भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 04.19

04.19.001

भ्प्_04.19.001।0 मैत्रेय उवाच
अथादीक्षत राजा तु हयमेध-शतेन सः ।
ब्रह्मावर्ते मनोः क्षेत्रे यत्र प्राची सरस्वती

04.19.002

तद् अभिप्रेत्य भगवान् कर्मातिशयम् आत्मनः ।
शत-क्रतुर् न ममृषे पृथोर् यज्ञ-महोत्सवम्

04.19.003

यत्र यज्ञ-पतिः साक्षाद् भगवान् हरिर् ईश्वरः ।
अन्वभूयत सर्वात्मा सर्व-लोक-गुरुः प्रभुः

04.19.004

अन्वितो ब्रह्म-शर्वाभ्यां लोक-पालैः सहानुगैः ।
उपगीयमानो गन्धर्वैर् मुनिभिश् चाप्सरो-गणैः

04.19.005

सिद्धा विद्याधरा दैत्या दानवा गुह्यकादयः ।
सुनन्द-नन्द-प्रमुखाः पार्षद-प्रवरा हरेः

04.19.006

कपिलो नारदो दत्तो योगेशाः सनकादयः ।
तम् अन्वीयुर् भागवता ये च तत्-सेवनोत्सुकाः

04.19.007

यत्र धर्म-दुघा भूमिः सर्व-काम-दुघा सती ।
दोग्धि स्माभीप्सितान् अर्थान् यजमानस्य भारत

04.19.008

ऊहुः सर्व-रसान् नद्यः क्षीर-दध्य्-अन्न-गो-रसान् ।
तरवो भूरि-वर्ष्माणः प्रासूयन्त मधु-च्युतः

04.19.009

सिन्धवो रत्न-निकरान् गिरयो ऽन्नं चतुर्-विधम् ।
उपायनम् उपाजह्रुः सर्वे लोकाः स-पालकाः

04.19.010

इति चाधोक्षजेशस्य पृथोस् तु परमोदयम् ।
असूयन् भगवान् इन्द्रः प्रतिघातम् अचीकरत्

04.19.011

चरमेणाश्वमेधेन यजमाने यजुष्-पतिम् ।
वैन्ये यज्ञ-पशुं स्पर्धन्न् अपोवाह तिरोहितः

04.19.012

तम् अत्रिर् भगवान् ऐक्षत् त्वरमाणं विहायसा ।
आमुक्तम् इव पाखण्डं यो ऽधर्मे धर्म-विभ्रमः

04.19.013

अत्रिणा चोदितो हन्तुं पृथु-पुत्रो महा-रथः ।
अन्वधावत सङ्क्रुद्धस् तिष्ठ तिष्ठेति चाब्रवीत्

04.19.014

तं तादृशाकृतिं वीक्ष्य मेने धर्मं शरीरिणम् ।
जटिलं भस्मनाच्छन्नं तस्मै बाणं न मुञ्चति

04.19.015

वधान् निवृत्तं तं भूयो हन्तवे ऽत्रिर् अचोदयत् ।
जहि यज्ञ-हनं तात महेन्द्रं विबुधाधमम्

04.19.016

एवं वैन्य-सुतः प्रोक्तस् त्वरमाणं विहायसा ।
अन्वद्रवद् अभिक्रुद्धो रावणं गृध्र-राड् इव

04.19.017

सो ऽश्वं रूपं च तद् धित्वा तस्मा अन्तर्हितः स्वराट् ।
वीरः स्व-पशुम् आदाय पितुर् यज्ञम् उपेयिवान्

04.19.018

तत् तस्य चाद्भुतं कर्म विचक्ष्य परमर्षयः ।
नामधेयं ददुस् तस्मै विजिताश्व इति प्रभो

04.19.019

उपसृज्य तमस् तीव्रं जहाराश्वं पुनर् हरिः ।
चषाल-यूपतश् छन्नो हिरण्य-रशनं विभुः

04.19.020

अत्रिः सन्दर्शयाम् आस त्वरमाणं विहायसा ।
कपाल-खट्वाङ्ग-धरं वीरो नैनम् अबाधत

04.19.021

अत्रिणा चोदितस् तस्मै सन्दधे विशिखं रुषा ।
सो ऽश्वं रूपं च तद् धित्वा तस्थाव् अन्तर्हितः स्वराट्

04.19.022

वीरश् चाश्वम् उपादाय पितृ-यज्ञम् अथाव्रजत् ।
तद् अवद्यं हरे रूपं जगृहुर् ज्ञान-दुर्बलाः

04.19.023

यानि रूपाणि जगृहे इन्द्रो हय-जिहीर्षया ।
तानि पापस्य खण्डानि लिङ्गं खण्डम् इहोच्यते

04.19.024

एवम् इन्द्रे हरत्य् अश्वं वैन्य-यज्ञ-जिघांसया ।
तद्-गृहीत-विसृष्टेषु पाखण्डेषु मतिर् नृणाम्

04.19.025

धर्म इत्य् उपधर्मेषु नग्न-रक्त-पटादिषु ।
प्रायेण सज्जते भ्रान्त्या पेशलेषु च वाग्मिषु

04.19.026

तद् अभिज्ञाय भगवान् पृथुः पृथु-पराक्रमः ।
इन्द्राय कुपितो बाणम् आदत्तोद्यत-कार्मुकः

04.19.027

तम् ऋत्विजः शक्र-वधाभिसन्धितं विचक्ष्य दुष्प्रेक्ष्यम् असह्य-रंहसम् ।
निवारयाम् आसुर् अहो महा-मते न युज्यते ऽत्रान्य-वधः प्रचोदितात्

04.19.028

वयं मरुत्वन्तम् इहार्थ-नाशनं ह्वयामहे त्वच्-छ्रवसा हत-त्विषम् ।
अयातयामोपहवैर् अनन्तरं प्रसह्य राजन् जुहवाम ते ऽहितम्

04.19.029

इत्य् आमन्त्र्य क्रतु-पतिं विदुरास्यर्त्विजो रुषा ।
स्रुग्-घस्तान् जुह्वतो ऽभ्येत्य स्वयम्भूः प्रत्यषेधत

04.19.030

न वध्यो भवताम् इन्द्रो यद् यज्ञो भगवत्-तनुः ।
यं जिघांसथ यज्ञेन यस्येष्टास् तनवः सुराः

04.19.031

तद् इदं पश्यत महद्- धर्म-व्यतिकरं द्विजाः ।
इन्द्रेणानुष्ठितं राज्ञः कर्मैतद् विजिघांसता

04.19.032

पृथु-कीर्तेः पृथोर् भूयात् तर्ह्य् एकोन-शत-क्रतुः ।
अलं ते क्रतुभिः स्विष्टैर् यद् भवान् मोक्ष-धर्म-वित्

04.19.033

नैवात्मने महेन्द्राय रोषम् आहर्तुम् अर्हसि ।
उभाव् अपि हि भद्रं ते उत्तमश्लोक-विग्रहौ

04.19.034

मास्मिन् महाराज कृथाः स्म चिन्तां निशामयास्मद्-वच आदृतात्मा ।
यद् ध्यायतो दैव-हतं नु कर्तुं मनो ऽतिरुष्टं विशते तमो ऽन्धम्

04.19.035

क्रतुर् विरमताम् एष देवेषु दुरवग्रहः ।
धर्म-व्यतिकरो यत्र पाखण्डैर् इन्द्र-निर्मितैः

04.19.036

एभिर् इन्द्रोपसंसृष्टैः पाखण्डैर् हारिभिर् जनम् ।
ह्रियमाणं विचक्ष्वैनं यस् ते यज्ञ-ध्रुग् अश्व-मुट्

04.19.037

भवान् परित्रातुम् इहावतीर्णो धर्मं जनानां समयानुरूपम् ।
वेनापचाराद् अवलुप्तम् अद्य तद्-देहतो विष्णु-कलासि वैन्य

04.19.038

स त्वं विमृश्यास्य भवं प्रजापते सङ्कल्पनं विश्व-सृजां पिपीपृहि ।
ऐन्द्रीं च मायाम् उपधर्म-मातरं प्रचण्ड-पाखण्ड-पथं प्रभो जहि

04.19.039

भ्प्_04.19.039।0 मैत्रेय उवाच
इत्थं स लोक-गुरुणा समादिष्टो विशाम्पतिः ।
तथा च कृत्वा वात्सल्यं मघोनापि च सन्दधे

04.19.040

कृतावभृथ-स्नानाय पृथवे भूरि-कर्मणे ।
वरान् ददुस् ते वरदा ये तद्-बर्हिषि तर्पिताः

04.19.041

विप्राः सत्याशिषस् तुष्टाः श्रद्धया लब्ध-दक्षिणाः ।
आशिषो युयुजुः क्षत्तर् आदि-राजाय सत्-कृताः

04.19.042

त्वयाहूता महा-बाहो सर्व एव समागताः ।
पूजिता दान-मानाभ्यां पितृ-देवर्षि-मानवाः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc