भागवत पुराण · अध्याय 04.30
भ्प्_04.30.001।0 विदुर उवाच
ये त्वयाभिहिता ब्रह्मन् सुताः प्राचीनबर्हिषः ।
ते रुद्र-गीतेन हरिं सिद्धिम् आपुः प्रतोष्य काम्
किं बार्हस्पत्येह परत्र वाथ कैवल्य-नाथ-प्रिय-पार्श्व-वर्तिनः ।
आसाद्य देवं गिरिशं यदृच्छया प्रापुः परं नूनम् अथ प्रचेतसः
भ्प्_04.30.003।0 मैत्रेय उवाच
प्रचेतसो ऽन्तर् उदधौ पितुर् आदेश-कारिणः ।
अप-यज्ञेन तपसा पुरञ्जनम् अतोषयन्
दश-वर्ष-सहस्रान्ते पुरुषस् तु सनातनः ।
तेषाम् आविरभूत् कृच्छ्रं शान्तेन शमयन् रुचा
सुपर्ण-स्कन्धम् आरूढो मेरु-शृङ्गम् इवाम्बुदः ।
पीत-वासा मणि-ग्रीवः कुर्वन् वितिमिरा दिशः
काशिष्णुना कनक-वर्ण-विभूषणेन $ भ्राजत्-कपोल-वदनो विलसत्-किरीटः &अम्प्;
अष्टायुधैर् अनुचरैर् मुनिभिः सुरेन्द्रैर् % आसेवितो गरुड-किन्नर-गीत-कीर्तिः ॥ भ्प्_04.30.006* ॥
पीनायताष्ट-भुज-मण्डल-मध्य-लक्ष्म्या $ स्पर्धच्-छ्रिया परिवृतो वन-मालयाद्यः &
पीनायताष्ट-भुज-मण्डल-मध्य-लक्ष्म्या $ स्पर्धच्-छ्रिया परिवृतो वन-मालयाद्यः &
बर्हिष्मतः पुरुष आह सुतान् प्रपन्नान् % पर्जन्य-नाद-रुतया सघृणावलोकः ॥ भ्प्_04.30.007*
0 श्री-भगवान् उवाच
वरं वृणीध्वं भद्रं वो यूयं मे नृप-नन्दनाः ।
सौहार्देनापृथग्-धर्मास् तुष्टो ऽहं सौहृदेन वः
यो ऽनुस्मरति सन्ध्यायां युष्मान् अनुदिनं नरः ।
तस्य भ्रातृष्व् आत्म-साम्यं तथा भूतेषु सौहृदम्
ये तु मां रुद्र-गीतेन सायं प्रातः समाहिताः ।
स्तुवन्त्य् अहं काम-वरान् दास्ये प्रज्ञां च शोभनाम्
यद् यूयं पितुर् आदेशम् अग्रहीष्ट मुदान्विताः ।
अथो व उशती कीर्तिर् लोकान् अनु भविष्यति
भविता विश्रुतः पुत्रो ऽनवमो ब्रह्मणो गुणैः ।
य एताम् आत्म-वीर्येण त्रि-लोकीं पूरयिष्यति
कण्डोः प्रम्लोचया लब्धा कन्या कमल-लोचना ।
तां चापविद्धां जगृहुर् भूरुहा नृप-नन्दनाः
क्षुत्-क्षामाया मुखे राजा सोमः पीयूष-वर्षिणीम् ।
देशिनीं रोदमानाया निदधे स दयान्वितः
प्रजा-विसर्ग आदिष्टाः पित्रा माम् अनुवर्तता ।
तत्र कन्यां वरारोहां ताम् उद्वहत मा चिरम्
अपृथग्-धर्म-शीलानां सर्वेषां वः सुमध्यमा ।
अपृथग्-धर्म-शीलेयं भूयात् पत्न्य् अर्पिताशया
दिव्य-वर्ष-सहस्राणां सहस्रम् अहतौजसः ।
भौमान् भोक्ष्यथ भोगान् वै दिव्यांश् चानुग्रहान् मम
अथ मय्य् अनपायिन्या भक्त्या पक्व-गुणाशयाः ।
उपयास्यथ मद्-धाम निर्विद्य निरयाद् अतः
गृहेष्व् आविशतां चापि पुंसां कुशल-कर्मणाम् ।
मद्-वार्ता-यात-यामानां न बन्धाय गृहा मताः
नव्यवद् धृदये यज् ज्ञो ब्रह्मैतद् ब्रह्म-वादिभिः ।
न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतो गताः
भ्प्_04.30.021।0 मैत्रेय उवाच
एवं ब्रुवाणं पुरुषार्थ-भाजनं जनार्दनं प्राञ्जलयः प्रचेतसः ।
तद्-दर्शन-ध्वस्त-तमो-रजो-मला गिरागृणन् गद्गदया सुहृत्तमम्
भ्प्_04.30.022।0 प्रचेतस ऊचुः
नमो नमः क्लेश-विनाशनाय निरूपितोदार-गुणाह्वयाय ।
मनो-वचो-वेग-पुरो-जवाय सर्वाक्ष-मार्गैर् अगताध्वने नमः
शुद्धाय शान्ताय नमः स्व-निष्ठया मनस्य् अपार्थं विलसद्-द्वयाय ।
नमो जगत्-स्थान-लयोदयेषु गृहीत-माया-गुण-विग्रहाय
नमो विशुद्ध-सत्त्वाय हरये हरि-मेधसे ।
वासुदेवाय कृष्णाय प्रभवे सर्व-सात्वताम्
नमः कमल-नाभाय नमः कमल-मालिने ।
नमः कमल-पादाय नमस् ते कमलेक्षण
नमः कमल-किञ्जल्क- पिशङ्गामल-वाससे ।
सर्व-भूत-निवासाय नमो ऽयुङ्क्ष्महि साक्षिणे
रूपं भगवता त्व् एतद् अशेष-क्लेश-सङ्क्षयम् ।
आविष्कृतं नः क्लिष्टानां किम् अन्यद् अनुकम्पितम्
एतावत् त्वं हि विभुभिर् भाव्यं दीनेषु वत्सलैः ।
यद् अनुस्मर्यते काले स्व-बुद्ध्याभद्र-रन्धन
येनोपशान्तिर् भूतानां क्षुल्लकानाम् अपीहताम् ।
अन्तर्हितो ऽन्तर्-हृदये कस्मान् नो वेद नाशिषः
असाव् एव वरो ऽस्माकम् ईप्सितो जगतः पते ।
प्रसन्नो भगवान् येषाम् अपवर्गः गुरुर् गतिः
वरं वृणीमहे ऽथापि नाथ त्वत् परतः परात् ।
न ह्य् अन्तस् त्वद्-विभूतीनां सो ऽनन्त इति गीयसे
पारिजाते ऽञ्जसा लब्धे सारङ्गो ऽन्यन् न सेवते ।
त्वद्-अङ्घ्रि-मूलम् आसाद्य साक्षात् किं किं वृणीमहि
यावत् ते मायया स्पृष्टा भ्रमाम इह कर्मभिः ।
तावद् भवत्-प्रसङ्गानां सङ्गः स्यान् नो भवे भवे
तुलयाम लवेनापि न स्वर्गं नापुनर्-भवम् ।
भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः
यत्रेड्यन्ते कथा मृष्टास् तृष्णायाः प्रशमो यतः ।
निर्वैरं यत्र भूतेषु नोद्वेगो यत्र कश्चन
यत्र नारायणः साक्षाद् भगवान् न्यासिनां गतिः ।
संस्तूयते सत्-कथासु मुक्त-सङ्गैः पुनः पुनः
तेषां विचरतां पद्भ्यां तीर्थानां पावनेच्छया ।
भीतस्य किं न रोचेत तावकानां समागमः
वयं तु साक्षाद् भगवन् भवस्य प्रियस्य सख्युः क्षण-सङ्गमेन ।
सुदुश्चिकित्स्यस्य भवस्य मृत्योर् भिषक्तमं त्वाद्य गतिं गताः स्म
यन् नः स्वधीतं गुरवः प्रसादिता विप्राश् च वृद्धाश् च सद्-आनुवृत्त्या ।
आर्या नताः सुहृदो भ्रातरश् च सर्वाणि भूतान्य् अनसूययैव
यन् नः सुतप्तं तप एतद् ईश निरन्धसां कालम् अदभ्रम् अप्सु ।
सर्वं तद् एतत् पुरुषस्य भूम्नो वृणीमहे ते परितोषणाय
मनुः स्वयम्भूर् भगवान् भवश् च ये ऽन्ये तपो-ज्ञान-विशुद्ध-सत्त्वाः ।
अदृष्ट-पारा अपि यन्-महिम्नः स्तुवन्त्य् अथो त्वात्म-समं गृणीमः
नमः समाय शुद्धाय पुरुषाय पराय च ।
वासुदेवाय सत्त्वाय तुभ्यं भगवते नमः
भ्प्_04.30.043।0 मैत्रेय उवाच
इति प्रचेतोभिर् अभिष्टुतो हरिः प्रीतस् तथेत्य् आह शरण्य-वत्सलः ।
अनिच्छतां यानम् अतृप्त-चक्षुषां ययौ स्व-धामानपवर्ग-वीर्यः
अथ निर्याय सलिलात् प्रचेतस उदन्वतः ।
वीक्ष्याकुप्यन् द्रुमैश् छन्नां गां गां रोद्धुम् इवोच्छ्रितैः
ततो ऽग्नि-मारुतौ राजन्न् अमुञ्चन् मुखतो रुषा ।
महीं निर्वीरुधं कर्तुं संवर्तक इवात्यये
भस्मसात् क्रियमाणांस् तान् द्रुमान् वीक्ष्य पितामहः ।
आगतः शमयाम् आस पुत्रान् बर्हिष्मतो नयैः
तत्रावशिष्टा ये वृक्षा भीता दुहितरं तदा ।
उज्जह्रुस् ते प्रचेतोभ्य उपदिष्टाः स्वयम्भुवा
ते च ब्रह्मण आदेशान् मारिषाम् उपयेमिरे ।
यस्यां महद्-अवज्ञानाद् अजन्य् अजन-योनिजः
चाक्षुषे त्व् अन्तरे प्राप्ते प्राक्-सर्गे काल-विद्रुते ।
यः ससर्ज प्रजा इष्टाः स दक्षो दैव-चोदितः
यो जायमानः सर्वेषां तेजस् तेजस्विनां रुचा ।
स्वयोपादत्त दाक्ष्याच् च कर्मणां दक्षम् अब्रुवन्
तं प्रजा-सर्ग-रक्षायाम् अनादिर् अभिषिच्य च ।
युयोज युयुजे ऽन्यांश् च स वै सर्व-प्रजापतीन्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0