भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 04.23

04.23.001

भ्प्_04.23.001।0 मैत्रेय उवाच
दृष्ट्वात्मानं प्रवयसम् एकदा वैन्य आत्मवान् ।
आत्मना वर्धिताशेष- स्वानुसर्गः प्रजापतिः

04.23.002

जगतस् तस्थुषश् चापि वृत्तिदो धर्म-भृत् सताम् ।
निष्पादितेश्वरादेशो यद्-अर्थम् इह जज्ञिवान्

04.23.003

आत्मजेष्व् आत्मजां न्यस्य विरहाद् रुदतीम् इव ।
प्रजासु विमनःस्व् एकः स-दारो ऽगात् तपो-वनम्

04.23.004

तत्राप्य् अदाभ्य-नियमो वैखानस-सुसम्मते ।
आरब्ध उग्र-तपसि यथा स्व-विजये पुरा

04.23.005

कन्द-मूल-फलाहारः शुष्क-पर्णाशनः क्वचित् ।
अब्-भक्षः कतिचित् पक्षान् वायु-भक्षस् ततः परम्

04.23.006

ग्रीष्मे पञ्च-तपा वीरो वर्षास्व् आसारषाण् मुनिः ।
आकण्ठ-मग्नः शिशिरे उदके स्थण्डिले-शयः

04.23.007

तितिक्षुर् यत-वाग् दान्त ऊर्ध्व-रेता जितानिलः ।
आरिराधयिषुः कृष्णम् अचरत् तप उत्तमम्

04.23.008

तेन क्रमानुसिद्धेन ध्वस्त-कर्म-मलाशयः ।
प्राणायामैः सन्निरुद्ध- षड्-वर्गश् छिन्न-बन्धनः

04.23.009

सनत्-कुमारो भगवान् यद् आहाध्यात्मिकं परम् ।
योगं तेनैव पुरुषम् अभजत् पुरुषर्षभः

04.23.010

भगवद्-धर्मिणः साधोः श्रद्धया यततः सदा ।
भक्तिर् भगवति ब्रह्मण्य् अनन्य-विषयाभवत्

04.23.013

तस्यानया भगवतः परिकर्म-शुद्ध- $ सत्त्वात्मनस् तद्-अनुसंस्मरणानुपूर्त्या &अम्प्;
ज्ञानं विरक्तिमद् अभून् निशितेन येन % चिच्छेद संशय-पदं निज-जीव-कोशम् ॥ भ्प्_04.23.011* ॥
छिन्नान्य-धीर् अधिगतात्म-गतिर् निरीहस् $ तत् तत्यजे ऽच्छिनद् इदं वयुनेन येन &
छिन्नान्य-धीर् अधिगतात्म-गतिर् निरीहस् $ तत् तत्यजे ऽच्छिनद् इदं वयुनेन येन &
तावन् न योग-गतिभिर् यतिर् अप्रमत्तो % यावद् गदाग्रज-कथासु रतिं न कुर्यात् ॥ भ्प्_04.23.012* ॥
एवं स वीर-प्रवरः संयोज्यात्मानम् आत्मनि ।
ब्रह्म-भूतो दृढं काले तत्याज स्वं कलेवरम्

04.23.014

सम्पीड्य पायुं पार्ष्णिभ्यां वायुम् उत्सारयञ् छनैः ।
नाभ्यां कोष्ठेष्व् अवस्थाप्य हृद्-उरः-कण्ठ-शीर्षणि

04.23.015

उत्सर्पयंस् तु तं मूर्ध्नि क्रमेणावेश्य निःस्पृहः ।
वायुं वायौ क्षितौ कायं तेजस् तेजस्य् अयूयुजत्

04.23.016

खान्य् आकाशे द्रवं तोये यथा-स्थानं विभागशः ।
क्षितिम् अम्भसि तत् तेजस्य् अदो वायौ नभस्य् अमुम्

04.23.017

इन्द्रियेषु मनस् तानि तन्-मात्रेषु यथोद्भवम् ।
भूतादिनामून्य् उत्कृष्य महत्य् आत्मनि सन्दधे

04.23.018

तं सर्व-गुण-विन्यासं जीवे मायामये न्यधात् ।
तं चानुशयम् आत्म-स्थम् असाव् अनुशयी पुमान् ।
नान-वैराग्य-वीर्येण स्वरूप-स्थो ऽजहात् प्रभुः

04.23.019

अर्चिर् नाम महा-राज्ञी तत्-पत्न्य् अनुगता वनम् ।
सुकुमार्य् अतद्-अर्हा च यत्-पद्भ्यां स्पर्शनं भुवः

04.23.020

अतीव भर्तुर् व्रत-धर्म-निष्ठया शुश्रूषया चार्ष-देह-यात्रया ।
नाविन्दतार्तिं परिकर्शितापि सा प्रेयस्कर-स्पर्शन-मान-निर्वृतिः

04.23.021

देहं विपन्नाखिल-चेतनादिकं पत्युः पृथिव्या दयितस्य चात्मनः ।
आलक्ष्य किञ्चिच् च विलप्य सा सती चिताम् अथारोपयद् अद्रि-सानुनि

04.23.022

विधाय कृत्यं ह्रदिनी-जलाप्लुता दत्त्वोदकं भर्तुर् उदार-कर्मणः ।
नत्वा दिवि-स्थांस् त्रिदशांस् त्रिः परीत्य विवेश वह्निं ध्यायती भर्तृ-पादौ

04.23.023

विलोक्यानुगतां साध्वीं पृथुं वीर-वरं पतिम् ।
तुष्टुवुर् वरदा देवैर् देव-पत्न्यः सहस्रशः

04.23.024

कुर्वत्यः कुसुमासारं तस्मिन् मन्दर-सानुनि ।
नदत्स्व् अमर-तूर्येषु गृणन्ति स्म परस्परम्

04.23.025

भ्प्_04.23.025।0 देव्य ऊचुः
अहो इयं वधूर् धन्या या चैवं भू-भुजां पतिम् ।
सर्वात्मना पतिं भेजे यज्ञेशं श्रीर् वधूर् इव

04.23.026

सैषा नूनं व्रजत्य् ऊर्ध्वम् अनु वैन्यं पतिं सती ।
पश्यतास्मान् अतीत्यार्चिर् दुर्विभाव्येन कर्मणा

04.23.027

तेषां दुरापं किं त्व् अन्यन् मर्त्यानां भगवत्-पदम् ।
भुवि लोलायुषो ये वै नैष्कर्म्यं साधयन्त्य् उत

04.23.028

स वञ्चितो बतात्म-ध्रुक् कृच्छ्रेण महता भुवि ।
लब्ध्वापवर्ग्यं मानुष्यं विषयेषु विषज्जते

04.23.029

भ्प्_04.23.029।0 मैत्रेय उवाच
स्तुवतीष्व् अमर-स्त्रीषु पति-लोकं गता वधूः ।
यं वा आत्म-विदां धुर्यो वैन्यः प्रापाच्युताश्रयः

04.23.030

इत्थम्-भूतानुभावो ऽसौ पृथुः स भगवत्तमः ।
कीर्तितं तस्य चरितम् उद्दाम-चरितस्य ते

04.23.031

य इदं सुमहत् पुण्यं श्रद्धयावहितः पठेत् ।
श्रावयेच् छृणुयाद् वापि स पृथोः पदवीम् इयात्

04.23.032

ब्राह्मणो ब्रह्म-वर्चस्वी राजन्यो जगती-पतिः ।
वैश्यः पठन् विट्-पतिः स्याच् छूद्रः सत्तमताम् इयात्

04.23.033

त्रिः कृत्व इदम् आकर्ण्य नरो नार्य् अथवादृता ।
अप्रजः सुप्रजतमो निर्धनो धनवत्तमः

04.23.034

अस्पष्ट-कीर्तिः सुयशा मूर्खो भवति पण्डितः ।
इदं स्वस्त्य्-अयनं पुंसाम् अमङ्गल्य-निवारणम्

04.23.035

धन्यं यशस्यम् आयुष्यं स्वर्ग्यं कलि-मलापहम् ।
धर्मार्थ-काम-मोक्षाणां सम्यक् सिद्धिम् अभीप्सुभिः ।
श्रद्धयैतद् अनुश्राव्यं चतुर्णां कारणं परम्

04.23.036

विजयाभिमुखो राजा श्रुत्वैतद् अभियाति यान् ।
बलिं तस्मै हरन्त्य् अग्रे राजानः पृथवे यथा

04.23.037

मुक्तान्य-सङ्गो भगवत्य् अमलां भक्तिम् उद्वहन् ।
वैन्यस्य चरितं पुण्यं शृणुयाच् छ्रावयेत् पठेत्

04.23.038

वैचित्रवीर्याभिहितं महन्-माहात्म्य-सूचकम् ।
अस्मिन् कृतम् अतिमर्त्यं पार्थवीं गतिम् आप्नुयात्

04.23.039

अनुदिनम् इदम् आदरेण शृण्वन् पृथु-चरितं प्रथयन् विमुक्त-सङ्गः ।
भगवति भव-सिन्धु-पोत-पादे स च निपुणां लभते रतिं मनुष्यः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc