भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 04.10

04.10.001

भ्प्_04.10.001।0 मैत्रेय उवाच
प्रजापतेर् दुहितरं शिशुमारस्य वै ध्रुवः ।
उपयेमे भ्रमिं नाम तत्-सुतौ कल्प-वत्सरौ

04.10.002

इलायाम् अपि भार्यायां वायोः पुत्र्यां महा-बलः ।
पुत्रम् उत्कल-नामानं योषिद्-रत्नम् अजीजनत्

04.10.003

उत्तमस् त्व् अकृतोद्वाहो मृगयायां बलीयसा ।
हतः पुण्य-जनेनाद्रौ तन्-मातास्य गतिं गता

04.10.004

ध्रुवो भ्रातृ-वधं श्रुत्वा कोपामर्ष-शुचार्पितः ।
जैत्रं स्यन्दनम् आस्थाय गतः पुण्य-जनालयम्

04.10.005

गत्वोदीचीं दिशं राजा रुद्रानुचर-सेविताम् ।
ददर्श हिमवद्-द्रोण्यां पुरीं गुह्यक-सङ्कुलाम्

04.10.006

दध्मौ शङ्खं बृहद्-बाहुः खं दिशश् चानुनादयन् ।
येनोद्विग्न-दृशः क्षत्तर् उपदेव्यो ऽत्रसन् भृशम्

04.10.007

ततो निष्क्रम्य बलिन उपदेव-महा-भटाः ।
असहन्तस् तन्-निनादम् अभिपेतुर् उदायुधाः

04.10.008

स तान् आपततो वीर उग्र-धन्वा महा-रथः ।
एकैकं युगपत् सर्वान् अहन् बाणैस् त्रिभिस् त्रिभिः

04.10.009

ते वै ललाट-लग्नैस् तैर् इषुभिः सर्व एव हि ।
मत्वा निरस्तम् आत्मानम् आशंसन् कर्म तस्य तत्

04.10.010

ते ऽपि चामुम् अमृष्यन्तः पाद-स्पर्शम् इवोरगाः ।
शरैर् अविध्यन् युगपद् द्वि-गुणं प्रचिकीर्षवः

04.10.011

ततः परिघ-निस्त्रिंशैः प्रासशूल-परश्वधैः ।
शक्त्य्-ऋष्टिभिर् भुशुण्डीभिश् चित्र-वाजैः शरैर् अपि

04.10.012

अभ्यवर्षन् प्रकुपिताः सरथं सह-सारथिम् ।
इच्छन्तस् तत् प्रतीकर्तुम् अयुतानां त्रयोदश

04.10.013

औत्तानपादिः स तदा शस्त्र-वर्षेण भूरिणा ।
न एवादृश्यताच्छन्न आसारेण यथा गिरिः

04.10.014

हाहा-कारस् तदैवासीत् सिद्धानां दिवि पश्यताम् ।
हतो ऽयं मानवः सूर्यो मग्नः पुण्य-जनार्णवे

04.10.015

नदत्सु यातुधानेषु जय-काशिष्व् अथो मृधे ।
उदतिष्ठद् रथस् तस्य नीहाराद् इव भास्करः

04.10.016

धनुर् विस्फूर्जयन् दिव्यं द्विषतां खेदम् उद्वहन् ।
अस्त्रौघं व्यधमद् बाणैर् घनानीकम् इवानिलः

04.10.017

तस्य ते चाप-निर्मुक्ता भित्त्वा वर्माणि रक्षसाम् ।
कायान् आविविशुस् तिग्मा गिरीन् अशनयो यथा

04.10.018

भल्लैः सञ्छिद्यमानानां शिरोभिश् चारु-कुण्डलैः ।
ऊरुभिर् हेम-तालाभैर् दोर्भिर् वलय-वल्गुभिः

04.10.019

हार-केयूर-मुकुटैर् उष्णीषैश् च महा-धनैः ।
आस्तृतास् ता रण-भुवो रेजुर् वीर-मनो-हराः

04.10.020

हतावशिष्टा इतरे रणाजिराद् रक्षो-गणाः क्षत्रिय-वर्य-सायकैः ।
प्रायो विवृक्णावयवा विदुद्रुवुर् मृगेन्द्र-विक्रीडित-यूथपा इव

04.10.021

अपश्यमानः स तदाततायिनं महा-मृधे कञ्चन मानवोत्तमः ।
पुरीं दिदृक्षन्न् अपि नाविशद् द्विषां न मायिनां वेद चिकीर्षितं जनः

04.10.022

इति ब्रुवंश् चित्र-रथः स्व-सारथिं यत्तः परेषां प्रतियोग-शङ्कितः ।
शुश्राव शब्दं जलधेर् इवेरितं नभस्वतो दिक्षु रजो ऽन्वदृश्यत

04.10.023

क्षणेनाच्छादितं व्योम घनानीकेन सर्वतः ।
विस्फुरत्-तडिता दिक्षु त्रासयत्-स्तनयित्नुना

04.10.024

ववृषू रुधिरौघासृक्- पूय-विण्-मूत्र-मेदसः ।
निपेतुर् गगनाद् अस्य कबन्धान्य् अग्रतो ऽनघ

04.10.025

ततः खे ऽदृश्यत गिरिर् निपेतुः सर्वतो-दिशम् ।
गदा-परिघ-निस्त्रिंश- मुसलाः साश्म-वर्षिणः

04.10.026

अहयो ऽशनि-निःश्वासा वमन्तो ऽग्निं रुषाक्षिभिः ।
अभ्यधावन् गजा मत्ताः सिंह-व्याघ्राश् च यूथशः

04.10.027

समुद्र ऊर्मिभिर् भीमः प्लावयन् सर्वतो भुवम् ।
आससाद महा-ह्रादः कल्पान्त इव भीषणः

04.10.028

एवं-विधान्य् अनेकानि त्रासनान्य् अमनस्विनाम् ।
ससृजुस् तिग्म-गतय आसुर्या माययासुराः

04.10.029

ध्रुवे प्रयुक्ताम् असुरैस् तां मायाम् अतिदुस्तराम् ।
निशम्य तस्य मुनयः शम् आशंसन् समागताः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc