भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 04.13

04.13.001

भ्प्_04.13.001।0 सूत उवाच
निशम्य कौषारविणोपवर्णितं ध्रुवस्य वैकुण्ठ-पदाधिरोहणम् ।
प्ररूढ-भावो भगवत्य् अधोक्षजे प्रष्टुं पुनस् तं विदुरः प्रचक्रमे

04.13.002

भ्प्_04.13.002।0 विदुर उवाच
के ते प्रचेतसो नाम कस्यापत्यानि सुव्रत ।
कस्यान्ववाये प्रख्याताः कुत्र वा सत्रम् आसत

04.13.003

मन्ये महा-भागवतं नारदं देव-दर्शनम् ।
येन प्रोक्तः क्रिया-योगः परिचर्या-विधिर् हरेः

04.13.004

स्व-धर्म-शीलैः पुरुषैर् भगवान् यज्ञ-पूरुषः ।
इज्यमानो भक्तिमता नारदेनेरितः किल

04.13.005

यास् ता देवर्षिणा तत्र वर्णिता भगवत्-कथाः ।
मह्यं शुश्रूषवे ब्रह्मन् कार्त्स्न्येनाचष्टुम् अर्हसि

04.13.006

भ्प्_04.13.006।0 मैत्रेय उवाच
ध्रुवस्य चोत्कलः पुत्रः पितरि प्रस्थिते वनम् ।
सार्वभौम-श्रियं नैच्छद् अधिराजासनं पितुः

04.13.007

स जन्मनोपशान्तात्मा निःसङ्गः सम-दर्शनः ।
ददर्श लोके विततम् आत्मानं लोकम् आत्मनि

04.13.008

आत्मानं ब्रह्म निर्वाणं प्रत्यस्तमित-विग्रहम् ।
अवबोध-रसैकात्म्यम् आनन्दम् अनुसन्ततम्

04.13.009

अव्यवच्छिन्न-योगाग्नि- दग्ध-कर्म-मलाशयः ।
स्वरूपम् अवरुन्धानो नात्मनो ऽन्यं तदैक्षत

04.13.010

जडान्ध-बधिरोन्मत्त- मूकाकृतिर् अतन्-मतिः ।
लक्षितः पथि बालानां प्रशान्तार्चिर् इवानलः

04.13.011

मत्वा तं जडम् उन्मत्तं कुल-वृद्धाः समन्त्रिणः ।
वत्सरं भूपतिं चक्रुर् यवीयांसं भ्रमेः सुतम्

04.13.012

स्वर्वीथिर् वत्सरस्येष्टा भार्यासूत षड्-आत्मजान् ।
पुष्पार्णं तिग्मकेतुं च इषम् ऊर्जं वसुं जयम्

04.13.013

पुष्पार्णस्य प्रभा भार्या दोषा च द्वे बभूवतुः ।
प्रातर् मध्यन्दिनं सायम् इति ह्य् आसन् प्रभा-सुताः

04.13.014

प्रदोषो निशिथो व्युष्ट इति दोषा-सुतास् त्रयः ।
व्युष्टः सुतं पुष्करिण्यां सर्वतेजसम् आदधे

04.13.015

स चक्षुः सुतम् आकूत्यां पत्न्यां मनुम् अवाप ह ।
मनोर् असूत महिषी विरजान् नड्वला सुतान्

04.13.016

पुरुं कुत्सं त्रितं द्युम्नं सत्यवन्तम् ऋतं व्रतम् ।
अग्निष्टोमम् अतीरात्रं प्रद्युम्नं शिबिम् उल्मुकम्

04.13.017

उल्मुको ऽजनयत् पुत्रान् पुष्करिण्यां षड् उत्तमान् ।
अङ्गं सुमनसं ख्यातिं क्रतुम् अङ्गिरसं गयम्

04.13.018

सुनीथाङ्गस्य या पत्नी सुषुवे वेनम् उल्बणम् ।
यद्-दौःशील्यात् स राजर्षिर् निर्विण्णो निरगात् पुरात्

04.13.019

यम् अङ्ग शेपुः कुपिता वाग्-वज्रा मुनयः किल ।
गतासोस् तस्य भूयस् ते ममन्थुर् दक्षिणं करम्

04.13.020

अराजके तदा लोके दस्युभिः पीडिताः प्रजाः ।
जातो नारायणांशेन पृथुर् आद्यः क्षितीश्वरः

04.13.021

भ्प्_04.13.021।0 विदुर उवाच
तस्य शील-निधेः साधोर् ब्रह्मण्यस्य महात्मनः ।
राज्ञः कथम् अभूद् दुष्टा प्रजा यद् विमना ययौ

04.13.022

किं वांहो वेन उद्दिश्य ब्रह्म-दण्डम् अयूयुजन् ।
दण्ड-व्रत-धरे राज्ञि मुनयो धर्म-कोविदाः

04.13.023

नावध्येयः प्रजा-पालः प्रजाभिर् अघवान् अपि ।
यद् असौ लोक-पालानां बिभर्त्य् ओजः स्व-तेजसा

04.13.024

एतद् आख्याहि मे ब्रह्मन् सुनीथात्मज-चेष्टितम् ।
श्रद्दधानाय भक्ताय त्वं परावर-वित्तमः

04.13.025

भ्प्_04.13.025।0 मैत्रेय उवाच
अङ्गो ऽश्वमेधं राजर्षिर् आजहार महा-क्रतुम् ।
नाजग्मुर् देवतास् तस्मिन्न् आहूता ब्रह्म-वादिभिः

04.13.026

तम् ऊचुर् विस्मितास् तत्र यजमानम् अथर्त्विजः ।
हवींषि हूयमानानि न ते गृह्णन्ति देवताः

04.13.027

राजन् हवींष्य् अदुष्टानि श्रद्धयासादितानि ते ।
छन्दांस्य् अयात-यामानि योजितानि धृत-व्रतैः

04.13.028

न विदामेह देवानां हेलनं वयम् अण्व् अपि ।
यन् न गृह्णन्ति भागान् स्वान् ये देवाः कर्म-साक्षिणः

04.13.029

भ्प्_04.13.029।0 मैत्रेय उवाच
अङ्गो द्विज-वचः श्रुत्वा यजमानः सुदुर्मनाः ।
तत् प्रष्टुं व्यसृजद् वाचं सदस्यांस् तद्-अनुज्ञया

04.13.030

नागच्छन्त्य् आहुता देवा न गृह्णन्ति ग्रहान् इह ।
सदसस्-पतयो ब्रूत किम् अवद्यं मया कृतम्

04.13.031

भ्प्_04.13.031।0 सदसस्-पतय ऊचुः
नर-देवेह भवतो नाघं तावन् मनाक् स्थितम् ।
अस्त्य् एकं प्राक्तनम् अघं यद् इहेदृक् त्वम् अप्रजः

04.13.032

तथा साधय भद्रं ते आत्मानं सुप्रजं नृप ।
इष्टस् ते पुत्र-कामस्य पुत्रं दास्यति यज्ञ-भुक्

04.13.033

तथा स्व-भागधेयानि ग्रहीष्यन्ति दिवौकसः ।
यद् यज्ञ-पुरुषः साक्षाद् अपत्याय हरिर् वृतः

04.13.034

तांस् तान् कामान् हरिर् दद्याद् यान् यान् कामयते जनः ।
आराधितो यथैवैष तथा पुंसां फलोदयः

04.13.035

इति व्यवसिता विप्रास् तस्य राज्ञः प्रजातये ।
पुरोडाशं निरवपन् शिपि-विष्टाय विष्णवे

04.13.036

तस्मात् पुरुष उत्तस्थौ हेम-माल्य् अमलाम्बरः ।
हिरण्मयेन पात्रेण सिद्धम् आदाय पायसम्

04.13.037

स विप्रानुमतो राजा गृहीत्वाञ्जलिनौदनम् ।
अवघ्राय मुदा युक्तः प्रादात् पत्न्या उदार-धीः

04.13.038

सा तत् पुं-सवनं राज्ञी प्राश्य वै पत्युर् आदधे ।
गर्भं काल उपावृत्ते कुमारं सुषुवे ऽप्रजा

04.13.039

स बाल एव पुरुषो मातामहम् अनुव्रतः ।
अधर्मांशोद्भवं मृत्युं तेनाभवद् अधार्मिकः

04.13.040

स शरासनम् उद्यम्य मृगयुर् वन-गोचरः ।
हन्त्य् असाधुर् मृगान् दीनान् वेनो ऽसाव् इत्य् अरौज् जनः

04.13.041

आक्रीडे क्रीडतो बालान् वयस्यान् अतिदारुणः ।
प्रसह्य निरनुक्रोशः पशु-मारम् अमारयत्

04.13.042

तं विचक्ष्य खलं पुत्रं शासनैर् विविधैर् नृपः ।
यदा न शासितुं कल्पो भृशम् आसीत् सुदुर्मनाः

04.13.043

प्रायेणाभ्यर्चितो देवो ये ऽप्रजा गृह-मेधिनः ।
कद्-अपत्य-भृतं दुःखं ये न विन्दन्ति दुर्भरम्

04.13.044

यतः पापीयसी कीर्तिर् अधर्मश् च महान् नृणाम् ।
यतो विरोधः सर्वेषां यत आधिर् अनन्तकः

04.13.045

कस् तं प्रजापदेशं वै मोह-बन्धनम् आत्मनः ।
पण्डितो बहु मन्येत यद्-अर्थाः क्लेशदा गृहाः

04.13.046

कद्-अपत्यं वरं मन्ये सद्-अपत्याच् छुचां पदात् ।
निर्विद्येत गृहान् मर्त्यो यत्-क्लेश-निवहा गृहाः

04.13.047

एवं स निर्विण्ण-मना नृपो गृहान् निशीथ उत्थाय महोदयोदयात् ।
अलब्ध-निद्रो ऽनुपलक्षितो नृभिर् हित्वा गतो वेन-सुवं प्रसुप्ताम्

04.13.048

विज्ञाय निर्विद्य गतं पतिं प्रजाः पुरोहितामात्य-सुहृद्-गणादयः ।
विचिक्युर् उर्व्याम् अतिशोक-कातरा यथा निगूढं पुरुषं कुयोगिनः

04.13.049

अलक्षयन्तः पदवीं प्रजापतेर् हतोद्यमाः प्रत्युपसृत्य ते पुरीम् ।
ऋषीन् समेतान् अभिवन्द्य साश्रवो न्यवेदयन् पौरव भर्तृ-विप्लवम्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc