भागवत पुराण · अध्याय 04.09
भ्प्_04.09.001।0 मैत्रेय उवाच
त एवम् उत्सन्न-भया उरुक्रमे कृतावनामाः प्रययुस् त्रि-विष्टपम् ।
सहस्रशीर्षापि ततो गरुत्मता मधोर् वनं भृत्य-दिदृक्षया गतः
स वै धिया योग-विपाक-तीव्रया हृत्-पद्म-कोशे स्फुरितं तडित्-प्रभम् ।
तिरोहितं सहसैवोपलक्ष्य बहिः-स्थितं तद्-अवस्थं ददर्श
तद्-दर्शनेनागत-साध्वसः क्षिताव् अवन्दताङ्गं विनमय्य दण्डवत् ।
दृग्भ्यां प्रपश्यन् प्रपिबन्न् इवार्भकश् चुम्बन्न् इवास्येन भुजैर् इवाश्लिषन्
स तं विवक्षन्तम् अतद्-विदं हरिर् ज्ञात्वास्य सर्वस्य च हृद्य् अवस्थितः ।
कृताञ्जलिं ब्रह्ममयेन कम्बुना पस्पर्श बालं कृपया कपोले
स वै तदैव प्रतिपादितां गिरं दैवीं परिज्ञात-परात्म-निर्णयः ।
तं भक्ति-भावो ऽभ्यगृणाद् असत्वरं परिश्रुतोरु-श्रवसं ध्रुव-क्षितिः
भ्प्_04.09.006।0 ध्रुव उवाच
यो ऽन्तः प्रविश्य मम वाचम् इमां प्रसुप्तां $ सञ्जीवयत्य् अखिल-शक्ति-धरः स्व-धाम्ना &
यो ऽन्तः प्रविश्य मम वाचम् इमां प्रसुप्तां $ सञ्जीवयत्य् अखिल-शक्ति-धरः स्व-धाम्ना &
अन्यांश् च हस्त-चरण-श्रवण-त्वग्-आदीन् % प्राणान् नमो भगवते पुरुषाय तुभ्यम् ॥ भ्प्_04.09.006* ॥
एकस् त्वम् एव भगवन्न् इदम् आत्म-शक्त्या $ मायाख्ययोरु-गुणया महद्-आद्य्-अशेषम् &
एकस् त्वम् एव भगवन्न् इदम् आत्म-शक्त्या $ मायाख्ययोरु-गुणया महद्-आद्य्-अशेषम् &
सृष्ट्वानुविश्य पुरुषस् तद्-असद्-गुणेषु % नानेव दारुषु विभावसुवद् विभासि ॥ भ्प्_04.09.007* ॥
त्वद्-दत्तया वयुनयेदम् अचष्ट विश्वं $ सुप्त-प्रबुद्ध इव नाथ भवत्-प्रपन्नः &
त्वद्-दत्तया वयुनयेदम् अचष्ट विश्वं $ सुप्त-प्रबुद्ध इव नाथ भवत्-प्रपन्नः &
तस्यापवर्ग्य-शरणं तव पाद-मूलं % विस्मर्यते कृत-विदा कथम् आर्त-बन्धो ॥ भ्प्_04.09.008* ॥
नूनं विमुष्ट-मतयस् तव मायया ते $ ये त्वां भवाप्यय-विमोक्षणम् अन्य-हेतोः &
नूनं विमुष्ट-मतयस् तव मायया ते $ ये त्वां भवाप्यय-विमोक्षणम् अन्य-हेतोः &
अर्चन्ति कल्पक-तरुं कुणपोपभोग्यम् % इच्छन्ति यत् स्पर्शजं निरये ऽपि न्-णाम् ॥ भ्प्_04.09.009* ॥
या निर्वृतिस् तनु-भृतां तव पाद-पद्म- $ ध्यानाद् भवज्-जन-कथा-श्रवणेन वा स्यात् &
या निर्वृतिस् तनु-भृतां तव पाद-पद्म- $ ध्यानाद् भवज्-जन-कथा-श्रवणेन वा स्यात् &
सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत् % किं त्व् अन्तकासि-लुलितात् पततां विमानात् ॥ भ्प्_04.09.010* ॥
भक्तिं मुहुः प्रवहतां त्वयि मे प्रसङ्गो $ भूयाद् अनन्त महताम् अमलाशयानाम् &
भक्तिं मुहुः प्रवहतां त्वयि मे प्रसङ्गो $ भूयाद् अनन्त महताम् अमलाशयानाम् &
येनाञ्जसोल्बणम् उरु-व्यसनं भवाब्धिं % नेष्ये भवद्-गुण-कथामृत-पान-मत्तः ॥ भ्प्_04.09.011* ॥
ते न स्मरन्त्य् अतितरां प्रियम् ईश मर्त्यं $ ये चान्व् अदः सुत-सुहृद्-गृह-वित्त-दाराः &
ते न स्मरन्त्य् अतितरां प्रियम् ईश मर्त्यं $ ये चान्व् अदः सुत-सुहृद्-गृह-वित्त-दाराः &
ये त्व् अब्ज-नाभ भवदीय-पदारविन्द- % सौगन्ध्य-लुब्ध-हृदयेषु कृत-प्रसङ्गाः ॥ भ्प्_04.09.012* ॥
तिर्यङ्-नग-द्विज-सरीसृप-देव-दैत्य- $ मर्त्यादिभिः परिचितं सद्-असद्-विशेषम् &
तिर्यङ्-नग-द्विज-सरीसृप-देव-दैत्य- $ मर्त्यादिभिः परिचितं सद्-असद्-विशेषम् &
रूपं स्थविष्ठम् अज ते महद्-आद्य्-अनेकं % नातः परं परम वेद्मि न यत्र वादः ॥ भ्प्_04.09.013* ॥
कल्पान्त एतद् अखिलं जठरेण गृह्णन् $ शेते पुमान् स्व-दृग् अनन्त-सखस् तद्-अङ्के &
कल्पान्त एतद् अखिलं जठरेण गृह्णन् $ शेते पुमान् स्व-दृग् अनन्त-सखस् तद्-अङ्के &
यन्-नाभि-सिन्धु-रुह-काञ्चन-लोक-पद्म- % गर्भे द्युमान् भगवते प्रणतो ऽस्मि तस्मै ॥ भ्प्_04.09.014* ॥
त्वं नित्य-मुक्त-परिशुद्ध-विबुद्ध आत्मा $ कूट-स्थ आदि-पुरुषो भगवांस् त्र्य्-अधीशः &
त्वं नित्य-मुक्त-परिशुद्ध-विबुद्ध आत्मा $ कूट-स्थ आदि-पुरुषो भगवांस् त्र्य्-अधीशः &
यद्-बुद्ध्य्-अवस्थितिम् अखण्डितया स्व-दृष्ट्या % द्रष्टा स्थिताव् अधिमखो व्यतिरिक्त आस्से ॥ भ्प्_04.09.015* ॥
यस्मिन् विरुद्ध-गतयो ह्य् अनिशं पतन्ति $ विद्यादयो विविध-शक्तय आनुपूर्व्यात् &
यस्मिन् विरुद्ध-गतयो ह्य् अनिशं पतन्ति $ विद्यादयो विविध-शक्तय आनुपूर्व्यात् &
तद् ब्रह्म विश्व-भवम् एकम् अनन्तम् आद्यम् % आनन्द-मात्रम् अविकारम् अहं प्रपद्ये ॥ भ्प्_04.09.016* ॥
सत्याशिषो हि भगवंस् तव पाद-पद्मम् $ आशीस् तथानुभजतः पुरुषार्थ-मूर्तेः &
सत्याशिषो हि भगवंस् तव पाद-पद्मम् $ आशीस् तथानुभजतः पुरुषार्थ-मूर्तेः &
अप्य् एवम् अर्य भगवान् परिपाति दीनान् % वाश्रेव वत्सकम् अनुग्रह-कातरो ऽस्मान् ॥ भ्प्_04.09.017*
0 मैत्रेय उवाच
अथाभिष्टुत एवं वै सत्-सङ्कल्पेन धीमता ।
भृत्यानुरक्तो भगवान् प्रतिनन्द्येदम् अब्रवीत्
भ्प्_04.09.019।0 श्री-भगवान् उवाच
वेदाहं ते व्यवसितं हृदि राजन्य-बालक ।
तत् प्रयच्छामि भद्रं ते दुरापम् अपि सुव्रत
नान्यैर् अधिष्ठितं भद्र यद् भ्राजिष्णु ध्रुव-क्षिति ।
यत्र ग्रहर्क्ष-ताराणां ज्योतिषां चक्रम् आहितम्
मेढ्यां गो-चक्रवत् स्थास्नु परस्तात् कल्प-वासिनाम् ।
धर्मो ऽग्निः कश्यपः शुक्रो मुनयो ये वनौकसः ।
चरन्ति दक्षिणी-कृत्य भ्रमन्तो यत् सतारकाः
प्रस्थिते तु वनं पित्रा दत्त्वा गां धर्म-संश्रयः ।
षट्-त्रिंशद्-वर्ष-साहस्रं रक्षिताव्याहतेन्द्रियः
त्वद्-भ्रातर्य् उत्तमे नष्टे मृगयायां तु तन्-मनाः ।
अन्वेषन्ती वनं माता दावाग्निं सा प्रवेक्ष्यति
इष्ट्वा मां यज्ञ-हृदयं यज्ञैः पुष्कल-दक्षिणैः ।
भुक्त्वा चेहाशिषः सत्या अन्ते मां संस्मरिष्यसि
ततो गन्तासि मत्-स्थानं सर्व-लोक-नमस्कृतम् ।
उपरिष्टाद् ऋषिभ्यस् त्वं यतो नावर्तते गतः
भ्प्_04.09.026।0 मैत्रेय उवाच
इत्य् अर्चितः स भगवान् अतिदिश्यात्मनः पदम् ।
बालस्य पश्यतो धाम स्वम् अगाद् गरुड-ध्वजः
सो ऽपि सङ्कल्पजं विष्णोः पाद-सेवोपसादितम् ।
प्राप्य सङ्कल्प-निर्वाणं नातिप्रीतो ऽभ्यगात् पुरम्
भ्प्_04.09.028।0 विदुर उवाच
सुदुर्लभं यत् परमं पदं हरेर् मायाविनस् तच्-चरणार्चनार्जितम् ।
लब्ध्वाप्य् असिद्धार्थम् इवैक-जन्मना कथं स्वम् आत्मानम् अमन्यतार्थ-वित्
भ्प्_04.09.029।0 मैत्रेय उवाच
मातुः सपत्न्या वाग्-बाणैर् हृदि विद्धस् तु तान् स्मरन् ।
नैच्छन् मुक्ति-पतेर् मुक्तिं तस्मात् तापम् उपेयिवान्
भ्प्_04.09.030।0 ध्रुव उवाच
समाधिना नैक-भवेन यत् पदं विदुः सनन्दादय ऊर्ध्व-रेतसः ।
मासैर् अहं षड्भिर् अमुष्य पादयोश् छायाम् उपेत्यापगतः पृथङ्-मतिः
अहो बत ममानात्म्यं मन्द-भाग्यस्य पश्यत ।
भव-च्छिदः पाद-मूलं गत्वा याचे यद् अन्तवत्
मतिर् विदूषिता देवैः पतद्भिर् असहिष्णुभिः ।
यो नारद-वचस् तथ्यं नाग्राहिषम् असत्तमः
दैवीं मायाम् उपाश्रित्य प्रसुप्त इव भिन्न-दृक् ।
तप्ये द्वितीये ऽप्य् असति भ्रातृ-भ्रातृव्य-हृद्-रुजा
मयैतत् प्रार्थितं व्यर्थं चिकित्सेव गतायुषि ।
प्रसाद्य जगद्-आत्मानं तपसा दुष्प्रसादनम् ।
भव-च्छिदम् अयाचे ऽहं भवं भाग्य-विवर्जितः
स्वाराज्यं यच्छतो मौढ्यान् मानो मे भिक्षितो बत ।
ईश्वरात् क्षीण-पुण्येन फली-कारान् इवाधनः
भ्प्_04.09.036।0 मैत्रेय उवाच
न वै मुकुन्दस्य पदारविन्दयो रजो-जुषस् तात भवादृशा जनाः ।
वाञ्छन्ति तद्-दास्यम् ऋते ऽर्थम् आत्मनो यदृच्छया लब्ध-मनः-समृद्धयः
आकर्ण्यात्म-जम् आयान्तं सम्परेत्य यथागतम् ।
राजा न श्रद्दधे भद्रम् अभद्रस्य कुतो मम
श्रद्धाय वाक्यं देवर्षेर् हर्ष-वेगेन धर्षितः ।
वार्ता-हर्तुर् अतिप्रीतो हारं प्रादान् महा-धनम्
सद्-अश्वं रथम् आरुह्य कार्तस्वर-परिष्कृतम् ।
ब्राह्मणैः कुल-वृद्धैश् च पर्यस्तो ऽमात्य-बन्धुभिः
शङ्ख-दुन्दुभि-नादेन ब्रह्म-घोषेण वेणुभिः ।
निश्चक्राम पुरात् तूर्णम् आत्मजाभीक्षणोत्सुकः
सुनीतिः सुरुचिश् चास्य महिष्यौ रुक्म-भूषिते ।
आरुह्य शिबिकां सार्धम् उत्तमेनाभिजग्मतुः
तं दृष्ट्वोपवनाभ्याश आयान्तं तरसा रथात् ।
अवरुह्य नृपस् तूर्णम् आसाद्य प्रेम-विह्वलः
परिरेभे ऽङ्गजं दोर्भ्यां दीर्घोत्कण्ठ-मनाः श्वसन् ।
विष्वक्सेनाङ्घ्रि-संस्पर्श- हताशेषाघ-बन्धनम्
अथाजिघ्रन् मुहुर् मूर्ध्नि शीतैर् नयन-वारिभिः ।
स्नापयाम् आस तनयं जातोद्दाम-मनोरथः
अभिवन्द्य पितुः पादाव् आशीर्भिश् चाभिमन्त्रितः ।
ननाम मातरौ शीर्ष्णा सत्-कृतः सज्-जनाग्रणीः
सुरुचिस् तं समुत्थाप्य पादावनतम् अर्भकम् ।
परिष्वज्याह जीवेति बाष्प-गद्गदया गिरा
यस्य प्रसन्नो भगवान्गुणैर् मैत्र्य्-आदिभिर् हरिः ।
तस्मै नमन्ति भूतानि निम्नम् आप इव स्वयम्
उत्तमश् च ध्रुवश् चोभाव् अन्योन्यं प्रेम-विह्वलौ ।
अङ्ग-सङ्गाद् उत्पुलकाव् अस्रौघं मुहुर् ऊहतुः
सुनीतिर् अस्य जननी प्राणेभ्यो ऽपि प्रियं सुतम् ।
उपगुह्य जहाव् आधिं तद्-अङ्ग-स्पर्श-निर्वृता
पयः स्तनाभ्यां सुस्राव नेत्र-जैः सलिलैः शिवैः ।
तदाभिषिच्यमानाभ्यां वीर वीर-सुवो मुहुः
तां शशंसुर् जना राज्ञीं दिष्ट्या ते पुत्र आर्ति-हा ।
प्रतिलब्धश् चिरं नष्टो रक्षिता मण्डलं भुवः
अभ्यर्चितस् त्वया नूनं भगवान् प्रणतार्ति-हा ।
यद्-अनुध्यायिनो धीरा मृत्युं जिग्युः सुदुर्जयम्
लाल्यमानं जनैर् एवं ध्रुवं सभ्रातरं नृपः ।
आरोप्य करिणीं हृष्टः स्तूयमानो ऽविशत् पुरम्
तत्र तत्रोपसङ्कॢप्तैर् लसन्-मकर-तोरणैः ।
सवृन्दैः कदली-स्तम्भैः पूग-पोतैश् च तद्-विधैः
चूत-पल्लव-वासः-स्रङ्- मुक्ता-दाम-विलम्बिभिः ।
उपस्कृतं प्रति-द्वारम् अपां कुम्भैः सदीपकैः
प्राकारैर् गोपुरागारैः शातकुम्भ-परिच्छदैः ।
सर्वतो ऽलङ्कृतं श्रीमद्- विमान-शिखर-द्युभिः
मृष्ट-चत्वर-रथ्याट्ट- मार्गं चन्दन-चर्चितम् ।
लाजाक्षतैः पुष्प-फलैस् तण्डुलैर् बलिभिर् युतम्
ध्रुवाय पथि दृष्टाय तत्र तत्र पुर-स्त्रियः ।
सिद्धार्थाक्षत-दध्य्-अम्बु- दूर्वा-पुष्प-फलानि च
उपजह्रुः प्रयुञ्जाना वात्सल्याद् आशिषः सतीः ।
शृण्वंस् तद्-वल्गु-गीतानि प्राविशद् भवनं पितुः
महामणि-व्रातमये स तस्मिन् भवनोत्तमे ।
लालितो नितरां पित्रा न्यवसद् दिवि देववत्
पयः-फेन-निभाः शय्या दान्ता रुक्म-परिच्छदाः ।
आसनानि महार्हाणि यत्र रौक्मा उपस्कराः
यत्र स्फटिक-कुड्येषु महा-मारकतेषु च ।
मणि-प्रदीपा आभान्ति ललना-रत्न-संयुताः
उद्यानानि च रम्याणि विचित्रैर् अमर-द्रुमैः ।
कूजद्-विहङ्ग-मिथुनैर् गायन्-मत्त-मधुव्रतैः
वाप्यो वैदूर्य-सोपानाः पद्मोत्पल-कुमुद्-वतीः ।
हंस-कारण्डव-कुलैर् जुष्टाश् चक्राह्व-सारसैः
उत्तानपादो राजर्षिः प्रभावं तनयस्य तम् ।
श्रुत्वा दृष्ट्वाद्भुततमं प्रपेदे विस्मयं परम्
वीक्ष्योढ-वयसं तं च प्रकृतीनां च सम्मतम् ।
अनुरक्त-प्रजं राजा ध्रुवं चक्रे भुवः पतिम्
आत्मानं च प्रवयसम् आकलय्य विशाम्पतिः ।
वनं विरक्तः प्रातिष्ठद् विमृशन्न् आत्मनो गतिम्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0