भागवत पुराण · अध्याय 04.18
भ्प्_04.18.001।0 मैत्रेय उवाच
इत्थं पृथुम् अभिष्टूय रुषा प्रस्फुरिताधरम् ।
पुनर् आहावनिर् भीता संस्तभ्यात्मानम् आत्मना
सन्नियच्छाभिभो मन्युं निबोध श्रावितं च मे ।
सर्वतः सारम् आदत्ते यथा मधु-करो बुधः
अस्मिन् लोके ऽथवामुष्मिन् मुनिभिस् तत्त्व-दर्शिभिः ।
दृष्टा योगाः प्रयुक्ताश् च पुंसां श्रेयः-प्रसिद्धये
तान् आतिष्ठति यः सम्यग् उपायान् पूर्व-दर्शितान् ।
अवरः श्रद्धयोपेत उपेयान् विन्दते ऽञ्जसा
तान् अनादृत्य यो ऽविद्वान् अर्थान् आरभते स्वयम् ।
तस्य व्यभिचरन्त्य् अर्था आरब्धाश् च पुनः पुनः
पुरा सृष्टा ह्य् ओषधयो ब्रह्मणा या विशाम्पते ।
भुज्यमाना मया दृष्टा असद्भिर् अधृत-व्रतैः
अपालितानादृता च भवद्भिर् लोक-पालकैः ।
चोरी-भूते ऽथ लोके ऽहं यज्ञार्थे ऽग्रसम् ओषधीः
नूनं ता वीरुधः क्षीणा मयि कालेन भूयसा ।
तत्र योगेन दृष्टेन भवान् आदातुम् अर्हति
वत्सं कल्पय मे वीर येनाहं वत्सला तव ।
धोक्ष्ये क्षीरमयान् कामान् अनुरूपं च दोहनम्
दोग्धारं च महा-बाहो भूतानां भूत-भावन ।
अन्नम् ईप्सितम् ऊर्जस्वद् भगवान् वाञ्छते यदि
समां च कुरु मां राजन् देव-वृष्टं यथा पयः ।
अपर्ताव् अपि भद्रं ते उपावर्तेत मे विभो
इति प्रियं हितं वाक्यं भुव आदाय भूपतिः ।
वत्सं कृत्वा मनुं पाणाव् अदुहत् सकलौषधीः
तथापरे च सर्वत्र सारम् आददते बुधाः ।
ततो ऽन्ये च यथा-कामं दुदुहुः पृथु-भाविताम्
ऋषयो दुदुहुर् देवीम् इन्द्रियेष्व् अथ सत्तम ।
वत्सं बृहस्पतिं कृत्वा पयश् छन्दोमयं शुचि
कृत्वा वत्सं सुर-गणा इन्द्रं सोमम् अदूदुहन् ।
हिरण्मयेन पात्रेण वीर्यम् ओजो बलं पयः
दैतेया दानवा वत्सं प्रह्लादम् असुरर्षभम् ।
विधायादूदुहन् क्षीरम् अयः-पात्रे सुरासवम्
गन्धर्वाप्सरसो ऽधुक्षन् पात्रे पद्ममये पयः ।
वत्सं विश्वावसुं कृत्वा गान्धर्वं मधु सौभगम्
वत्सेन पितरो ऽर्यम्णा कव्यं क्षीरम् अधुक्षत ।
आम-पात्रे महा-भागाः श्रद्धया श्राद्ध-देवताः
प्रकल्प्य वत्सं कपिलं सिद्धाः सङ्कल्पनामयीम् ।
सिद्धिं नभसि विद्यां च ये च विद्याधरादयः
अन्ये च मायिनो मायाम् अन्तर्धानाद्भुतात्मनाम् ।
मयं प्रकल्प्य वत्सं ते दुदुहुर् धारणामयीम्
यक्ष-रक्षांसि भूतानि पिशाचाः पिशिताशनाः ।
भूतेश-वत्सा दुदुहुः कपाले क्षतजासवम्
तथाहयो दन्दशूकाः सर्पा नागाश् च तक्षकम् ।
विधाय वत्सं दुदुहुर् बिल-पात्रे विषं पयः
पशवो यवसं क्षीरं वत्सं कृत्वा च गो-वृषम् ।
अरण्य-पात्रे चाधुक्षन् मृगेन्द्रेण च दंष्ट्रिणः
क्रव्यादाः प्राणिनः क्रव्यं दुदुहुः स्वे कलेवरे ।
सुपर्ण-वत्सा विहगाश् चरं चाचरम् एव च
वट-वत्सा वनस्पतयः पृथग् रसमयं पयः ।
गिरयो हिमवद्-वत्सा नाना-धातून् स्व-सानुषु
सर्वे स्व-मुख्य-वत्सेन स्वे स्वे पात्रे पृथक् पयः ।
सर्व-काम-दुघां पृथ्वीं दुदुहुः पृथु-भाविताम्
एवं पृथ्व्-आदयः पृथ्वीम् अन्नादाः स्वन्नम् आत्मनः ।
दोह-वत्सादि-भेदेन क्षीर-भेदं कुरूद्वह
ततो महीपतिः प्रीतः सर्व-काम-दुघां पृथुः ।
दुहितृत्वे चकारेमां प्रेम्णा दुहितृ-वत्सलः
चूर्णयन् स्व-धनुष्-कोट्या गिरि-कूटानि राज-राट् ।
भू-मण्डलम् इदं वैन्यः प्रायश् चक्रे समं विभुः
अथास्मिन् भगवान् वैन्यः प्रजानां वृत्तिदः पिता ।
निवासान् कल्पयां चक्रे तत्र तत्र यथार्हतः
ग्रामान् पुरः पत्तनानि दुर्गाणि विविधानि च ।
घोषान् व्रजान् स-शिबिरान् आकरान् खेट-खर्वटान्
प्राक् पृथोर् इह नैवैषा पुर-ग्रामादि-कल्पना ।
यथा-सुखं वसन्ति स्म तत्र तत्राकुतोभयाः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0