भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 04.14

04.14.001

भ्प्_04.14.001।0 मैत्रेय उवाच
भृग्व्-आदयस् ते मुनयो लोकानां क्षेम-दर्शिनः ।
गोप्तर्य् असति वै नॄणां पश्यन्तः पशु-साम्यताम्

04.14.002

वीर-मातरम् आहूय सुनीथां ब्रह्म-वादिनः ।
प्रकृत्य्-असम्मतं वेनम् अभ्यषिञ्चन् पतिं भुवः

04.14.003

श्रुत्वा नृपासन-गतं वेनम् अत्युग्र-शासनम् ।
निलिल्युर् दस्यवः सद्यः सर्प-त्रस्ता इवाखवः

04.14.004

स आरूढ-नृप-स्थान उन्नद्धो ऽष्ट-विभूतिभिः ।
अवमेने महा-भागान् स्तब्धः सम्भावितः स्वतः

04.14.005

एवं मदान्ध उत्सिक्तो निरङ्कुश इव द्विपः ।
पर्यटन् रथम् आस्थाय कम्पयन्न् इव रोदसी

04.14.006

न यष्टव्यं न दातव्यं न होतव्यं द्विजाः क्वचित् ।
इति न्यवारयद् धर्मं भेरी-घोषेण सर्वशः

04.14.007

वेनस्यावेक्ष्य मुनयो दुर्वृत्तस्य विचेष्टितम् ।
विमृश्य लोक-व्यसनं कृपयोचुः स्म सत्रिणः

04.14.008

अहो उभयतः प्राप्तं लोकस्य व्यसनं महत् ।
दारुण्य् उभयतो दीप्ते इव तस्कर-पालयोः

04.14.009

अराजक-भयाद् एष कृतो राजातद्-अर्हणः ।
ततो ऽप्य् आसीद् भयं त्व् अद्य कथं स्यात् स्वस्ति देहिनाम्

04.14.010

अहेर् इव पयः-पोषः पोषकस्याप्य् अनर्थ-भृत् ।
वेनः प्रकृत्यैव खलः सुनीथा-गर्भ-सम्भवः

04.14.011

निरूपितः प्रजा-पालः स जिघांसति वै प्रजाः ।
तथापि सान्त्वयेमामुं नास्मांस् तत्-पातकं स्पृशेत्

04.14.012

तद्-विद्वद्भिर् असद्-वृत्तो वेनो ऽस्माभिः कृतो नृपः ।
सान्त्वितो यदि नो वाचं न ग्रहीष्यत्य् अधर्म-कृत्

04.14.013

लोक-धिक्कार-सन्दग्धं दहिष्यामः स्व-तेजसा ।
एवम् अध्यवसायैनं मुनयो गूढ-मन्यवः ।
उपव्रज्याब्रुवन् वेनं सान्त्वयित्वा च सामभिः

04.14.014

भ्प्_04.14.014।0 मुनय ऊचुः
नृप-वर्य निबोधैतद् यत् ते विज्ञापयाम भोः ।
आयुः-श्री-बल-कीर्तीनां तव तात विवर्धनम्

04.14.015

धर्म आचरितः पुंसां वाङ्-मनः-काय-बुद्धिभिः ।
लोकान् विशोकान् वितरत्य् अथानन्त्यम् असङ्गिनाम्

04.14.016

स ते मा विनशेद् वीर प्रजानां क्षेम-लक्षणः ।
यस्मिन् विनष्टे नृपतिर् ऐश्वर्याद् अवरोहति

04.14.017

राजन्न् असाध्व्-अमात्येभ्यश् चोरादिभ्यः प्रजा नृपः ।
रक्षन् यथा बलिं गृह्णन्न् इह प्रेत्य च मोदते

04.14.018

यस्य राष्ट्रे पुरे चैव भगवान् यज्ञ-पूरुषः ।
इज्यते स्वेन धर्मेण जनैर् वर्णाश्रमान्वितैः

04.14.019

तस्य राज्ञो महा-भाग भगवान् भूत-भावनः ।
परितुष्यति विश्वात्मा तिष्ठतो निज-शासने

04.14.020

तस्मिंस् तुष्टे किम् अप्राप्यंजगताम् ईश्वरेश्वरे ।
लोकाः सपाला ह्य् एतस्मै हरन्ति बलिम् आदृताः

04.14.021

तं सर्व-लोकामर-यज्ञ-सङ्ग्रहं त्रयीमयं द्रव्यमयं तपोमयम् ।
यज्ञैर् विचित्रैर् यजतो भवाय ते राजन् स्व-देशान् अनुरोद्धुम् अर्हसि

04.14.022

यज्ञेन युष्मद्-विषये द्विजातिभिर् वितायमानेन सुराः कला हरेः ।
स्विष्टाः सुतुष्टाः प्रदिशन्ति वाञ्छितं तद्-धेलनं नार्हसि वीर चेष्टितुम्

04.14.023

भ्प्_04.14.023।0 वेन उवाच
बालिशा बत यूयं वा अधर्मे धर्म-मानिनः ।
ये वृत्तिदं पतिं हित्वा जारं पतिम् उपासते

04.14.024

अवजानन्त्य् अमी मूढा नृप-रूपिणम् ईश्वरम् ।
नानुविन्दन्ति ते भद्रम् इह लोके परत्र च

04.14.025

को यज्ञ-पुरुषो नाम यत्र वो भक्तिर् ईदृशी ।
भर्तृ-स्नेह-विदूराणां यथा जारे कुयोषिताम्

04.14.026

विष्णुर् विरिञ्चो गिरिश इन्द्रो वायुर् यमो रविः ।
पर्जन्यो धनदः सोमः क्षितिर् अग्निर् अपाम्पतिः

04.14.027

एते चान्ये च विबुधाः प्रभवो वर-शापयोः ।
देहे भवन्ति नृपतेः सर्व-देवमयो नृपः

04.14.028

तस्मान् मां कर्मभिर् विप्रा यजध्वं गत-मत्सराः ।
बलिं च मह्यं हरत मत्तो ऽन्यः को ऽग्र-भुक् पुमान्

04.14.029

भ्प्_04.14.029।0 मैत्रेय उवाच
इत्थं विपर्यय-मतिः पापीयान् उत्पथं गतः ।
अनुनीयमानस् तद्-याच्ञां न चक्रे भ्रष्ट-मङ्गलः

04.14.030

इति ते ऽसत्-कृतास् तेन द्विजाः पण्डित-मानिना ।
भग्नायां भव्य-याच्ञायां तस्मै विदुर चुक्रुधुः

04.14.031

हन्यतां हन्यताम् एष पापः प्रकृति-दारुणः ।
जीवन् जगद् असाव् आशु कुरुते भस्मसाद् ध्रुवम्

04.14.032

नायम् अर्हत्य् असद्-वृत्तो नरदेव-वरासनम् ।
यो ऽधियज्ञ-पतिं विष्णुं विनिन्दत्य् अनपत्रपः

04.14.033

को वैनं परिचक्षीत वेनम् एकम् ऋते ऽशुभम् ।
प्राप्त ईदृशम् ऐश्वर्यं यद्-अनुग्रह-भाजनः

04.14.034

इत्थं व्यवसिता हन्तुम् ऋषयो रूढ-मन्यवः ।
निजघ्नुर् हुङ्कृतैर् वेनं हतम् अच्युत-निन्दया

04.14.035

ऋषिभिः स्वाश्रम-पदं गते पुत्र-कलेवरम् ।
सुनीथा पालयाम् आस विद्या-योगेन शोचती

04.14.036

एकदा मुनयस् ते तु सरस्वत्-सलिलाप्लुताः ।
हुत्वाग्नीन् सत्-कथाश् चक्रुर् उपविष्टाः सरित्-तटे

04.14.037

वीक्ष्योत्थितांस् तदोत्पातान् आहुर् लोक-भयङ्करान् ।
अप्य् अभद्रम् अनाथाया दस्युभ्यो न भवेद् भुवः

04.14.038

एवं मृशन्त ऋषयो धावतां सर्वतो-दिशम् ।
पांसुः समुत्थितो भूरिश् चोराणाम् अभिलुम्पताम्

04.14.039

तद् उपद्रवम् आज्ञाय लोकस्य वसु लुम्पताम् ।
भर्तर्य् उपरते तस्मिन्न् अन्योन्यं च जिघांसताम्

04.14.040

चोर-प्रायं जन-पदं हीन-सत्त्वम् अराजकम् ।
लोकान् नावारयञ् छक्ता अपि तद्-दोष-दर्शिनः

04.14.041

ब्राह्मणः सम-दृक् शान्तो दीनानां समुपेक्षकः ।
स्रवते ब्रह्म तस्यापि भिन्न-भाण्डात् पयो यथा

04.14.042

नाङ्गस्य वंशो राजर्षेर् एष संस्थातुम् अर्हति ।
अमोघ-वीर्या हि नृपा वंशे ऽस्मिन् केशवाश्रयाः

04.14.043

विनिश्चित्यैवम् ऋषयो विपन्नस्य महीपतेः ।
ममन्थुर् ऊरुं तरसा तत्रासीद् बाहुको नरः

04.14.044

काक-कृष्णो ऽतिह्रस्वाङ्गो ह्रस्व-बाहुर् महा-हनुः ।
ह्रस्व-पान् निम्न-नासाग्रो रक्ताक्षस् ताम्र-मूर्धजः

04.14.045

तं तु ते ऽवनतं दीनं किं करोमीति वादिनम् ।
निषीदेत्य् अब्रुवंस् तात स निषादस् ततो ऽभवत्

04.14.046

तस्य वंश्यास् तु नैषादा गिरि-कानन-गोचराः ।
येनाहरज् जायमानो वेन-कल्मषम् उल्बणम्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc