भागवत पुराण · अध्याय 04.26
भ्प्_04.26.001।0 नारद उवाच
स एकदा महेष्वासो रथं पञ्चाश्वम् आशु-गम् ।
द्वीषं द्वि-चक्रम् एकाक्षं त्रि-वेणुं पञ्च-बन्धुरम्
एक-रश्म्य् एक-दमनम् एक-नीडं द्वि-कूबरम् ।
पञ्च-प्रहरणं सप्त- वरूथं पञ्च-विक्रमम्
हैमोपस्करम् आरुह्य स्वर्ण-वर्माक्षयेषुधिः ।
एकादश-चमू-नाथः पञ्च-प्रस्थम् अगाद् वनम्
चचार मृगयां तत्र दृप्त आत्तेषु-कार्मुकः ।
विहाय जायाम् अतद्-अर्हां मृग-व्यसन-लालसः
आसुरीं वृत्तिम् आश्रित्य घोरात्मा निरनुग्रहः ।
न्यहनन् निशितैर् बाणैर् वनेषु वन-गोचरान्
तीर्थेषु प्रतिदृष्टेषु राजा मेध्यान् पशून् वने ।
यावद्-अर्थम् अलं लुब्धो हन्याद् इति नियम्यते
य एवं कर्म नियतं विद्वान् कुर्वीत मानवः ।
कर्मणा तेन राजेन्द्र ज्ञानेन न स लिप्यते
अन्यथा कर्म कुर्वाणो मानारूढो निबध्यते ।
गुण-प्रवाह-पतितो नष्ट-प्रज्ञो व्रजत्य् अधः
तत्र निर्भिन्न-गात्राणां चित्र-वाजैः शिलीमुखैः ।
विप्लवो ऽभूद् दुःखितानां दुःसहः करुणात्मनाम्
शशान् वराहान् महिषान् गवयान् रुरु-शल्यकान् ।
मेध्यान् अन्यांश् च विविधान् विनिघ्नन् श्रमम् अध्यगात्
ततः क्षुत्-तृट्-परिश्रान्तो निवृत्तो गृहम् एयिवान् ।
कृत-स्नानोचिताहारः संविवेश गत-क्लमः
आत्मानम् अर्हयां चक्रे धूपालेप-स्रग्-आदिभिः ।
साध्व्-अलङ्कृत-सर्वाङ्गो महिष्याम् आदधे मनः
तृप्तो हृष्टः सुदृप्तश् च कन्दर्पाकृष्ट-मानसः ।
न व्यचष्ट वरारोहां गृहिणीं गृह-मेधिनीम्
अन्तःपुर-स्त्रियो ऽपृच्छद् विमना इव वेदिषत् ।
अपि वः कुशलं रामाः सेश्वरीणां यथा पुरा
न तथैतर्हि रोचन्ते गृहेषु गृह-सम्पदः ।
यदि न स्याद् गृहे माता पत्नी वा पति-देवता ।
व्यङ्गे रथ इव प्राज्ञः को नामासीत दीनवत्
क्व वर्तते सा ललना मज्जन्तं व्यसनार्णवे ।
या माम् उद्धरते प्रज्ञां दीपयन्ती पदे पदे
भ्प्_04.26.017।0 रामा ऊचुः
नर-नाथ न जानीमस् त्वत्-प्रिया यद् व्यवस्यति ।
भूतले निरवस्तारे शयानां पश्य शत्रु-हन्
भ्प्_04.26.018।0 नारद उवाच
पुरञ्जनः स्व-महिषीं निरीक्ष्यावधुतां भुवि ।
तत्-सङ्गोन्मथित-ज्ञानो वैक्लव्यं परमं ययौ
सान्त्वयन् श्लक्ष्णया वाचा हृदयेन विदूयता ।
प्रेयस्याः स्नेह-संरम्भ- लिङ्गम् आत्मनि नाभ्यगात्
अनुनिन्ये ऽथ शनकैर् वीरो ऽनुनय-कोविदः ।
पस्पर्श पाद-युगलम् आह चोत्सङ्ग-लालिताम्
भ्प्_04.26.021।0 पुरञ्जन उवाच
नूनं त्व् अकृत-पुण्यास् ते भृत्या येष्व् ईश्वराः शुभे ।
कृतागःस्व् आत्मसात् कृत्वा शिक्षा-दण्डं न युञ्जते
परमो ऽनुग्रहो दण्डो भृत्येषु प्रभुणार्पितः ।
बालो न वेद तत् तन्वि बन्धु-कृत्यम् अमर्षणः
सा त्वं मुखं सुदति सुभ्र्व् अनुराग-भार- व्रीडा-विलम्ब-विलसद्-धसितावलोकम् ।
नीलालकालिभिर् उपस्कृतम् उन्नसं नः स्वानां प्रदर्शय मनस्विनि वल्गु-वाक्यम्
तस्मिन् दधे दमम् अहं तव वीर-पत्नि यो ऽन्यत्र भूसुर-कुलात् कृत-किल्बिषस् तम् ।
पश्ये न वीत-भयम् उन्मुदितं त्रि-लोक्याम् अन्यत्र वै मुर-रिपोर् इतरत्र दासात्
वक्त्रं न ते वितिलकं मलिनं विहर्षं संरम्भ-भीमम् अविमृष्टम् अपेत-रागम् ।
पश्ये स्तनाव् अपि शुचोपहतौ सुजातौ बिम्बाधरं विगत-कुङ्कुम-पङ्क-रागम्
तन् मे प्रसीद सुहृदः कृत-किल्बिषस्य स्वैरं गतस्य मृगयां व्यसनातुरस्य ।
का देवरं वश-गतं कुसुमास्त्र-वेग- विस्रस्त-पौंस्नम् उशती न भजेत कृत्ये
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0