भागवत पुराण · अध्याय 04.20
भ्प्_04.20.001।0 मैत्रेय उवाच
भगवान् अपि वैकुण्ठः साकं मघवता विभुः ।
यज्ञैर् यज्ञ-पतिस् तुष्टो यज्ञ-भुक् तम् अभाषत
भ्प्_04.20.002।0 श्री-भगवान् उवाच
एष ते ऽकार्षीद् भङ्गं हय-मेध-शतस्य ह ।
क्षमापयत आत्मानम् अमुष्य क्षन्तुम् अर्हसि
सुधियः साधवो लोके नरदेव नरोत्तमाः ।
नाभिद्रुह्यन्ति भूतेभ्यो यर्हि नात्मा कलेवरम्
पुरुषा यदि मुह्यन्ति त्वादृशा देव-मायया ।
श्रम एव परं जातो दीर्घया वृद्ध-सेवया
अतः कायम् इमं विद्वान् अविद्या-काम-कर्मभिः ।
आरब्ध इति नैवास्मिन् प्रतिबुद्धो ऽनुषज्जते
असंसक्तः शरीरे ऽस्मिन्न् अमुनोत्पादिते गृहे ।
अपत्ये द्रविणे वापि कः कुर्यान् ममतां बुधः
एकः शुद्धः स्वयं-ज्योतिर् निर्गुणो ऽसौ गुणाश्रयः ।
सर्व-गो ऽनावृतः साक्षी निरात्मात्मात्मनः परः
य एवं सन्तम् आत्मानम् आत्म-स्थं वेद पूरुषः ।
नाज्यते प्रकृति-स्थो ऽपि तद्-गुणैः स मयि स्थितः
यः स्व-धर्मेण मां नित्यं निराशीः श्रद्धयान्वितः ।
भजते शनकैस् तस्य मनो राजन् प्रसीदति
परित्यक्त-गुणः सम्यग् दर्शनो विशदाशयः ।
शान्तिं मे समवस्थानं ब्रह्म कैवल्यम् अश्नुते
उदासीनम् इवाध्यक्षं द्रव्य-ज्ञान-क्रियात्मनाम् ।
कूट-स्थम् इमम् आत्मानं यो वेदाप्नोति शोभनम्
भिन्नस्य लिङ्गस्य गुण-प्रवाहो द्रव्य-क्रिया-कारक-चेतनात्मनः ।
दृष्टासु सम्पत्सु विपत्सु सूरयो न विक्रियन्ते मयि बद्ध-सौहृदाः
समः समानोत्तम-मध्यमाधमः सुखे च दुःखे च जितेन्द्रियाशयः ।
मयोपकॢप्ताखिल-लोक-संयुतो विधत्स्व वीराखिल-लोक-रक्षणम्
श्रेयः प्रजा-पालनम् एव राज्ञो यत् साम्पराये सुकृतात् षष्ठम् अंशम् ।
हर्तान्यथा हृत-पुण्यः प्रजानाम् अरक्षिता कर-हारो ऽघम् अत्ति
एवं द्विजाग्र्यानुमतानुवृत्त- धर्म-प्रधानो ऽन्यतमो ऽवितास्याः ।
ह्रस्वेन कालेन गृहोपयातान् द्रष्टासि सिद्धान् अनुरक्त-लोकः
वरं च मत् कञ्चन मानवेन्द्र वृणीष्व ते ऽहं गुण-शील-यन्त्रितः ।
नाहं मखैर् वै सुलभस् तपोभिर् योगेन वा यत् सम-चित्त-वर्ती
भ्प्_04.20.017।0 मैत्रेय उवाच
स इत्थं लोक-गुरुणा विष्वक्सेनेन विश्व-जित् ।
अनुशासित आदेशं शिरसा जगृहे हरेः
स्पृशन्तं पादयोः प्रेम्णा व्रीडितं स्वेन कर्मणा ।
शत-क्रतुं परिष्वज्य विद्वेषं विससर्ज ह
भगवान् अथ विश्वात्मा पृथुनोपहृतार्हणः ।
समुज्जिहानया भक्त्या गृहीत-चरणाम्बुजः
प्रस्थानाभिमुखो ऽप्य् एनम् अनुग्रह-विलम्बितः ।
पश्यन् पद्म-पलाशाक्षो न प्रतस्थे सुहृत् सताम्
स आदि-राजो रचिताञ्जलिर् हरिं विलोकितुं नाशकद् अश्रु-लोचनः ।
न किञ्चनोवाच स बाष्प-विक्लवो हृदोपगुह्यामुम् अधाद् अवस्थितः
अथावमृज्याश्रु-कला विलोकयन्न् अतृप्त-दृग्-गोचरम् आह पूरुषम् ।
पदा स्पृशन्तं क्षितिम् अंस उन्नते विन्यस्त-हस्ताग्रम् उरङ्ग-विद्विषः
भ्प्_04.20.023।0 पृथुर् उवाच
वरान् विभो त्वद् वरदेश्वराद् बुधः कथं वृणीते गुण-विक्रियात्मनाम् ।
ये नारकाणाम् अपि सन्ति देहिनां तान् ईश कैवल्य-पते वृणे न च
न कामये नाथ तद् अप्य् अहं क्वचिन् न यत्र युष्मच्-चरणाम्बुजासवः ।
महत्तमान्तर्-हृदयान् मुख-च्युतो विधत्स्व कर्णायुतम् एष मे वरः
स उत्तमश्लोक महन्-मुख-च्युतो भवत्-पदाम्भोज-सुधा कणानिलः ।
स्मृतिं पुनर् विस्मृत-तत्त्व-वर्त्मनां कुयोगिनां नो वितरत्य् अलं वरैः
यशः शिवं सुश्रव आर्य-सङ्गमे यदृच्छया चोपशृणोति ते सकृत् ।
कथं गुण-ज्ञो विरमेद् विना पशुं श्रीर् यत् प्रवव्रे गुण-सङ्ग्रहेच्छया
अथाभजे त्वाखिल-पूरुषोत्तमं गुणालयं पद्म-करेव लालसः ।
अप्य् आवयोर् एक-पति-स्पृधोः कलिर् न स्यात् कृत-त्वच्-चरणैक-तानयोः
जगज्-जनन्यां जगद्-ईश वैशसं स्याद् एव यत्-कर्मणि नः समीहितम् ।
करोषि फल्ग्व् अप्य् उरु दीन-वत्सलः स्व एव धिष्ण्ये ऽभिरतस्य किं तया
भजन्त्य् अथ त्वाम् अत एव साधवो व्युदस्त-माया-गुण-विभ्रमोदयम् ।
भवत्-पदानुस्मरणाद् ऋते सतां निमित्तम् अन्यद् भगवन् न विद्महे
मन्ये गिरं ते जगतां विमोहिनीं वरं वृणीष्वेति भजन्तम् आत्थ यत् ।
वाचा नु तन्त्या यदि ते जनो ऽसितः कथं पुनः कर्म करोति मोहितः
त्वन्-माययाद्धा जन ईश खण्डितो यद् अन्यद् आशास्त ऋतात्मनो ऽबुधः ।
यथा चरेद् बाल-हितं पिता स्वयं तथा त्वम् एवार्हसि नः समीहितुम्
भ्प्_04.20.032।0 मैत्रेय उवाच
इत्य् आदि-राजेन नुतः स विश्व-दृक् तम् आह राजन् मयि भक्तिर् अस्तु ते ।
दिष्ट्येदृशी धीर् मयि ते कृता यया मायां मदीयां तरति स्म दुस्त्यजाम्
तत् त्वं कुरु मयादिष्टम् अप्रमत्तः प्रजापते ।
मद्-आदेश-करो लोकः सर्वत्राप्नोति शोभनम्
भ्प्_04.20.034।0 मैत्रेय उवाच
इति वैन्यस्य राजर्षेः प्रतिनन्द्यार्थवद् वचः ।
पूजितो ऽनुगृहीत्वैनं गन्तुं चक्रे ऽच्युतो मतिम्
देवर्षि-पितृ-गन्धर्व- सिद्ध-चारण-पन्नगाः ।
किन्नराप्सरसो मर्त्याः खगा भूतान्य् अनेकशः
यज्ञेश्वर-धिया राज्ञा वाग्-वित्ताञ्जलि-भक्तितः ।
सभाजिता ययुः सर्वे वैकुण्ठानुगतास् ततः
भगवान् अपि राजर्षेः सोपाध्यायस्य चाच्युतः ।
हरन्न् इव मनो ऽमुष्य स्व-धाम प्रत्यपद्यत
अदृष्टाय नमस्कृत्य नृपः सन्दर्शितात्मने ।
अव्यक्ताय च देवानां देवाय स्व-पुरं ययौ
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0