भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 04.24

04.24.001

भ्प्_04.24.001।0 मैत्रेय उवाच
विजिताश्वो ऽधिराजासीत् पृथु-पुत्रः पृथु-श्रवाः ।
यवीयोभ्यो ऽददात् काष्ठा भ्रातृभ्यो भ्रातृ-वत्सलः

04.24.002

हर्यक्षायादिशत् प्राचीं धूम्रकेशाय दक्षिणाम् ।
प्रतीचीं वृक-संज्ञाय तुर्यां द्रविणसे विभुः

04.24.003

अन्तर्धान-गतिं शक्राल् लब्ध्वान्तर्धान-संज्ञितः ।
अपत्य-त्रयम् आधत्त शिखण्डिन्यां सुसम्मतम्

04.24.004

पावकः पवमानश् च शुचिर् इत्य् अग्नयः पुरा ।
वसिष्ठ-शापाद् उत्पन्नाः पुनर् योग-गतिं गताः

04.24.005

अन्तर्धानो नभस्वत्यां हविर्धानम् अविन्दत ।
य इन्द्रम् अश्व-हर्तारं विद्वान् अपि न जघ्निवान्

04.24.006

राज्ञां वृत्तिं करादान- दण्ड-शुल्कादि-दारुणाम् ।
मन्यमानो दीर्घ-सत्त्र- व्याजेन विससर्ज ह

04.24.007

तत्रापि हंसं पुरुषं परमात्मानम् आत्म-दृक् ।
यजंस् तल्-लोकताम् आप कुशलेन समाधिना

04.24.008

हविर्धानाद् धविर्धानी विदुरासूत षट् सुतान् ।
बर्हिषदं गयं शुक्लं कृष्णं सत्यं जितव्रतम्

04.24.009

बर्हिषत् सुमहा-भागो हाविर्धानिः प्रजापतिः ।
क्रिया-काण्डेषु निष्णातो योगेषु च कुरूद्वह

04.24.010

यस्येदं देव-यजनम् अनुयज्ञं वितन्वतः ।
प्राचीनाग्रैः कुशैर् आसीद् आस्तृतं वसुधा-तलम्

04.24.011

सामुद्रीं देवदेवोक्ताम् उपयेमे शतद्रुतिम् ।
यां वीक्ष्य चारु-सर्वाङ्गीं किशोरीं सुष्ठ्व्-अलङ्कृताम् ।
परिक्रमन्तीम् उद्वाहे चकमे ऽग्निः शुकीम् इव

04.24.012

विबुधासुर-गन्धर्व- मुनि-सिद्ध-नरोरगाः ।
विजिताः सूर्यया दिक्षु क्वणयन्त्यैव नूपुरैः

04.24.013

प्राचीनबर्हिषः पुत्राः शतद्रुत्यां दशाभवन् ।
तुल्य-नाम-व्रताः सर्वे धर्म-स्नाताः प्रचेतसः

04.24.014

पित्रादिष्टाः प्रजा-सर्गे तपसे ऽर्णवम् आविशन् ।
दश-वर्ष-सहस्राणि तपसार्चंस् तपस्-पतिम्

04.24.015

यद् उक्तं पथि दृष्टेन गिरिशेन प्रसीदता ।
तद् ध्यायन्तो जपन्तश् च पूजयन्तश् च संयताः

04.24.016

भ्प्_04.24.016।0 विदुर उवाच
प्रचेतसां गिरित्रेण यथासीत् पथि सङ्गमः ।
यद् उताह हरः प्रीतस् तन् नो ब्रह्मन् वदार्थवत्

04.24.017

सङ्गमः खलु विप्रर्षे शिवेनेह शरीरिणाम् ।
दुर्लभो मुनयो दध्युर् असङ्गाद् यम् अभीप्सितम्

04.24.018

आत्मारामो ऽपि यस् त्व् अस्य लोक-कल्पस्य राधसे ।
शक्त्या युक्तो विचरति घोरया भगवान् भवः

04.24.019

भ्प्_04.24.019।0 मैत्रेय उवाच
प्रचेतसः पितुर् वाक्यं शिरसादाय साधवः ।
दिशं प्रतीचीं प्रययुस् तपस्य् आदृत-चेतसः

04.24.020

स-समुद्रम् उप विस्तीर्णम् अपश्यन् सुमहत् सरः ।
महन्-मन इव स्वच्छं प्रसन्न-सलिलाशयम्

04.24.021

नील-रक्तोत्पलाम्भोज- कह्लारेन्दीवराकरम् ।
हंस-सारस-चक्राह्व- कारण्डव-निकूजितम्

04.24.022

मत्त-भ्रमर-सौस्वर्य- हृष्ट-रोम-लताङ्घ्रिपम् ।
पद्म-कोश-रजो दिक्षु विक्षिपत्-पवनोत्सवम्

04.24.023

तत्र गान्धर्वम् आकर्ण्य दिव्य-मार्ग-मनोहरम् ।
विसिस्म्यू राज-पुत्रास् ते मृदङ्ग-पणवाद्य् अनु

04.24.024

तर्ह्य् एव सरसस् तस्मान् निष्क्रामन्तं सहानुगम् ।
उपगीयमानम् अमर- प्रवरं विबुधानुगैः

04.24.025

तप्त-हेम-निकायाभं शिति-कण्ठं त्रि-लोचनम् ।
प्रसाद-सुमुखं वीक्ष्य प्रणेमुर् जात-कौतुकाः

04.24.026

स तान् प्रपन्नार्ति-हरो भगवान् धर्म-वत्सलः ।
धर्म-ज्ञान् शील-सम्पन्नान् प्रीतः प्रीतान् उवाच ह

04.24.027

भ्प्_04.24.027।0 श्री-रुद्र उवाच
यूयं वेदिषदः पुत्रा विदितं वश् चिकीर्षितम् ।
अनुग्रहाय भद्रं व एवं मे दर्शनं कृतम्

04.24.028

यः परं रंहसः साक्षात् त्रि-गुणाज् जीव-संज्ञितात् ।
भगवन्तं वासुदेवं प्रपन्नः स प्रियो हि मे

04.24.029

स्व-धर्म-निष्ठः शत-जन्मभिः पुमान् विरिञ्चताम् एति ततः परं हि माम् ।
अव्याकृतं भागवतो ऽथ वैष्णवं पदं यथाहं विबुधाः कलात्यये

04.24.030

अथ भागवता यूयं प्रियाः स्थ भगवान् यथा ।
न मद् भागवतानां च प्रेयान् अन्यो ऽस्ति कर्हिचित्

04.24.031

इदं विविक्तं जप्तव्यं पवित्रं मङ्गलं परम् ।
निःश्रेयस-करं चापि श्रूयतां तद् वदामि वः

04.24.032

भ्प्_04.24.032।0 मैत्रेय उवाच
इत्य् अनुक्रोश-हृदयो भगवान् आह ताञ् छिवः ।
बद्धाञ्जलीन् राज-पुत्रान् नारायण-परो वचः

04.24.033

भ्प्_04.24.033।0 श्री-रुद्र उवाच
जितं त आत्म-विद्-वर्य- स्वस्तये स्वस्तिर् अस्तु मे ।
भवताराधसा राद्धं सर्वस्मा आत्मने नमः

04.24.034

नमः पङ्कज-नाभाय भूत-सूक्ष्मेन्द्रियात्मने ।
वासुदेवाय शान्ताय कूट-स्थाय स्व-रोचिषे

04.24.035

सङ्कर्षणाय सूक्ष्माय दुरन्तायान्तकाय च ।
नमो विश्व-प्रबोधाय प्रद्युम्नायान्तर्-आत्मने

04.24.036

नमो नमो ऽनिरुद्धाय हृषीकेशेन्द्रियात्मने ।
नमः परमहंसाय पूर्णाय निभृतात्मने

04.24.037

स्वर्गापवर्ग-द्वाराय नित्यं शुचि-षदे नमः ।
नमो हिरण्य-वीर्याय चातुर्-होत्राय तन्तवे

04.24.038

नम ऊर्ज इषे त्रय्याः पतये यज्ञ-रेतसे ।
तृप्ति-दाय च जीवानां नमः सर्व-रसात्मने

04.24.039

सर्व-सत्त्वात्म-देहाय विशेषाय स्थवीयसे ।
नमस् त्रैलोक्य-पालाय सह ओजो-बलाय च

04.24.040

अर्थ-लिङ्गाय नभसे नमो ऽन्तर्-बहिर्-आत्मने ।
नमः पुण्याय लोकाय अमुष्मै भूरि-वर्चसे

04.24.041

प्रवृत्ताय निवृत्ताय पितृ-देवाय कर्मणे ।
नमो ऽधर्म-विपाकाय मृत्यवे दुःख-दाय च

04.24.042

नमस् त आशिषाम् ईश मनवे कारणात्मने ।
नमो धर्माय बृहते कृष्णायाकुण्ठ-मेधसे ।
पुरुषाय पुराणाय साङ्ख्य-योगेश्वराय च

04.24.043

शक्ति-त्रय-समेताय मीढुषे ऽहङ्कृतात्मने ।
चेत-आकूति-रूपाय नमो वाचो विभूतये

04.24.044

दर्शनं नो दिदृक्षूणां देहि भागवतार्चितम् ।
रूपं प्रियतमं स्वानां सर्वेन्द्रिय-गुणाञ्जनम्

04.24.045

स्निग्ध-प्रावृड्-घन-श्यामं सर्व-सौन्दर्य-सङ्ग्रहम् ।
चार्व्-आयत-चतुर्-बाहु सुजात-रुचिराननम्

04.24.046

पद्म-कोश-पलाशाक्षं सुन्दर-भ्रु सुनासिकम् ।
सुद्विजं सुकपोलास्यं सम-कर्ण-विभूषणम्

04.24.047

प्रीति-प्रहसितापाङ्गम् अलकै रूप-शोभितम् ।
लसत्-पङ्कज-किञ्जल्क- दुकूलं मृष्ट-कुण्डलम्

04.24.048

स्फुरत्-किरीट-वलय- हार-नूपुर-मेखलम् ।
शङ्ख-चक्र-गदा-पद्म- माला-मण्य्-उत्तमर्द्धिमत्

04.24.049

सिंह-स्कन्ध-त्विषो बिभ्रत् सौभग-ग्रीव-कौस्तुभम् ।
श्रियानपायिन्या क्षिप्त- निकषाश्मोरसोल्लसत्

04.24.050

पूर-रेचक-संविग्न- वलि-वल्गु-दलोदरम् ।
प्रतिसङ्क्रामयद् विश्वं नाभ्यावर्त-गभीरया

04.24.051

श्याम-श्रोण्य्-अधि-रोचिष्णु- दुकूल-स्वर्ण-मेखलम् ।
सम-चार्व्-अङ्घ्रि-जङ्घोरु- निम्न-जानु-सुदर्शनम्

04.24.052

पदा शरत्-पद्म-पलाश-रोचिषा नख-द्युभिर् नो ऽन्तर्-अघं विधुन्वता ।
प्रदर्शय स्वीयम् अपास्त-साध्वसं पदं गुरो मार्ग-गुरुस् तमो-जुषाम्

04.24.053

एतद् रूपम् अनुध्येयम् आत्म-शुद्धिम् अभीप्सताम् ।
यद्-भक्ति-योगो ऽभयदः स्व-धर्मम् अनुतिष्ठताम्

04.24.054

भवान् भक्तिमता लभ्यो दुर्लभः सर्व-देहिनाम् ।
स्वाराज्यस्याप्य् अभिमत एकान्तेनात्म-विद्-गतिः

04.24.055

तं दुराराध्यम् आराध्य सताम् अपि दुरापया ।
एकान्त-भक्त्या को वाञ्छेत् पाद-मूलं विना बहिः

04.24.056

यत्र निर्विष्टम् अरणं कृतान्तो नाभिमन्यते ।
विश्वं विध्वंसयन् वीर्य- शौर्य-विस्फूर्जित-भ्रुवा

04.24.057

क्षणार्धेनापि तुलये न स्वर्गं नापुनर्-भवम् ।
भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः

04.24.058

अथानघाङ्घ्रेस् तव कीर्ति-तीर्थयोर् अन्तर्-बहिः-स्नान-विधूत-पाप्मनाम् ।
भूतेष्व् अनुक्रोश-सुसत्त्व-शीलिनां स्यात् सङ्गमो ऽनुग्रह एष नस् तव

04.24.059

न यस्य चित्तं बहिर्-अर्थ-विभ्रमं तमो-गुहायां च विशुद्धम् आविशत् ।
यद्-भक्ति-योगानुगृहीतम् अञ्जसा मुनिर् विचष्टे ननु तत्र ते गतिम्

04.24.060

यत्रेदं व्यज्यते विश्वं विश्वस्मिन्न् अवभाति यत् ।
तत् त्वं ब्रह्म परं ज्योतिर् आकाशम् इव विस्तृतम्

04.24.061

यो माययेदं पुरु-रूपयासृजद् बिभर्ति भूयः क्षपयत्य् अविक्रियः ।
यद्-भेद-बुद्धिः सद् इवात्म-दुःस्थया त्वम् आत्म-तन्त्रं भगवन् प्रतीमहि

04.24.062

क्रिया-कलापैर् इदम् एव योगिनः श्रद्धान्विताः साधु यजन्ति सिद्धये ।
भूतेन्द्रियान्तः-करणोपलक्षितं वेदे च तन्त्रे च त एव कोविदाः

04.24.063

त्वम् एक आद्यः पुरुषः सुप्त-शक्तिस् तया रजः-सत्त्व-तमो विभिद्यते ।
महान् अहं खं मरुद् अग्नि-वार्-धराः सुरर्षयो भूत-गणा इदं यतः

04.24.064

सृष्टं स्व-शक्त्येदम् अनुप्रविष्टश् चतुर्-विधं पुरम् आत्मांशकेन ।
अथो विदुस् तं पुरुषं सन्तम् अन्तर् भुङ्क्ते हृषीकैर् मधु सार-घं यः

04.24.065

स एष लोकान् अतिचण्ड-वेगो विकर्षसि त्वं खलु काल-यानः ।
भूतानि भूतैर् अनुमेय-तत्त्वो घनावलीर् वायुर् इवाविषह्यः

04.24.066

प्रमत्तम् उच्चैर् इति कृत्य-चिन्तया प्रवृद्ध-लोभं विषयेषु लालसम् ।
त्वम् अप्रमत्तः सहसाभिपद्यसे क्षुल्-लेलिहानो ऽहिर् इवाखुम् अन्तकः

04.24.067

कस् त्वत्-पदाब्जं विजहाति पण्डितो यस् ते ऽवमान-व्ययमान-केतनः ।
विशङ्कयास्मद्-गुरुर् अर्चति स्म यद् विनोपपत्तिं मनवश् चतुर्दश

04.24.068

अथ त्वम् असि नो ब्रह्मन् परमात्मन् विपश्चिताम् ।
विश्वं रुद्र-भय-ध्वस्तम् अकुतश्चिद्-भया गतिः

04.24.069

इदं जपत भद्रं वो विशुद्धा नृप-नन्दनाः ।
स्व-धर्मम् अनुतिष्ठन्तो भगवत्य् अर्पिताशयाः

04.24.070

तम् एवात्मानम् आत्म-स्थं सर्व-भूतेष्व् अवस्थितम् ।
पूजयध्वं गृणन्तश् च ध्यायन्तश् चासकृद् धरिम्

04.24.071

योगादेशम् उपासाद्य धारयन्तो मुनि-व्रताः ।
समाहित-धियः सर्व एतद् अभ्यसतादृताः

04.24.072

इदम् आह पुरास्माकं भगवान् विश्वसृक्-पतिः ।
भृग्व्-आदीनाम् आत्मजानां सिसृक्षुः संसिसृक्षताम्

04.24.073

ते वयं नोदिताः सर्वे प्रजा-सर्गे प्रजेश्वराः ।
अनेन ध्वस्त-तमसः सिसृक्ष्मो विविधाः प्रजाः

04.24.074

अथेदं नित्यदा युक्तो जपन्न् अवहितः पुमान् ।
अचिराच् छ्रेय आप्नोति वासुदेव-परायणः

04.24.075

श्रेयसाम् इह सर्वेषां ज्ञानं निःश्रेयसं परम् ।
सुखं तरति दुष्पारं ज्ञान-नौर् व्यसनार्णवम्

04.24.076

य इमं श्रद्धया युक्तो मद्-गीतं भगवत्-स्तवम् ।
अधीयानो दुराराध्यं हरिम् आराधयत्य् असौ

04.24.077

विन्दते पुरुषो ऽमुष्माद् यद् यद् इच्छत्य् असत्वरम् ।
मद्-गीत-गीतात् सुप्रीताच् छ्रेयसाम् एक-वल्लभात्

04.24.078

इदं यः कल्य उत्थाय प्राञ्जलिः श्रद्धयान्वितः ।
शृणुयाच् छ्रावयेन् मर्त्यो मुच्यते कर्म-बन्धनैः

04.24.079

गीतं मयेदं नरदेव-नन्दनाः परस्य पुंसः परमात्मनः स्तवम् ।
जपन्त एकाग्र-धियस् तपो महत् चरध्वम् अन्ते तत आप्स्यथेप्सितम्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc