भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 04.17

04.17.001

भ्प्_04.17.001।0 मैत्रेय उवाच
एवं स भगवान् वैन्यः ख्यापितो गुण-कर्मभिः ।
छन्दयाम् आस तान् कामैः प्रतिपूज्याभिनन्द्य च

04.17.002

ब्राह्मण-प्रमुखान् वर्णान् भृत्यामात्य-पुरोधसः ।
पौरान् जान-पदान् श्रेणीः प्रकृतीः समपूजयत्

04.17.003

भ्प्_04.17.003।0 विदुर उवाच
कस्माद् दधार गो-रूपं धरित्री बहु-रूपिणी ।
यां दुदोह पृथुस् तत्र को वत्सो दोहनं च किम्

04.17.004

प्रकृत्या विषमा देवी कृता तेन समा कथम् ।
तस्य मेध्यं हयं देवः कस्य हेतोर् अपाहरत्

04.17.005

सनत्-कुमाराद् भगवतो ब्रह्मन् ब्रह्म-विद्-उत्तमात् ।
लब्ध्वा ज्ञानं स-विज्ञानं राजर्षिः कां गतिं गतः

04.17.006

यच् चान्यद् अपि कृष्णस्य भवान् भगवतः प्रभोः ।
श्रवः सुश्रवसः पुण्यं पूर्व-देह-कथाश्रयम्

04.17.007

भक्ताय मे ऽनुरक्ताय तव चाधोक्षजस्य च ।
वक्तुम् अर्हसि यो ऽदुह्यद् वैन्य-रूपेण गाम् इमाम्

04.17.008

भ्प्_04.17.008।0 सूत उवाच
चोदितो विदुरेणैवं वासुदेव-कथां प्रति ।
प्रशस्य तं प्रीत-मना मैत्रेयः प्रत्यभाषत

04.17.009

भ्प्_04.17.009।0 मैत्रेय उवाच
यदाभिषिक्तः पृथुर् अङ्ग विप्रैर् आमन्त्रितो जनतायाश् च पालः ।
प्रजा निरन्ने क्षिति-पृष्ठ एत्य क्षुत्-क्षाम-देहाः पतिम् अभ्यवोचन्

04.17.010

वयं राजञ् जाठरेणाभितप्ता यथाग्निना कोटर-स्थेन वृक्षाः ।
त्वाम् अद्य याताः शरणं शरण्यं यः साधितो वृत्ति-करः पतिर् नः

04.17.011

तन् नो भवान् ईहतु रातवे ऽन्नं क्षुधार्दितानां नरदेव-देव ।
यावन् न नङ्क्ष्यामह उज्झितोर्जा वार्ता-पतिस् त्वं किल लोक-पालः

04.17.012

भ्प्_04.17.012।0 मैत्रेय उवाच
पृथुः प्रजानां करुणं निशम्य परिदेवितम् ।
दीर्घं दध्यौ कुरुश्रेष्ठ निमित्तं सो ऽन्वपद्यत

04.17.013

इति व्यवसितो बुद्ध्या प्रगृहीत-शरासनः ।
सन्दधे विशिखं भूमेः क्रुद्धस् त्रिपुर-हा यथा

04.17.014

प्रवेपमाना धरणी निशाम्योदायुधं च तम् ।
गौः सत्य् अपाद्रवद् भीता मृगीव मृगयु-द्रुता

04.17.015

ताम् अन्वधावत् तद् वैन्यः कुपितो ऽत्यरुणेक्षणः ।
शरं धनुषि सन्धाय यत्र यत्र पलायते

04.17.016

सा दिशो विदिशो देवी रोदसी चान्तरं तयोः ।
धावन्ती तत्र तत्रैनं ददर्शानूद्यतायुधम्

04.17.017

लोके नाविन्दत त्राणं वैन्यान् मृत्योर् इव प्रजाः ।
त्रस्ता तदा निववृते हृदयेन विदूयता

04.17.018

उवाच च महा-भागं धर्म-ज्ञापन्न-वत्सल ।
त्राहि माम् अपि भूतानां पालने ऽवस्थितो भवान्

04.17.019

स त्वं जिघांससे कस्माद् दीनाम् अकृत-किल्बिषाम् ।
अहनिष्यत् कथं योषां धर्म-ज्ञ इति यो मतः

04.17.020

प्रहरन्ति न वै स्त्रीषु कृतागःस्व् अपि जन्तवः ।
किम् उत त्वद्-विधा राजन् करुणा दीन-वत्सलाः

04.17.021

मां विपाट्याजरां नावं यत्र विश्वं प्रतिष्ठितम् ।
आत्मानं च प्रजाश् चेमाः कथम् अम्भसि धास्यसि

04.17.022

भ्प्_04.17.022।0 पृथुर् उवाच
वसुधे त्वां वधिष्यामि मच्-छासन-पराङ्-मुखीम् ।
भागं बर्हिषि या वृङ्क्ते न तनोति च नो वसु

04.17.023

यवसं जग्ध्य् अनुदिनं नैव दोग्ध्य् औधसं पयः ।
तस्याम् एवं हि दुष्टायां दण्डो नात्र न शस्यते

04.17.024

त्वं खल्व् ओषधि-बीजानि प्राक् सृष्टानि स्वयम्भुवा ।
न मुञ्चस्य् आत्म-रुद्धानि माम् अवज्ञाय मन्द-धीः

04.17.025

अमूषां क्षुत्-परीतानाम् आर्तानां परिदेवितम् ।
शमयिष्यामि मद्-बाणैर् भिन्नायास् तव मेदसा

04.17.026

पुमान् योषिद् उत क्लीब आत्म-सम्भावनो ऽधमः ।
भूतेषु निरनुक्रोशो नृपाणां तद्-वधो ऽवधः

04.17.027

त्वां स्तब्धां दुर्मदां नीत्वा माया-गां तिलशः शरैः ।
आत्म-योग-बलेनेमा धारयिष्याम्य् अहं प्रजाः

04.17.028

एवं मन्युमयीं मूर्तिं कृतान्तम् इव बिभ्रतम् ।
प्रणता प्राञ्जलिः प्राह मही सञ्जात-वेपथुः

04.17.029

भ्प्_04.17.029।0 धरोवाच
नमः परस्मै पुरुषाय मायया विन्यस्त-नाना-तनवे गुणात्मने ।
नमः स्वरूपानुभवेन निर्धुत- द्रव्य-क्रिया-कारक-विभ्रमोर्मये

04.17.030

येनाहम् आत्मायतनं विनिर्मिता धात्रा यतो ऽयं गुण-सर्ग-सङ्ग्रहः ।
स एव मां हन्तुम् उदायुधः स्वराड् उपस्थितो ऽन्यं शरणं कम् आश्रये

04.17.031

य एतद् आदाव् असृजच् चराचरं स्व-माययात्माश्रययावितर्क्यया ।
तयैव सो ऽयं किल गोप्तुम् उद्यतः कथं नु मां धर्म-परो जिघांसति

04.17.032

नूनं बतेशस्य समीहितं जनैस् तन्-मायया दुर्जययाकृतात्मभिः ।
न लक्ष्यते यस् त्व् अकरोद् अकारयद् यो ऽनेक एकः परतश् च ईश्वरः

04.17.033

सर्गादि यो ऽस्यानुरुणद्धि शक्तिभिर् द्रव्य-क्रिया-कारक-चेतनात्मभिः ।
तस्मै समुन्नद्ध-निरुद्ध-शक्तये नमः परस्मै पुरुषाय वेधसे

04.17.034

स वै भवान् आत्म-विनिर्मितं जगद् भूतेन्द्रियान्तः-करणात्मकं विभो ।
संस्थापयिष्यन्न् अज मां रसातलाद् अभ्युज्जहाराम्भस आदि-सूकरः

04.17.035

अपाम् उपस्थे मयि नाव्य् अवस्थिताः प्रजा भवान् अद्य रिरक्षिषुः किल ।
स वीर-मूर्तिः समभूद् धरा-धरो यो मां पयस्य् उग्र-शरो जिघांससि

04.17.036

नूनं जनैर् ईहितम् ईश्वराणाम् अस्मद्-विधैस् तद्-गुण-सर्ग-मायया ।
न ज्ञायते मोहित-चित्त-वर्त्मभिस् तेभ्यो नमो वीर-यशस्-करेभ्यः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc