भागवत पुराण · अध्याय 04.12
भ्प्_04.12.001।0 मैत्रेय उवाच
ध्रुवं निवृत्तं प्रतिबुद्ध्य वैशसाद् अपेत-मन्युं भगवान् धनेश्वरः ।
तत्रागतश् चारण-यक्ष-किन्नरैः संस्तूयमानो न्यवदत् कृताञ्जलिम्
भ्प्_04.12.002।0 धनद उवाच
भो भोः क्षत्रिय-दायाद परितुष्टो ऽस्मि ते ऽनघ ।
यत् त्वं पितामहादेशाद् वैरं दुस्त्यजम् अत्यजः
न भवान् अवधीद् यक्षान् न यक्षा भ्रातरं तव ।
काल एव हि भूतानां प्रभुर् अप्यय-भावयोः
अहं त्वम् इत्य् अपार्था धीर् अज्ञानात् पुरुषस्य हि ।
स्वाप्नीवाभात्य् अतद्-ध्यानाद् यया बन्ध-विपर्ययौ
तद् गच्छ ध्रुव भद्रं ते भगवन्तम् अधोक्षजम् ।
सर्व-भूतात्म-भावेन सर्व-भूतात्म-विग्रहम्
भजस्व भजनीयाङ्घ्रिम् अभवाय भव-च्छिदम् ।
युक्तं विरहितं शक्त्या गुण-मय्यात्म-मायया
वृणीहि कामं नृप यन् मनो-गतं मत्तस् त्वम् औत्तानपदे ऽविशङ्कितः ।
वरं वरार्हो ऽम्बुज-नाभ-पादयोर् अनन्तरं त्वां वयम् अङ्ग शुश्रुम
भ्प्_04.12.008।0 मैत्रेय उवाच
स राज-राजेन वराय चोदितो ध्रुवो महा-भागवतो महा-मतिः ।
हरौ स वव्रे ऽचलितां स्मृतिं यया तरत्य् अयत्नेन दुरत्ययं तमः
तस्य प्रीतेन मनसा तां दत्त्वैडविडस् ततः ।
पश्यतो ऽन्तर्दधे सो ऽपि स्व-पुरं प्रत्यपद्यत
अथायजत यज्ञेशं क्रतुभिर् भूरि-दक्षिणैः ।
द्रव्य-क्रिया-देवतानां कर्म कर्म-फल-प्रदम्
सर्वात्मन्य् अच्युते ऽसर्वे तीव्रौघां भक्तिम् उद्वहन् ।
ददर्शात्मनि भूतेषु तम् एवावस्थितं विभुम्
तम् एवं शील-सम्पन्नं ब्रह्मण्यं दीन-वत्सलम् ।
गोप्तारं धर्म-सेतूनां मेनिरे पितरं प्रजाः
षट्-त्रिंशद्-वर्ष-साहस्रं शशास क्षिति-मण्डलम् ।
भोगैः पुण्य-क्षयं कुर्वन्न् अभोगैर् अशुभ-क्षयम्
एवं बहु-सवं कालं महात्माविचलेन्द्रियः ।
त्रि-वर्गौपयिकं नीत्वा पुत्रायादान् नृपासनम्
मन्यमान इदं विश्वं माया-रचितम् आत्मनि ।
अविद्या-रचित-स्वप्न-गन्धर्व-नगरोपमम्
आत्म-स्त्र्य्-अपत्य-सुहृदो बलम् ऋद्ध-कोशम् $ अन्तः-पुरं परिविहार-भुवश् च रम्याः &अम्प्;
भू-मण्डलं जलधि-मेखलम् आकलय्य % कालोपसृष्टम् इति स प्रययौ विशालाम् ॥ भ्प्_04.12.016* ॥
तस्यां विशुद्ध-करणः शिव-वार् विगाह्य $ बद्ध्वासनं जित-मरुन् मनसाहृताक्षः &
तस्यां विशुद्ध-करणः शिव-वार् विगाह्य $ बद्ध्वासनं जित-मरुन् मनसाहृताक्षः &
स्थूले दधार भगवत्-प्रतिरूप एतद् % ध्यायंस् तद् अव्यवहितो व्यसृजत् समाधौ ॥ भ्प्_04.12.017* ॥
भक्तिं हरौ भगवति प्रवहन्न् अजस्रम् $ आनन्द-बाष्प-कलया मुहुर् अर्द्यमानः &
भक्तिं हरौ भगवति प्रवहन्न् अजस्रम् $ आनन्द-बाष्प-कलया मुहुर् अर्द्यमानः &
विक्लिद्यमान-हृदयः पुलकाचिताङ्गो % नात्मानम् अस्मरद् असाव् इति मुक्त-लिङ्गः ॥ भ्प्_04.12.018* ॥
स ददर्श विमानाग्र्यं नभसो ऽवतरद् ध्रुवः ।
विभ्राजयद् दश दिशो राकापतिम् इवोदितम्
तत्रानु देव-प्रवरौ चतुर्-भुजौ $ श्यामौ किशोराव् अरुणाम्बुजेक्षणौ &अम्प्;
स्थिताव् अवष्टभ्य गदां सुवाससौ % किरीट-हाराङ्गद-चारु-कुण्डलौ ॥ भ्प्_04.12.020* ॥
विज्ञाय ताव् उत्तमगाय-किङ्कराव् $ अभ्युत्थितः साध्वस-विस्मृत-क्रमः &
विज्ञाय ताव् उत्तमगाय-किङ्कराव् $ अभ्युत्थितः साध्वस-विस्मृत-क्रमः &
ननाम नामानि गृणन् मधुद्विषः % पार्षत्-प्रधानाव् इति संहताञ्जलिः ॥ भ्प्_04.12.021* ॥
तं कृष्ण-पादाभिनिविष्ट-चेतसं $ बद्धाञ्जलिं प्रश्रय-नम्र-कन्धरम् &
तं कृष्ण-पादाभिनिविष्ट-चेतसं $ बद्धाञ्जलिं प्रश्रय-नम्र-कन्धरम् &
सुनन्द-नन्दाव् उपसृत्य सस्मितं % प्रत्यूचतुः पुष्करनाभ-सम्मतौ ॥ भ्प्_04.12.022*
0 सुनन्द-नन्दाव् ऊचतुः
भो भो राजन् सुभद्रं ते वाचं नो ऽवहितः शृणु ।
यः पञ्च-वर्षस् तपसा भवान् देवम् अतीतृपत्
तस्याखिल-जगद्-धातुर् आवां देवस्य शार्ङ्गिणः ।
पार्षदाव् इह सम्प्राप्तौ नेतुं त्वां भगवत्-पदम्
सुदुर्जयं विष्णु-पदं जितं त्वया यत् सूरयो ऽप्राप्य विचक्षते परम् ।
आतिष्ठ तच् चन्द्र-दिवाकरादयो ग्रहर्क्ष-ताराः परियन्ति दक्षिणम्
अनास्थितं ते पितृभिर् अन्यैर् अप्य् अङ्ग कर्हिचित् ।
आतिष्ठ जगतां वन्द्यं तद् विष्णोः परमं पदम्
एतद् विमान-प्रवरम् उत्तमश्लोक-मौलिना ।
उपस्थापितम् आयुष्मन्न् अधिरोढुं त्वम् अर्हसि
भ्प्_04.12.028।0 मैत्रेय उवाच
निशम्य वैकुण्ठ-नियोज्य-मुख्ययोर् मधु-च्युतं वाचम् उरुक्रम-प्रियः ।
कृताभिषेकः कृत-नित्य-मङ्गलो मुनीन् प्रणम्याशिषम् अभ्यवादयत्
परीत्याभ्यर्च्य धिष्ण्याग्र्यं पार्षदाव् अभिवन्द्य च ।
इयेष तद् अधिष्ठातुं बिभ्रद् रूपं हिरण्मयम्
तदोत्तानपदः पुत्रो ददर्शान्तकम् आगतम् ।
मृत्योर् मूर्ध्नि पदं दत्त्वा आरुरोहाद्भुतं गृहम्
तदा दुन्दुभयो नेदुर् मृदङ्ग-पणवादयः ।
गन्धर्व-मुख्याः प्रजगुः पेतुः कुसुम-वृष्टयः
स च स्वर्लोकम् आरोक्ष्यन् सुनीतिं जननीं ध्रुवः ।
अन्वस्मरद् अगं हित्वा दीनां यास्ये त्रि-विष्टपम्
इति व्यवसितं तस्य व्यवसाय सुरोत्तमौ ।
दर्शयाम् आसतुर् देवीं पुरो यानेन गच्छतीम्
तत्र तत्र प्रशंसद्भिः पथि वैमानिकैः सुरैः ।
अवकीर्यमाणो ददृशे कुसुमैः क्रमशो ग्रहान्
त्रि-लोकीं देव-यानेन सो ऽतिव्रज्य मुनीन् अपि ।
परस्ताद् यद् ध्रुव-गतिर् विष्णोः पदम् अथाभ्यगात्
यद् भ्राजमानं स्व-रुचैव सर्वतो लोकास् त्रयो ह्य् अनु विभ्राजन्त एते ।
यन् नाव्रजन् जन्तुषु ये ऽननुग्रहा व्रजन्ति भद्राणि चरन्ति ये ऽनिशम्
शान्ताः सम-दृशः शुद्धाः सर्व-भूतानुरञ्जनाः ।
यान्त्य् अञ्जसाच्युत-पदम् अच्युत-प्रिय-बान्धवाः
इत्य् उत्तानपदः पुत्रो ध्रुवः कृष्ण-परायणः ।
अभूत् त्रयाणां लोकानां चूडा-मणिर् इवामलः
गम्भीर-वेगो ऽनिमिषं ज्योतिषां चक्रम् आहितम् ।
यस्मिन् भ्रमति कौरव्य मेढ्याम् इव गवां गणः
महिमानं विलोक्यास्य नारदो भगवान् ऋषिः ।
आतोद्यं वितुदञ् श्लोकान् सत्रे ऽगायत् प्रचेतसाम्
भ्प्_04.12.041।0 नारद उवाच
नूनं सुनीतेः पति-देवतायास् तपः-प्रभावस्य सुतस्य तां गतिम् ।
दृष्ट्वाभ्युपायान् अपि वेद-वादिनो नैवाधिगन्तुं प्रभवन्ति किं नृपाः
यः पञ्च-वर्षो गुरु-दार-वाक्-शरैर् भिन्नेन यातो हृदयेन दूयता ।
वनं मद्-आदेश-करो ऽजितं प्रभुं जिगाय तद्-भक्त-गुणैः पराजितम्
यः क्षत्र-बन्धुर् भुवि तस्याधिरूढम् अन्व् आरुरुक्षेद् अपि वर्ष-पूगैः ।
षट्-पञ्च-वर्षो यद् अहोभिर् अल्पैः प्रसाद्य वैकुण्ठम् अवाप तत्-पदम्
भ्प्_04.12.044।0 मैत्रेय उवाच
एतत् ते ऽभिहितं सर्वं यत् पृष्टो ऽहम् इह त्वया ।
ध्रुवस्योद्दाम-यशसश् चरितं सम्मतं सताम्
धन्यं यशस्यम् आयुष्यं पुण्यं स्वस्त्य्-अयनं महत् ।
स्वर्ग्यं ध्रौव्यं सौमनस्यं प्रशस्यम् अघ-मर्षणम्
श्रुत्वैतच् छ्रद्धयाभीक्ष्णम् अच्युत-प्रिय-चेष्टितम् ।
भवेद् भक्तिर् भगवति यया स्यात् क्लेश-सङ्क्षयः
महत्त्वम् इच्छतां तीर्थं श्रोतुः शीलादयो गुणाः ।
यत्र तेजस् तद् इच्छूनां मानो यत्र मनस्विनाम्
प्रयतः कीर्तयेत् प्रातः समवाये द्वि-जन्मनाम् ।
सायं च पुण्य-श्लोकस्य ध्रुवस्य चरितं महत्
पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणे ऽथवा ।
दिन-क्षये व्यतीपाते सङ्क्रमे ऽर्कदिने ऽपि वा
श्रावयेच् छ्रद्दधानानां तीर्थ-पाद-पदाश्रयः ।
नेच्छंस् तत्रात्मनात्मानं सन्तुष्ट इति सिध्यति
ज्ञानम् अज्ञात-तत्त्वाय यो दद्यात् सत्-पथे ऽमृतम् ।
कृपालोर् दीन-नाथस्य देवास् तस्यानुगृह्णते
इदं मया ते ऽभिहितं कुरूद्वह ध्रुवस्य विख्यात-विशुद्ध-कर्मणः ।
हित्वार्भकः क्रीडनकानि मातुर् गृहं च विष्णुं शरणं यो जगाम
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0