भागवत पुराण · अध्याय 04.25
भ्प्_04.25.001।0 मैत्रेय उवाच
इति सन्दिश्य भगवान् बार्हिषदैर् अभिपूजितः ।
पश्यतां राज-पुत्राणां तत्रैवान्तर्दधे हरः
रुद्र-गीतं भगवतः स्तोत्रं सर्वे प्रचेतसः ।
जपन्तस् ते तपस् तेपुर् वर्षाणाम् अयुतं जले
प्राचीनबर्हिषं क्षत्तः कर्मस्व् आसक्त-मानसम् ।
नारदो ऽध्यात्म-तत्त्व-ज्ञः कृपालुः प्रत्यबोधयत्
श्रेयस् त्वं कतमद् राजन् कर्मणात्मन ईहसे ।
दुःख-हानिः सुखावाप्तिः श्रेयस् तन् नेह चेष्यते
भ्प्_04.25.005।0 राजोवाच
न जानामि महा-भाग परं कर्मापविद्ध-धीः ।
ब्रूहि मे विमलं ज्ञानं येन मुच्येय कर्मभिः
गृहेषु कूट-धर्मेषु पुत्र-दार-धनार्थ-धीः ।
न परं विन्दते मूढो भ्राम्यन् संसार-वर्त्मसु
भ्प्_04.25.007।0 नारद उवाच
भो भोः प्रजापते राजन् पशून् पश्य त्वयाध्वरे ।
संज्ञापिताञ् जीव-सङ्घान् निर्घृणेन सहस्रशः
एते त्वां सम्प्रतीक्षन्ते स्मरन्तो वैशसं तव ।
सम्परेतम् अयः-कूटैश् छिन्दन्त्य् उत्थित-मन्यवः
अत्र ते कथयिष्ये ऽमुम् इतिहासं पुरातनम् ।
पुरञ्जनस्य चरितं निबोध गदतो मम
आसीत् पुरञ्जनो नाम राजा राजन् बृहच्-छ्रवाः ।
तस्याविज्ञात-नामासीत् सखाविज्ञात-चेष्टितः
सो ऽन्वेषमाणः शरणं बभ्राम पृथिवीं प्रभुः ।
नानुरूपं यदाविन्दद् अभूत् स विमना इव
न साधु मेने ताः सर्वा भूतले यावतीः पुरः ।
कामान् कामयमानो ऽसौ तस्य तस्योपपत्तये
स एकदा हिमवतो दक्षिणेष्व् अथ सानुषु ।
ददर्श नवभिर् द्वार्भिः पुरं लक्षित-लक्षणाम्
प्राकारोपवनाट्टाल- परिखैर् अक्ष-तोरणैः ।
स्वर्ण-रौप्यायसैः शृङ्गैः सङ्कुलां सर्वतो गृहैः
नील-स्फटिक-वैदूर्य- मुक्ता-मरकतारुणैः ।
कॢप्त-हर्म्य-स्थलीं दीप्तां श्रिया भोगवतीम् इव
सभा-चत्वर-रथ्याभिर् आक्रीडायतनापणैः ।
चैत्य-ध्वज-पताकाभिर् युक्तां विद्रुम-वेदिभिः
पुर्यास् तु बाह्योपवने दिव्य-द्रुम-लताकुले ।
नदद्-विहङ्गालि-कुल- कोलाहल-जलाशये
हिम-निर्झर-विप्रुष्मत्- कुसुमाकर-वायुना ।
चलत्-प्रवाल-विटप- नलिनी-तट-सम्पदि
नानारण्य-मृग-व्रातैर् अनाबाधे मुनि-व्रतैः ।
आहूतं मन्यते पान्थो यत्र कोकिल-कूजितैः
यदृच्छयागतां तत्र ददर्श प्रमदोत्तमाम् ।
भृत्यैर् दशभिर् आयान्तीम् एकैक-शत-नायकैः
अञ्च-शीर्षाहिना गुप्तां प्रतीहारेण सर्वतः ।
अन्वेषमाणाम् ऋषभम् अप्रौढां काम-रूपिणीम्
सुनासां सुदतीं बालां सुकपोलां वराननाम् ।
सम-विन्यस्त-कर्णाभ्यां बिभ्रतीं कुण्डल-श्रियम्
पिशङ्ग-नीवीं सुश्रोणीं श्यामां कनक-मेखलाम् ।
पद्भ्यां क्वणद्भ्यां चलन्तीं नूपुरैर् देवताम् इव
स्तनौ व्यञ्जित-कैशोरौ सम-वृत्तौ निरन्तरौ ।
वस्त्रान्तेन निगूहन्तीं व्रीडया गज-गामिनीम्
ताम् आह ललितं वीरः सव्रीड-स्मित-शोभनाम् ।
स्निग्धेनापाङ्ग-पुङ्खेन स्पृष्टः प्रेमोद्भ्रमद्-भ्रुवा
का त्वं कञ्ज-पलाशाक्षि कस्यासीह कुतः सति ।
इमाम् उप पुरीं भीरु किं चिकीर्षसि शंस मे
क एते ऽनुपथा ये त एकादश महा-भटाः ।
एता वा ललनाः सुभ्रु को ऽयं ते ऽहिः पुरः-सरः
त्वं ह्रीर् भवान्य् अस्य् अथ वाग् रमा पतिं विचिन्वती किं मुनिवद् रहो वने ।
त्वद्-अङ्घ्रि-कामाप्त-समस्त-कामं क्व पद्म-कोशः पतितः कराग्रात्
नासां वरोर्व् अन्यतमा भुवि-स्पृक् पुरीम् इमां वीर-वरेण साकम् ।
अर्हस्य् अलङ्कर्तुम् अदभ्र-कर्मणा लोकं परं श्रीर् इव यज्ञ-पुंसा
यद् एष मापाङ्ग-विखण्डितेन्द्रियं सव्रीड-भाव-स्मित-विभ्रमद्-भ्रुवा ।
त्वयोपसृष्टो भगवान् मनो-भवः प्रबाधते ऽथानुगृहाण शोभने
त्वद्-आननं सुभ्रु सुतार-लोचनं व्यालम्बि-नीलालक-वृन्द-संवृतम् ।
उन्नीय मे दर्शय वल्गु-वाचकं यद् व्रीडया नाभिमुखं शुचि-स्मिते
भ्प्_04.25.032।0 नारद उवाच
इत्थं पुरञ्जनं नारी याचमानम् अधीरवत् ।
अभ्यनन्दत तं वीरं हसन्ती वीर मोहिता
न विदाम वयं सम्यक् कर्तारं पुरुषर्षभ ।
आत्मनश् च परस्यापि गोत्रं नाम च यत्-कृतम्
इहाद्य सन्तम् आत्मानं विदाम न ततः परम् ।
येनेयं निर्मिता वीर पुरी शरणम् आत्मनः
एते सखायः सख्यो मे नरा नार्यश् च मानद ।
सुप्तायां मयि जागर्ति नागो ऽयं पालयन् पुरीम्
दिष्ट्यागतो ऽसि भद्रं ते ग्राम्यान् कामान् अभीप्ससे ।
उद्वहिष्यामि तांस् ते ऽहं स्व-बन्धुभिर् अरिन्दम
इमां त्वम् अधितिष्ठस्व पुरीं नव-मुखीं विभो ।
मयोपनीतान् गृह्णानः काम-भोगान् शतं समाः
कं नु त्वद्-अन्यं रमये ह्य् अरति-ज्ञम् अकोविदम् ।
असम्परायाभिमुखम् अश्वस्तन-विदं पशुम्
धर्मो ह्य् अत्रार्थ-कामौ च प्रजानन्दो ऽमृतं यशः ।
लोका विशोका विरजा यान् न केवलिनो विदुः
पितृ-देवर्षि-मर्त्यानां भूतानाम् आत्मनश् च ह ।
क्षेम्यं वदन्ति शरणं भवे ऽस्मिन् यद् गृहाश्रमः
का नाम वीर विख्यातं वदान्यं प्रिय-दर्शनम् ।
न वृणीत प्रियं प्राप्तं मादृशी त्वादृशं पतिम्
कस्या मनस् ते भुवि भोगि-भोगयोः स्त्रिया न सज्जेद् भुजयोर् महा-भुज ।
यो ऽनाथ-वर्गाधिम् अलं घृणोद्धत- स्मितावलोकेन चरत्य् अपोहितुम्
भ्प्_04.25.043।0 नारद उवाच
इति तौ दम्-पती तत्र समुद्य समयं मिथः ।
तां प्रविश्य पुरीं राजन् मुमुदाते शतं समाः
उपगीयमानो ललितं तत्र तत्र च गायकैः ।
क्रीडन् परिवृतः स्त्रीभिर् ह्रदिनीम् आविशच् छुचौ
सप्तोपरि कृता द्वारः पुरस् तस्यास् तु द्वे अधः ।
पृथग्-विषय-गत्य्-अर्थं तस्यां यः कश्चनेश्वरः
पञ्च द्वारस् तु पौरस्त्या दक्षिणैका तथोत्तरा ।
पश्चिमे द्वे अमूषां ते नामानि नृप वर्णये
खद्योताविर्मुखी च प्राग् द्वाराव् एकत्र निर्मिते ।
विभ्राजितं जनपदं याति ताभ्यां द्युमत्-सखः
नलिनी नालिनी च प्राग् द्वाराव् एकत्र निर्मिते ।
अवधूत-सखस् ताभ्यां विषयं याति सौरभम्
मुख्या नाम पुरस्ताद् द्वास् तयापण-बहूदनौ ।
विषयौ याति पुर-राड् रसज्ञ-विपणान्वितः
पितृहूर् नृप पुर्या द्वार् दक्षिणेन पुरञ्जनः ।
राष्ट्रं दक्षिण-पञ्चालं याति श्रुतधरान्वितः
देवहूर् नाम पुर्या द्वा उत्तरेण पुरञ्जनः ।
राष्ट्रम् उत्तर-पञ्चालं याति श्रुतधरान्वितः
आसुरी नाम पश्चाद् द्वास् तया याति पुरञ्जनः ।
ग्रामकं नाम विषयं दुर्मदेन समन्वितः
निरृतिर् नाम पश्चाद् द्वास् तया याति पुरञ्जनः ।
वैशसं नाम विषयं लुब्धकेन समन्वितः
अन्धाव् अमीषां पौराणां निर्वाक्-पेशस्कृताव् उभौ ।
अक्षण्वताम् अधिपतिस् ताभ्यां याति करोति च
स यर्ह्य् अन्तःपुर-गतो विषूचीन-समन्वितः ।
मोहं प्रसादं हर्षं वा याति जायात्मजोद्भवम्
एवं कर्मसु संसक्तः कामात्मा वञ्चितो ऽबुधः ।
महिषी यद् यद् ईहेत तत् तद् एवान्ववर्तत
क्वचित् पिबन्त्यां पिबति मदिरां मद-विह्वलः ।
अश्नन्त्यां क्वचिद् अश्नाति जक्षत्यां सह जक्षिति
क्वचिद् गायति गायन्त्यां रुदत्यां रुदति क्वचित् ।
क्वचिद् धसन्त्यां हसति जल्पन्त्याम् अनु जल्पति
क्वचिद् धावति धावन्त्यां तिष्ठन्त्याम् अनु तिष्ठति ।
अनु शेते शयानायाम् अन्वास्ते क्वचिद् आसतीम्
क्वचिच् छृणोति शृण्वन्त्यां पश्यन्त्याम् अनु पश्यति ।
क्वचिज् जिघ्रति जिघ्रन्त्यां स्पृशन्त्यां स्पृशति क्वचित्
क्वचिच् च शोचतीं जायाम् अनु शोचति दीनवत् ।
अनु हृष्यति हृष्यन्त्यां मुदिताम् अनु मोदते
विप्रलब्धो महिष्यैवं सर्व-प्रकृति-वञ्चितः ।
नेच्छन्न् अनुकरोत्य् अज्ञः क्लैब्यात् क्रीडा-मृगो यथा
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0