भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 04.08

04.08.001

भ्प्_04.08.001।0 मैत्रेय उवाच
सनकाद्या नारदश् च ऋभुर् हंसो ऽरुणिर् यतिः ।
नैते गृहान् ब्रह्म-सुता ह्य् आवसन्न् ऊर्ध्व-रेतसः

04.08.002

मृषाधर्मस्य भार्यासीद् दम्भं मायां च शत्रु-हन् ।
असूत मिथुनं तत् तु निरृतिर् जगृहे ऽप्रजः

04.08.003

तयोः समभवल् लोभो निकृतिश् च महा-मते ।
ताभ्यां क्रोधश् च हिंसा च यद् दुरुक्तिः स्वसा कलिः

04.08.004

दुरुक्तौ कलिर् आधत्त भयं मृत्युं च सत्तम ।
तयोश् च मिथुनं जज्ञे यातना निरयस् तथा

04.08.005

सङ्ग्रहेण मयाख्यातः प्रतिसर्गस् तवानघ ।
त्रिः श्रुत्वैतत् पुमान् पुण्यं विधुनोत्य् आत्मनो मलम्

04.08.006

अथातः कीर्तये वंशं पुण्य-कीर्तेः कुरूद्वह ।
स्वायम्भुवस्यापि मनोर् हरेर् अंशांश-जन्मनः

04.08.007

प्रियव्रतोत्तानपादौ शतरूपा-पतेः सुतौ ।
वासुदेवस्य कलया रक्षायां जगतः स्थितौ

04.08.008

जाये उत्तानपादस्य सुनीतिः सुरुचिस् तयोः ।
सुरुचिः प्रेयसी पत्युर् नेतरा यत्-सुतो ध्रुवः

04.08.009

एकदा सुरुचेः पुत्रम् अङ्कम् आरोप्य लालयन् ।
उत्तमं नारुरुक्षन्तं ध्रुवं राजाभ्यनन्दत

04.08.010

तथा चिकीर्षमाणं तं सपत्न्यास् तनयं ध्रुवम् ।
सुरुचिः शृण्वतो राज्ञः सेर्ष्यम् आहातिगर्विता

04.08.011

न वत्स नृपतेर् धिष्ण्यं भवान् आरोढुम् अर्हति ।
न गृहीतो मया यत् त्वं कुक्षाव् अपि नृपात्मजः

04.08.012

बालो ऽसि बत नात्मानम् अन्य-स्त्री-गर्भ-सम्भृतम् ।
नूनं वेद भवान् यस्य दुर्लभे ऽर्थे मनोरथः

04.08.013

तपसाराध्य पुरुषं तस्यैवानुग्रहेण मे ।
गर्भे त्वं साधयात्मानं यदीच्छसि नृपासनम्

04.08.014

भ्प्_04.08.014।0 मैत्रेय उवाच
मातुः सपत्न्याः स दुरुक्ति-विद्धः श्वसन् रुषा दण्ड-हतो यथाहिः ।
हित्वा मिषन्तं पितरं सन्न-वाचं जगाम मातुः प्ररुदन् सकाशम्

04.08.015

तं निःश्वसन्तं स्फुरिताधरोष्ठं सुनीतिर् उत्सङ्ग उदूह्य बालम् ।
निशम्य तत्-पौर-मुखान् नितान्तं सा विव्यथे यद् गदितं सपत्न्या

04.08.016

सोत्सृज्य धैर्यं विललाप शोक- दावाग्निना दाव-लतेव बाला ।
वाक्यं सपत्न्याः स्मरती सरोज- श्रिया दृशा बाष्प-कलाम् उवाह

04.08.017

दीर्घं श्वसन्ती वृजिनस्य पारम् अपश्यती बालकम् आह बाला ।
मामङ्गलं तात परेषु मंस्था भुङ्क्ते जनो यत् पर-दुःखदस् तत्

04.08.018

सत्यं सुरुच्याभिहितं भवान् मे यद् दुर्भगाया उदरे गृहीतः ।
स्तन्येन वृद्धश् च विलज्जते यां भार्येति वा वोढुम् इडस्पतिर् माम्

04.08.019

आतिष्ठ तत् तात विमत्सरस् त्वम् उक्तं समात्रापि यद् अव्यलीकम् ।
आराधयाधोक्षज-पाद-पद्मं यदीच्छसे ऽध्यासनम् उत्तमो यथा

04.08.020

यस्याङ्घ्रि-पद्मं परिचर्य विश्व- विभावनायात्त-गुणाभिपत्तेः ।
अजो ऽध्यतिष्ठत् खलु पारमेष्ठ्यं पदं जितात्म-श्वसनाभिवन्द्यम्

04.08.021

तथा मनुर् वो भगवान् पितामहो यम् एक-मत्या पुरु-दक्षिणैर् मखैः ।
इष्ट्वाभिपेदे दुरवापम् अन्यतो भौमं सुखं दिव्यम् अथापवर्ग्यम्

04.08.022

तम् एव वत्साश्रय भृत्य-वत्सलं मुमुक्षुभिर् मृग्य-पदाब्ज-पद्धतिम् ।
अनन्य-भावे निज-धर्म-भाविते मनस्य् अवस्थाप्य भजस्व पूरुषम्

04.08.023

नान्यं ततः पद्म-पलाश-लोचनाद् दुःख-च्छिदं ते मृगयामि कञ्चन ।
यो मृग्यते हस्त-गृहीत-पद्मया श्रियेतरैर् अङ्ग विमृग्यमाणया

04.08.024

भ्प्_04.08.024।0 मैत्रेय उवाच
एवं सञ्जल्पितं मातुर् आकर्ण्यार्थागमं वचः ।
सन्नियम्यात्मनात्मानं निश्चक्राम पितुः पुरात्

04.08.025

नारदस् तद् उपाकर्ण्य ज्ञात्वा तस्य चिकीर्षितम् ।
स्पृष्ट्वा मूर्धन्य् अघ-घ्नेन पाणिना प्राह विस्मितः

04.08.026

अहो तेजः क्षत्रियाणां मान-भङ्गम् अमृष्यताम् ।
बालो ऽप्य् अयं हृदा धत्ते यत् समातुर् असद्-वचः

04.08.027

भ्प्_04.08.027।0 नारद उवाच
नाधुनाप्य् अवमानं ते सम्मानं वापि पुत्रक ।
लक्षयामः कुमारस्य सक्तस्य क्रीडनादिषु

04.08.028

विकल्पे विद्यमाने ऽपि न ह्य् असन्तोष-हेतवः ।
पुंसो मोहम् ऋते भिन्ना यल् लोके निज-कर्मभिः

04.08.029

परितुष्येत् ततस् तात तावन्-मात्रेण पूरुषः ।
दैवोपसादितं यावद् वीक्ष्येश्वर-गतिं बुधः

04.08.030

अथ मात्रोपदिष्टेन योगेनावरुरुत्ससि ।
यत्-प्रसादं स वै पुंसां दुराराध्यो मतो मम

04.08.031

मुनयः पदवीं यस्य निःसङ्गेनोरु-जन्मभिः ।
न विदुर् मृगयन्तो ऽपि तीव्र-योग-समाधिना

04.08.032

अतो निवर्तताम् एष निर्बन्धस् तव निष्फलः ।
यतिष्यति भवान् काले श्रेयसां समुपस्थिते

04.08.033

यस्य यद् दैव-विहितं स तेन सुख-दुःखयोः ।
आत्मानं तोषयन् देही तमसः पारम् ऋच्छति

04.08.034

गुणाधिकान् मुदं लिप्सेद् अनुक्रोशं गुणाधमात् ।
मैत्रीं समानाद् अन्विच्छेन् न तापैर् अभिभूयते

04.08.035

भ्प्_04.08.035।0 ध्रुव उवाच
सो ऽयं शमो भगवता सुख-दुःख-हतात्मनाम् ।
दर्शितः कृपया पुंसां दुर्दर्शो ऽस्मद्-विधैस् तु यः

04.08.036

अथापि मे ऽविनीतस्य क्षात्त्रं घोरम् उपेयुषः ।
सुरुच्या दुर्वचो-बाणैर् न भिन्ने श्रयते हृदि

04.08.037

पदं त्रि-भुवनोत्कृष्टं जिगीषोः साधु वर्त्म मे ।
ब्रूह्य् अस्मत्-पितृभिर् ब्रह्मन्न् अन्यैर् अप्य् अनधिष्ठितम्

04.08.038

नूनं भवान् भगवतो यो ऽङ्गजः परमेष्ठिनः ।
वितुदन्न् अटते वीणां हिताय जगतो ऽर्कवत्

04.08.039

भ्प्_04.08.039।0 मैत्रेय उवाच
इत्य् उदाहृतम् आकर्ण्य भगवान् नारदस् तदा ।
प्रीतः प्रत्याह तं बालं सद्-वाक्यम् अनुकम्पया

04.08.040

भ्प्_04.08.040।0 नारद उवाच
जनन्याभिहितः पन्थाः स वै निःश्रेयसस्य ते ।
भगवान् वासुदेवस् तं भज तं प्रवणात्मना

04.08.041

धर्मार्थ-काम-मोक्षाख्यं य इच्छेच् छ्रेय आत्मनः ।
एकं ह्य् एव हरेस् तत्र कारणं पाद-सेवनम्

04.08.042

तत् तात गच्छ भद्रं ते यमुनायास् तटं शुचि ।
पुण्यं मधुवनं यत्र सान्निध्यं नित्यदा हरेः

04.08.043

स्नात्वानुसवनं तस्मिन् कालिन्द्याः सलिले शिवे ।
कृत्वोचितानि निवसन्न् आत्मनः कल्पितासनः

04.08.044

प्राणायामेन त्रि-वृता प्राणेन्द्रिय-मनो-मलम् ।
शनैर् व्युदस्याभिध्यायेन् मनसा गुरुणा गुरुम्

04.08.045

प्रसादाभिमुखं शश्वत् प्रसन्न-वदनेक्षणम् ।
सुनासं सुभ्रुवं चारु- कपोलं सुर-सुन्दरम्

04.08.046

तरुणं रमणीयाङ्गम् अरुणोष्ठेक्षणाधरम् ।
प्रणताश्रयणं नृम्णं शरण्यं करुणार्णवम्

04.08.047

श्रीवत्साङ्कं घन-श्यामं पुरुषं वन-मालिनम् ।
शङ्ख-चक्र-गदा-पद्मैर् अभिव्यक्त-चतुर्भुजम्

04.08.048

किरीटिनं कुण्डलिनं केयूर-वलयान्वितम् ।
कौस्तुभाभरण-ग्रीवं पीत-कौशेय-वाससम्

04.08.049

काञ्ची-कलाप-पर्यस्तं लसत्-काञ्चन-नूपुरम् ।
दर्शनीयतमं शान्तं मनो-नयन-वर्धनम्

04.08.050

पद्भ्यां नख-मणि-श्रेण्या विलसद्भ्यां समर्चताम् ।
हृत्-पद्म-कर्णिका-धिष्ण्यम् आक्रम्यात्मन्य् अवस्थितम्

04.08.051

स्मयमानम् अभिध्यायेत् सानुरागावलोकनम् ।
नियतेनैक-भूतेन मनसा वरदर्षभम्

04.08.052

एवं भगवतो रूपं सुभद्रं ध्यायतो मनः ।
निर्वृत्या परया तूर्णं सम्पन्नं न निवर्तते

04.08.053

जपश् च परमो गुह्यः श्रूयतां मे नृपात्मज ।
यं सप्त-रात्रं प्रपठन् पुमान् पश्यति खेचरान्

04.08.054

भ्प्_04.08.054।0 ओं नमो भगवते वासुदेवाय
मन्त्रेणानेन देवस्य कुर्याद् द्रव्यमयीं बुधः ।
सपर्यां विविधैर् द्रव्यैर् देश-काल-विभागवित्

04.08.055

सलिलैः शुचिभिर् माल्यैर् वन्यैर् मूल-फलादिभिः ।
शस्ताङ्कुरांशुकैश् चार्चेत् तुलस्या प्रियया प्रभुम्

04.08.056

लब्ध्वा द्रव्यमयीम् अर्चां क्षित्य्-अम्ब्व्-आदिषु वार्चयेत् ।
आभृतात्मा मुनिः शान्तो यत-वाङ् मित-वन्य-भुक्

04.08.057

स्वेच्छावतार-चरितैर् अचिन्त्य-निज-मायया ।
करिष्यत्य् उत्तमश्लोकस् तद् ध्यायेद् धृदयङ्-गमम्

04.08.058

परिचर्या भगवतो यावत्यः पूर्व-सेविताः ।
ता मन्त्र-हृदयेनैव प्रयुञ्ज्यान् मन्त्र-मूर्तये

04.08.059

एवं कायेन मनसा वचसा च मनो-गतम् ।
परिचर्यमाणो भगवान् भक्तिमत्-परिचर्यया

04.08.060

पुंसाम् अमायिनां सम्यग् भजतां भाव-वर्धनः ।
श्रेयो दिशत्य् अभिमतं यद् धर्मादिषु देहिनाम्

04.08.061

विरक्तश् चेन्द्रिय-रतौ भक्ति-योगेन भूयसा ।
तं निरन्तर-भावेन भजेताद्धा विमुक्तये

04.08.062

इत्य् उक्तस् तं परिक्रम्य प्रणम्य च नृपार्भकः ।
ययौ मधुवनं पुण्यं हरेश् चरण-चर्चितम्

04.08.063

तपो-वनं गते तस्मिन् प्रविष्टो ऽन्तः-पुरं मुनिः ।
अर्हितार्हणको राज्ञा सुखासीन उवाच तम्

04.08.064

भ्प्_04.08.064।0 नारद उवाच
राजन् किं ध्यायसे दीर्घं मुखेन परिशुष्यता ।
किं वा न रिष्यते कामो धर्मो वार्थेन संयुतः

04.08.065

भ्प्_04.08.065।0 राजोवाच
सुतो मे बालको ब्रह्मन् स्त्रैणेनाकरुणात्मना ।
निर्वासितः पञ्च-वर्षः सह मात्रा महान् कविः

04.08.066

अप्य् अनाथं वने ब्रह्मन् मा स्मादन्त्य् अर्भकं वृकाः ।
श्रान्तं शयानं क्षुधितं परिम्लान-मुखाम्बुजम्

04.08.067

अहो मे बत दौरात्म्यं स्त्री-जितस्योपधारय ।
यो ऽङ्कं प्रेम्णारुरुक्षन्तं नाभ्यनन्दम् असत्तमः

04.08.068

भ्प्_04.08.068।0 नारद उवाच
मा मा शुचः स्व-तनयं देव-गुप्तं विशाम्पते ।
तत्-प्रभावम् अविज्ञाय प्रावृङ्क्ते यद्-यशो जगत्

04.08.069

सुदुष्करं कर्म कृत्वा लोक-पालैर् अपि प्रभुः ।
ऐष्यत्य् अचिरतो राजन् यशो विपुलयंस् तव

04.08.070

भ्प्_04.08.070।0 मैत्रेय उवाच
इति देवर्षिणा प्रोक्तं विश्रुत्य जगती-पतिः ।
राज-लक्ष्मीम् अनादृत्य पुत्रम् एवान्वचिन्तयत्

04.08.071

तत्राभिषिक्तः प्रयतस् ताम् उपोष्य विभावरीम् ।
समाहितः पर्यचरद् ऋष्य्-आदेशेन पूरुषम्

04.08.072

त्रि-रात्रान्ते त्रि-रात्रान्ते कपित्थ-बदराशनः ।
आत्म-वृत्त्य्-अनुसारेण मासं निन्ये ऽर्चयन् हरिम्

04.08.073

द्वितीयं च तथा मासं षष्ठे षष्ठे ऽर्भको दिने ।
तृण-पर्णादिभिः शीर्णैः कृतान्नो ऽभ्यर्चयन् विभुम्

04.08.074

तृतीयं चानयन् मासं नवमे नवमे ऽहनि ।
अब्-भक्ष उत्तमश्लोकम् उपाधावत् समाधिना

04.08.075

चतुर्थम् अपि वै मासं द्वादशे द्वादशे ऽहनि ।
वायु-भक्षो जित-श्वासो ध्यायन् देवम् अधारयत्

04.08.076

पञ्चमे मास्य् अनुप्राप्ते जित-श्वासो नृपात्मजः ।
ध्यायन् ब्रह्म पदैकेन तस्थौ स्थाणुर् इवाचलः

04.08.077

सर्वतो मन आकृष्य हृदि भूतेन्द्रियाशयम् ।
ध्यायन् भगवतो रूपं नाद्राक्षीत् किञ्चनापरम्

04.08.078

आधारं महद्-आदीनां प्रधान-पुरुषेश्वरम् ।
ब्रह्म धारयमाणस्य त्रयो लोकाश् चकम्पिरे

04.08.079

यदैक-पादेन स पार्थिवार्भकस् तस्थौ तद्-अङ्गुष्ठ-निपीडिता मही ।
ननाम तत्रार्धम् इभेन्द्र-धिष्ठिता तरीव सव्येतरतः पदे पदे

04.08.080

तस्मिन्न् अभिध्यायति विश्वम् आत्मनो द्वारं निरुध्यासुम् अनन्यया धिया ।
लोका निरुच्छ्वास-निपीडिता भृशं स-लोक-पालाः शरणं ययुर् हरिम्

04.08.081

भ्प्_04.08.081।0 देवा ऊचुः
नैवं विदामो भगवन् प्राण-रोधं चराचरस्याखिल-सत्त्व-धाम्नः ।
विधेहि तन् नो वृजिनाद् विमोक्षं प्राप्ता वयं त्वां शरणं शरण्यम्

04.08.082

भ्प्_04.08.082।0 श्री-भगवान् उवाच
मा भैष्ट बालं तपसो दुरत्ययान् निवर्तयिष्ये प्रतियात स्व-धाम ।
यतो हि वः प्राण-निरोध आसीद् औत्तानपादिर् मयि सङ्गतात्मा

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc