भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 04.15

04.15.001

भ्प्_04.15.001।0 मैत्रेय उवाच
अथ तस्य पुनर् विप्रैर् अपुत्रस्य महीपतेः ।
बाहुभ्यां मथ्यमानाभ्यां मिथुनं समपद्यत

04.15.002

तद् दृष्ट्वा मिथुनं जातम् ऋषयो ब्रह्म-वादिनः ।
ऊचुः परम-सन्तुष्टा विदित्वा भगवत्-कलाम्

04.15.003

भ्प्_04.15.003।0 ऋषय ऊचुः
एष विष्णोर् भगवतः कला भुवन-पालिनी ।
इयं च लक्ष्म्याः सम्भूतिः पुरुषस्यानपायिनी

04.15.004

अयं तु प्रथमो राज्ञां पुमान् प्रथयिता यशः ।
पृथुर् नाम महाराजो भविष्यति पृथु-श्रवाः

04.15.005

इयं च सुदती देवी गुण-भूषण-भूषणा ।
अर्चिर् नाम वरारोहा पृथुम् एवावरुन्धती

04.15.006

एष साक्षाद् धरेर् अंशोजातो लोक-रिरक्षया ।
इयं च तत्-परा हि श्रीर् अनुजज्ञे ऽनपायिनी

04.15.007

भ्प्_04.15.007।0 मैत्रेय उवाच
प्रशंसन्ति स्म तं विप्रा गन्धर्व-प्रवरा जगुः ।
मुमुचुः सुमनो-धाराः सिद्धा नृत्यन्ति स्वः-स्त्रियः

04.15.008

शङ्ख-तूर्य-मृदङ्गाद्या नेदुर् दुन्दुभयो दिवि ।
तत्र सर्व उपाजग्मुर् देवर्षि-पितॄणां गणाः

04.15.009

ब्रह्मा जगद्-गुरुर् देवैः सहासृत्य सुरेश्वरैः ।
वैन्यस्य दक्षिणे हस्ते दृष्ट्वा चिह्नं गदाभृतः

04.15.010

पादयोर् अरविन्दं च तं वै मेने हरेः कलाम् ।
यस्याप्रतिहतं चक्रम् अंशः स परमेष्ठिनः

04.15.011

तस्याभिषेक आरब्धो ब्राह्मणैर् ब्रह्म-वादिभिः ।
आभिषेचनिकान्य् अस्मै आजह्रुः सर्वतो जनाः

04.15.012

सरित्-समुद्रा गिरयो नागा गावः खगा मृगाः ।
द्यौः क्षितिः सर्व-भूतानि समाजह्रुर् उपायनम्

04.15.013

सो ऽभिषिक्तो महाराजः सुवासाः साध्व्-अलङ्कृतः ।
पत्न्यार्चिषालङ्कृतया विरेजे ऽग्निर् इवापरः

04.15.014

तस्मै जहार धनदो हैमं वीर वरासनम् ।
वरुणः सलिल-स्रावम् आतपत्रं शशि-प्रभम्

04.15.015

वायुश् च वाल-व्यजने धर्मः कीर्तिमयीं स्रजम् ।
इन्द्रः किरीटम् उत्कृष्टं दण्डं संयमनं यमः

04.15.016

ब्रह्मा ब्रह्ममयं वर्म भारती हारम् उत्तमम् ।
हरिः सुदर्शनं चक्रं तत्-पत्न्य् अव्याहतां श्रियम्

04.15.017

दश-चन्द्रम् असिं रुद्रः शत-चन्द्रं तथाम्बिका ।
सोमो ऽमृतमयान् अश्वांस् त्वष्टा रूपाश्रयं रथम्

04.15.018

अग्निर् आज-गवं चापं सूर्यो रश्मिमयान् इषून् ।
भूः पादुके योगमय्यौ द्यौः पुष्पावलिम् अन्वहम्

04.15.019

नाट्यं सुगीतं वादित्रम् अन्तर्धानं च खेचराः ।
ऋषयश् चाशिषः सत्याः समुद्रः शङ्खम् आत्मजम्

04.15.020

सिन्धवः पर्वता नद्यो रथ-वीथीर् महात्मनः ।
सूतो ऽथ मागधो वन्दी तं स्तोतुम् उपतस्थिरे

04.15.021

स्तावकांस् तान् अभिप्रेत्य पृथुर् वैन्यः प्रतापवान् ।
मेघ-निर्ह्रादया वाचा प्रहसन्न् इदम् अब्रवीत्

04.15.022

भ्प्_04.15.022।0 पृथुर् उवाच
भोः सूत हे मागध सौम्य वन्दिन् लोके ऽधुनास्पष्ट-गुणस्य मे स्यात् ।
किम् आश्रयो मे स्तव एष योज्यतां मा मय्य् अभूवन् वितथा गिरो वः

04.15.023

तस्मात् परोक्षे ऽस्मद्-उपश्रुतान्य् अलं करिष्यथ स्तोत्रम् अपीच्य-वाचः ।
सत्य् उत्तमश्लोक-गुणानुवादे जुगुप्सितं न स्तवयन्ति सभ्याः

04.15.024

महद्-गुणान् आत्मनि कर्तुम् ईशः कः स्तावकैः स्तावयते ऽसतो ऽपि ।
ते ऽस्याभविष्यन्न् इति विप्रलब्धो जनावहासं कुमतिर् न वेद

04.15.025

प्रभवो ह्य् आत्मनः स्तोत्रंजुगुप्सन्त्य् अपि विश्रुताः ।
ह्रीमन्तः परमोदाराः पौरुषं वा विगर्हितम्

04.15.026

वयं त्व् अविदिता लोके सूताद्यापि वरीमभिः ।
कर्मभिः कथम् आत्मानं गापयिष्याम बालवत्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc