम् ।
हातुं प्रचक्रमे राजा तां पुरीम् अनिकामतः
भय-नाम्नो ऽग्रजो भ्राता प्रज्वारः प्रत्युपस्थितः ।
ददाह तां पुरीं कृत्स्नां भ्रातुः प्रिय-चिकीर्षया
तस्यां सन्दह्यमानायां सपौरः सपरिच्छदः ।
कौटुम्बिकः कुटुम्बिन्या उपातप्यत सान्वयः
यवनोपरुद्धायतनो ग्रस्तायां काल-कन्यया ।
पुर्यां प्रज्वार-संसृष्टः पुर-पालो ऽन्वतप्यत
न शेके सो ऽवितुं तत्र पुरु-कृच्छ्रोरु-वेपथुः ।
गन्तुम् ऐच्छत् ततो वृक्ष- कोटराद् इव सानलात्
शिथिलावयवो यर्हि गन्धर्वैर् हृत-पौरुषः ।
यवनैर् अरिभी राजन्न् उपरुद्धो रुरोद ह
दुहितॄः पुत्र-पौत्रांश् च जामि-जामातृ-पार्षदान् ।
स्वत्वावशिष्टं यत् किञ्चिद् गृह-कोश-परिच्छदम्
अहं ममेति स्वीकृत्य गृहेषु कुमतिर् गृही ।
दध्यौ प्रमदया दीनो विप्रयोग उपस्थिते
लोकान्तरं गतवति मय्य् अनाथा कुटुम्बिनी ।
वर्तिष्यते कथं त्व् एषा बालकान् अनुशोचती
न मय्य् अनाशिते भुङ्क्ते नास्नाते स्नाति मत्-परा ।
मयि रुष्टे सुसन्त्रस्ता भर्त्सिते यत-वाग् भयात्
प्रबोधयति माविज्ञं व्युषिते शोक-कर्शिता ।
वर्त्मैतद् गृह-मेधीयं वीर-सूर् अपि नेष्यति
कथं नु दारका दीना दारकीर् वापरायणाः ।
वर्तिष्यन्ते मयि गते भिन्न-नाव इवोदधौ
एवं कृपणया बुद्ध्या शोचन्तम् अतद्-अर्हणम् ।
ग्रहीतुं कृत-धीर् एनं भय-नामाभ्यपद्यत
पशुवद् यवनैर् एष नीयमानः स्वकं क्षयम् ।
अन्वद्रवन्न् अनुपथाः शोचन्तो भृशम् आतुराः
पुरीं विहायोपगत उपरुद्धो भुजङ्गमः ।
यदा तम् एवानु पुरी विशीर्णा प्रकृतिं गता
विकृष्यमाणः प्रसभं यवनेन बलीयसा ।
नाविन्दत् तमसाविष्टः सखायं सुहृदं पुरः
तं यज्ञ-पशवो ऽनेन संज्ञप्ता ये ऽदयालुना ।
कुठारैश् चिच्छिदुः क्रुद्धाः स्मरन्तो ऽमीवम् अस्य तत्
अनन्त-पारे तमसि मग्नो नष्ट-स्मृतिः समाः ।
शाश्वतीर् अनुभूयार्तिं प्रमदा-सङ्ग-दूषितः
ताम् एव मनसा गृह्णन् बभूव प्रमदोत्तमा ।
अनन्तरं विदर्भस्य राज-सिंहस्य वेश्मनि
उपयेमे वीर्य-पणां वैदर्भीं मलयध्वजः ।
युधि निर्जित्य राजन्यान् पाण्ड्यः पर-पुरञ्जयः
तस्यां स जनयां चक्र आत्मजाम् असितेक्षणाम् ।
यवीयसः सप्त सुतान् सप्त द्रविड-भूभृतः
एकैकस्याभवत् तेषां राजन्न् अर्बुदम् अर्बुदम् ।
भोक्ष्यते यद्-वंश-धरैर् मही मन्वन्तरं परम्
अगस्त्यः प्राग् दुहितरम् उपयेमे धृत-व्रताम् ।
यस्यां दृढच्युतो जात इध्मवाहात्मजो मुनिः
विभज्य तनयेभ्यः क्ष्मां राजर्षिर् मलयध्वजः ।
आरिराधयिषुः कृष्णं स जगाम कुलाचलम्
हित्वा गृहान् सुतान् भोगान् वैदर्भी मदिरेक्षणा ।
अन्वधावत पाण्ड्येशं ज्योत्स्नेव रजनी-करम्
तत्र चन्द्रवसा नाम ताम्रपर्णी वटोदका ।
तत्-पुण्य-सलिलैर् नित्यम् उभयत्रात्मनो मृजन्
कन्दाष्टिभिर् मूल-फलैः पुष्प-पर्णैस् तृणोदकैः ।
वर्तमानः शनैर् गात्र- कर्शनं तप आस्थितः
शीतोष्ण-वात-वर्षाणि क्षुत्-पिपासे प्रियाप्रिये ।
सुख-दुःखे इति द्वन्द्वान्य् अजयत् सम-दर्शनः
तपसा विद्यया पक्व- कषायो नियमैर् यमैः ।
युयुजे ब्रह्मण्य् आत्मानं विजिताक्षानिलाशयः
आस्ते स्थाणुर् इवैकत्र दिव्यं वर्ष-शतं स्थिरः ।
वासुदेवे भगवति नान्यद् वेदोद्वहन् रतिम्
स व्यापकतयात्मानं व्यतिरिक्ततयात्मनि ।
विद्वान् स्वप्न इवामर्श- साक्षिणं विरराम ह
साक्षाद् भगवतोक्तेन गुरुणा हरिणा नृप ।
विशुद्ध-ज्ञान-दीपेन स्फुरता विश्वतो-मुखम्
परे ब्रह्मणि चात्मानं परं ब्रह्म तथात्मनि ।
वीक्षमाणो विहायेक्षाम् अस्माद् उपरराम ह
पतिं परम-धर्म-ज्ञं वैदर्भी मलयध्वजम् ।
प्रेम्णा पर्यचरद् धित्वा भोगान् सा पति-देवता
चीर-वासा व्रत-क्षामा वेणी-भूत-शिरोरुहा ।
बभाव् उप पतिं शान्ता शिखा शान्तम् इवानलम्
अजानती प्रियतमं यदोपरतम् अङ्गना ।
सुस्थिरासनम् आसाद्य यथा-पूर्वम् उपाचरत्
यदा नोपलभेताङ्घ्राव् ऊष्माणं पत्युर् अर्चती ।
आसीत् संविग्न-हृदया यूथ-भ्रष्टा मृगी यथा
आत्मानं शोचती दीनम् अबन्धुं विक्लवाश्रुभिः ।
स्तनाव् आसिच्य विपिने सुस्वरं प्ररुरोद सा
उत्तिष्ठोत्तिष्ठ राजर्षे इमाम् उदधि-मेखलाम् ।
दस्युभ्यः क्षत्र-बन्धुभ्यो बिभ्यतीं पातुम् अर्हसि
एवं विलपन्ती बाला विपिने ऽनुगता पतिम् ।
पतिता पादयोर् भर्तू रुदत्य् अश्रूण्य् अवर्तयत्
चितिं दारुमयीं चित्वा तस्यां पत्युः कलेवरम् ।
आदीप्य चानुमरणे विलपन्ती मनो दधे
तत्र पूर्वतरः कश्चित् सखा ब्राह्मण आत्मवान् ।
सान्त्वयन् वल्गुना साम्ना ताम् आह रुदतीं प्रभो
भ्प्_04.28.052।0 ब्राह्मण उवाच
का त्वं कस्यासि को वायं शयानो यस्य शोचसि ।
जानासि किं सखायं मां येनाग्रे विचचर्थ ह
अपि स्मरसि चात्मानम् अविज्ञात-सखं सखे ।
हित्वा मां पदम् अन्विच्छन् भौम-भोग-रतो गतः
हंसाव् अहं च त्वं चार्य सखायौ मानसायनौ ।
अभूताम् अन्तरा वौकः सहस्र-परिवत्सरान्
स त्वं विहाय मां बन्धो गतो ग्राम्य-मतिर् महीम् ।
विचरन् पदम् अद्राक्षीः कयाचिन् निर्मितं स्त्रिया
पञ्चारामं नव-द्वारम् एक-पालं त्रि-कोष्ठकम् ।
षट्-कुलं पञ्च-विपणं पञ्च-प्रकृति स्त्री-धवम्
पञ्चेन्द्रियार्था आरामा द्वारः प्राणा नव प्रभो ।
तेजो-ऽब्-अन्नानि कोष्ठानि कुलम् इन्द्रिय-सङ्ग्रहः
विपणस् तु क्रिया-शक्तिर् भूत-प्रकृतिर् अव्यया ।
शक्त्य्-अधीशः पुमांस् त्व् अत्र प्रविष्टो नावबुध्यते
तस्मिंस् त्वं रामया स्पृष्टो रममाणो ऽश्रुत-स्मृतिः ।
तत्-सङ्गाद् ईदृशीं प्राप्तो दशां पापीयसीं प्रभो
न त्वं विदर्भ-दुहिता नायं वीरः सुहृत् तव ।
न पतिस् त्वं पुरञ्जन्या रुद्धो नव-मुखे यया
माया ह्य् एषा मया सृष्टा यत् पुमांसं स्त्रियं सतीम् ।
मन्यसे नोभयं यद् वै हंसौ पश्यावयोर् गतिम्
अहं भवान् न चान्यस् त्वं त्वम् एवाहं विचक्ष्व भोः ।
न नौ पश्यन्ति कवयश् छिद्रं जातु मनाग् अपि
यथा पुरुष आत्मानम् एकम् आदर्श-चक्षुषोः ।
द्विधाभूतम् अवेक्षेत तथैवान्तरम् आवयोः
एवं स मानसो हंसो हंसेन प्रतिबोधितः ।
स्व-स्थस् तद्-व्यभिचारेण नष्टाम् आप पुनः स्मृतिम्
बर्हिष्मन्न् एतद् अध्यात्मं पारोक्ष्येण प्रदर्शितम् ।
यत् परोक्ष-प्रियो देवो भगवान् विश्व-भावनः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0