भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 04.16

04.16.001

भ्प्_04.16.001।0 मैत्रेय उवाच
इति ब्रुवाणं नृपतिं गायका मुनि-चोदिताः ।
तुष्टुवुस् तुष्ट-मनसस् तद्-वाग्-अमृत-सेवया

04.16.002

नालं वयं ते महिमानुवर्णने यो देव-वर्यो ऽवततार मायया ।
वेनाङ्ग-जातस्य च पौरुषाणि ते वाचस्-पतीनाम् अपि बभ्रमुर् धियः

04.16.003

अथाप्य् उदार-श्रवसः पृथोर् हरेः कलावतारस्य कथामृतादृताः ।
यथोपदेशं मुनिभिः प्रचोदिताः श्लाघ्यानि कर्माणि वयं वितन्महि

04.16.004

एष धर्म-भृतां श्रेष्ठो लोकं धर्मे ऽनुवर्तयन् ।
गोप्ता च धर्म-सेतूनां शास्ता तत्-परिपन्थिनाम्

04.16.005

एष वै लोक-पालानां बिभर्त्य् एकस् तनौ तनूः ।
काले काले यथा-भागं लोकयोर् उभयोर् हितम्

04.16.006

वसु काल उपादत्ते काले चायं विमुञ्चति ।
समः सर्वेषु भूतेषु प्रतपन् सूर्यवद् विभुः

04.16.007

तितिक्षत्य् अक्रमं वैन्य उपर्य् आक्रमताम् अपि ।
भूतानां करुणः शश्वद् आर्तानां क्षिति-वृत्तिमान्

04.16.008

देवे ऽवर्षत्य् असौ देवो नरदेव-वपुर् हरिः ।
कृच्छ्र-प्राणाः प्रजा ह्य् एष रक्षिष्यत्य् अञ्जसेन्द्रवत्

04.16.009

आप्याययत्य् असौ लोकं वदनामृत-मूर्तिना ।
सानुरागावलोकेन विशद-स्मित-चारुणा

04.16.010

अव्यक्त-वर्त्मैष निगूढ-कार्यो गम्भीर-वेधा उपगुप्त-वित्तः ।
अनन्त-माहात्म्य-गुणैक-धामा पृथुः प्रचेता इव संवृतात्मा

04.16.011

दुरासदो दुर्विषह आसन्नो ऽपि विदूरवत् ।
नैवाभिभवितुं शक्यो वेनारण्य्-उत्थितो ऽनलः

04.16.012

अन्तर् बहिश् च भूतानां पश्यन् कर्माणि चारणैः ।
उदासीन इवाध्यक्षो वायुर् आत्मेव देहिनाम्

04.16.013

नादण्ड्यं दण्डयत्य् एष सुतम् आत्म-द्विषाम् अपि ।
दण्डयत्य् आत्मजम् अपि दण्ड्यं धर्म-पथे स्थितः

04.16.014

अस्याप्रतिहतं चक्रं पृथोर् आमानसाचलात् ।
वर्तते भगवान् अर्को यावत् तपति गो-गणैः

04.16.015

रञ्जयिष्यति यल् लोकम् अयम् आत्म-विचेष्टितैः ।
अथामुम् आहू राजानं मनो-रञ्जनकैः प्रजाः

04.16.016

दृढ-व्रतः सत्य-सन्धो ब्रह्मण्यो वृद्ध-सेवकः ।
शरण्यः सर्व-भूतानां मानदो दीन-वत्सलः

04.16.017

मातृ-भक्तिः पर-स्त्रीषु पत्न्याम् अर्ध इवात्मनः ।
प्रजासु पितृवत् स्निग्धः किङ्करो ब्रह्म-वादिनाम्

04.16.018

देहिनाम् आत्मवत्-प्रेष्ठः सुहृदां नन्दि-वर्धनः ।
मुक्त-सङ्ग-प्रसङ्गो ऽयं दण्ड-पाणिर् असाधुषु

04.16.019

अयं तु साक्षाद् भगवांस् त्र्य्-अधीशः कूट-स्थ आत्मा कलयावतीर्णः ।
यस्मिन्न् अविद्या-रचितं निरर्थकं पश्यन्ति नानात्वम् अपि प्रतीतम्

04.16.020

अयं भुवो मण्डलम् ओदयाद्रेर् गोप्तैक-वीरो नरदेव-नाथः ।
आस्थाय जैत्रं रथम् आत्त-चापः पर्यस्यते दक्षिणतो यथार्कः

04.16.021

अस्मै नृ-पालाः किल तत्र तत्र बलिं हरिष्यन्ति सलोक-पालाः ।
मंस्यन्त एषां स्त्रिय आदि-राजं चक्रायुधं तद्-यश उद्धरन्त्यः

04.16.022

अयं महीं गां दुदुहे ऽधिराजः प्रजापतिर् वृत्ति-करः प्रजानाम् ।
यो लीलयाद्रीन् स्व-शरास-कोट्या भिन्दन् समां गाम् अकरोद् यथेन्द्रः

04.16.023

विस्फूर्जयन्न् आज-गवं धनुः स्वयं यदाचरत् क्ष्माम् अविषह्यम् आजौ ।
तदा निलिल्युर् दिशि दिश्य् असन्तो लाङ्गूलम् उद्यम्य यथा मृगेन्द्रः

04.16.024

एषो ऽश्वमेधाञ् शतम् आजहार सरस्वती प्रादुरभावि यत्र ।
अहार्षीद् यस्य हयं पुरन्दरः शत-क्रतुश् चरमे वर्तमाने

04.16.025

एष स्व-सद्मोपवने समेत्य सनत्-कुमारं भगवन्तम् एकम् ।
आराध्य भक्त्यालभतामलं तज् ज्ञानं यतो ब्रह्म परं विदन्ति

04.16.026

तत्र तत्र गिरस् तास् ता इति विश्रुत-विक्रमः ।
श्रोष्यत्य् आत्माश्रिता गाथाः पृथुः पृथु-पराक्रमः

04.16.027

दिशो विजित्याप्रतिरुद्ध-चक्रः स्व-तेजसोत्पाटित-लोक-शल्यः ।
सुरासुरेन्द्रैर् उपगीयमान- महानुभावो भविता पतिर् भुवः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc