भागवत पुराण · अध्याय 04.07
भ्प्_04.07.001।0 मैत्रेय उवाच
इत्य् अजेनानुनीतेन भवेन परितुष्यता ।
अभ्यधायि महा-बाहो प्रहस्य श्रूयताम् इति
भ्प्_04.07.002।0 महादेव उवाच
नाघं प्रजेश बालानां वर्णये नानुचिन्तये ।
देव-मायाभिभूतानां दण्डस् तत्र धृतो मया
प्रजापतेर् दग्ध-शीर्ष्णो भवत्व् अज-मुखं शिरः ।
मित्रस्य चक्षुषेक्षेत भागं स्वं बर्हिषो भगः
पूषा तु यजमानस्य दद्भिर् जक्षतु पिष्ट-भुक् ।
देवाः प्रकृत-सर्वाङ्गा ये म उच्छेषणं ददुः
बाहुभ्याम् अश्विनोः पूष्णो हस्ताभ्यां कृत-बाहवः ।
भवन्त्व् अध्वर्यवश् चान्ये बस्त-श्मश्रुर् भृगुर् भवेत्
भ्प्_04.07.006।0 मैत्रेय उवाच
तदा सर्वाणि भूतानि श्रुत्वा मीढुष्टमोदितम् ।
परितुष्टात्मभिस् तात साधु साध्व् इत्य् अथाब्रुवन्
ततो मीढ्वांसम् आमन्त्र्य शुनासीराः सहर्षिभिः ।
भूयस् तद् देव-यजनं स-मीढ्वद्-वेधसो ययुः
विधाय कार्त्स्न्येन च तद् यद् आह भगवान् भवः ।
सन्दधुः कस्य कायेन सवनीय-पशोः शिरः
सन्धीयमाने शिरसि दक्षो रुद्राभिवीक्षितः ।
सद्यः सुप्त इवोत्तस्थौ ददृशे चाग्रतो मृडम्
तदा वृषध्वज-द्वेष- कलिलात्मा प्रजापतिः ।
शिवावलोकाद् अभवच् छरद्-ध्रद इवामलः
भव-स्तवाय कृत-धीर् नाशक्नोद् अनुरागतः ।
औत्कण्ठ्याद् बाष्प-कलया सम्परेतां सुतां स्मरन्
कृच्छ्रात् संस्तभ्य च मनः प्रेम-विह्वलितः सुधीः ।
शशंस निर्व्यलीकेन भावेनेशं प्रजापतिः
भ्प्_04.07.013।0 दक्ष उवाच
भूयान् अनुग्रह अहो भवता कृतो मे $ दण्डस् त्वया मयि भृतो यद् अपि प्रलब्धः &
भूयान् अनुग्रह अहो भवता कृतो मे $ दण्डस् त्वया मयि भृतो यद् अपि प्रलब्धः &
न ब्रह्म-बन्धुषु च वां भगवन्न् अवज्ञा % तुभ्यं हरेश् च कुत एव धृत-व्रतेषु ॥ भ्प्_04.07.013* ॥
विद्या-तपो-व्रत-धरान् मुखतः स्म विप्रान् $ ब्रह्मात्म-तत्त्वम् अवितुं प्रथमं त्वम् अस्राक् &
विद्या-तपो-व्रत-धरान् मुखतः स्म विप्रान् $ ब्रह्मात्म-तत्त्वम् अवितुं प्रथमं त्वम् अस्राक् &
तद् ब्राह्मणान् परम सर्व-विपत्सु पासि % पालः पशून् इव विभो प्रगृहीत-दण्डः ॥ भ्प्_04.07.014* ॥
यो ऽसौ मयाविदित-तत्त्व-दृशा सभायां $ क्षिप्तो दुरुक्ति-विशिखैर् विगणय्य तन् माम् &
यो ऽसौ मयाविदित-तत्त्व-दृशा सभायां $ क्षिप्तो दुरुक्ति-विशिखैर् विगणय्य तन् माम् &
अर्वाक् पतन्तम् अर्हत्तम-निन्दयापाद् % दृष्ट्यार्द्रया स भगवान् स्व-कृतेन तुष्येत् ॥ भ्प्_04.07.015*
0 मैत्रेय उवाच
क्षमाप्यैवं स मीढ्वांसं ब्रह्मणा चानुमन्त्रितः ।
कर्म सन्तानयाम् आस सोपाध्यायर्त्विग्-आदिभिः
वैष्णवं यज्ञ-सन्तत्यै त्रि-कपालं द्विजोत्तमाः ।
पुरोडाशं निरवपन् वीर-संसर्ग-शुद्धये
अध्वर्युणात्त-हविषा यजमानो विशाम्पते ।
धिया विशुद्धया दध्यौ तथा प्रादुरभूद् धरिः
तदा स्व-प्रभया तेषां द्योतयन्त्या दिशो दश ।
मुष्णंस् तेज उपानीतस् तार्क्ष्येण स्तोत्र-वाजिना
श्यामो हिरण्य-रशनो ऽर्क-किरीट-जुष्टो $ नीलालक-भ्रमर-मण्डित-कुण्डलास्यः &अम्प्;
शङ्खाब्ज-चक्र-शर-चाप-गदासि-चर्म- % व्यग्रैर् हिरण्मय-भुजैर् इव कर्णिकारः ॥ भ्प्_04.07.020* ॥
वक्षस्य् अधिश्रित-वधूर् वन-माल्य् उदार- $ हासावलोक-कलया रमयंश् च विश्वम् &
वक्षस्य् अधिश्रित-वधूर् वन-माल्य् उदार- $ हासावलोक-कलया रमयंश् च विश्वम् &
पार्श्व-भ्रमद्-व्यजन-चामर-राज-हंसः % श्वेतातपत्र-शशिनोपरि रज्यमानः ॥ भ्प्_04.07.021* ॥
तम् उपागतम् आलक्ष्य सर्वे सुर-गणादयः ।
प्रणेमुः सहसोत्थाय ब्रह्मेन्द्र-त्र्यक्ष-नायकाः
तत्-तेजसा हत-रुचः सन्न-जिह्वाः स-साध्वसाः ।
मूर्ध्ना धृताञ्जलि-पुटा उपतस्थुर् अधोक्षजम्
अप्य् अर्वाग्-वृत्तयो यस्य महि त्व् आत्मभुव्-आदयः ।
यथा-मति गृणन्ति स्म कृतानुग्रह-विग्रहम्
दक्षो गृहीतार्हण-सादनोत्तमं $ यज्ञेश्वरं विश्व-सृजां परं गुरुम् &अम्प्;
सुनन्द-नन्दाद्य्-अनुगैर् वृतं मुदा % गृणन् प्रपेदे प्रयतः कृताञ्जलिः ॥ भ्प्_04.07.025*
0 दक्ष उवाच
शुद्धं स्व-धाम्न्य् उपरताखिल-बुद्ध्य्-अवस्थं $ चिन्-मात्रम् एकम् अभयं प्रतिषिध्य मायाम् &
शुद्धं स्व-धाम्न्य् उपरताखिल-बुद्ध्य्-अवस्थं $ चिन्-मात्रम् एकम् अभयं प्रतिषिध्य मायाम् &
तिष्ठंस् तयैव पुरुषत्वम् उपेत्य तस्याम् % आस्ते भवान् अपरिशुद्ध इवात्म-तन्त्रः ॥ भ्प्_04.07.026*
0 ऋत्विज ऊचुः
तत्त्वं न ते वयम् अनञ्जन रुद्र-शापात् $ कर्मण्य् अवग्रह-धियो भगवन् विदामः &
तत्त्वं न ते वयम् अनञ्जन रुद्र-शापात् $ कर्मण्य् अवग्रह-धियो भगवन् विदामः &
धर्मोपलक्षणम् इदं त्रिवृद् अध्वराख्यं % ज्ञातं यद्-अर्थम् अधिदैवम् अदो व्यवस्थाः ॥ भ्प्_04.07.027*
0 सदस्या ऊचुः
उत्पत्त्य्-अध्वन्य् अशरण उरु-क्लेश-दुर्गे ऽन्तकोग्र- $ व्यालान्विष्टे विषय-मृग-तृष्य् आत्म-गेहोरु-भारः &
उत्पत्त्य्-अध्वन्य् अशरण उरु-क्लेश-दुर्गे ऽन्तकोग्र- $ व्यालान्विष्टे विषय-मृग-तृष्य् आत्म-गेहोरु-भारः &
द्वन्द्व-श्वभ्रे खल-मृग-भये शोक-दावे ऽज्ञ-सार्थः % पादौकस् ते शरणद कदा याति कामोपसृष्टः ॥ भ्प्_04.07.028*
0 रुद्र उवाच
तव वरद वराङ्घ्राव् आशिषेहाखिलार्थे $ ह्य् अपि मुनिभिर् असक्तैर् आदरेणार्हणीये &
तव वरद वराङ्घ्राव् आशिषेहाखिलार्थे $ ह्य् अपि मुनिभिर् असक्तैर् आदरेणार्हणीये &
यदि रचित-धियं माविद्य-लोको ऽपविद्धं % जपति न गणये तत् त्वत्-परानुग्रहेण ॥ भ्प्_04.07.029*
0 भृगुर् उवाच
यन् मायया गहनयापहृतात्म-बोधा $ ब्रह्मादयस् तनु-भृतस् तमसि स्वपन्तः &
यन् मायया गहनयापहृतात्म-बोधा $ ब्रह्मादयस् तनु-भृतस् तमसि स्वपन्तः &
नात्मन्-श्रितं तव विदन्त्य् अधुनापि तत्त्वं % सो ऽयं प्रसीदतु भवान् प्रणतात्म-बन्धुः ॥ भ्प्_04.07.030*
0 ब्रह्मोवाच
नैतत् स्वरूपं भवतो ऽसौ पदार्थ- भेद-ग्रहैः पुरुषो यावद् ईक्षेत् ।
ज्ञानस्य चार्थस्य गुणस्य चाश्रयो मायामयाद् व्यतिरिक्तो मतस् त्वम्
भ्प्_04.07.032।0 इन्द्र उवाच
इदम् अप्य् अच्युत विश्व-भावनं वपुर् आनन्द-करं मनो-दृशाम् ।
सुर-विद्विट्-क्षपणैर् उदायुधैर् भुज-दण्डैर् उपपन्नम् अष्टभिः
भ्प्_04.07.033।0 पत्न्य ऊचुः
यज्ञो ऽयं तव यजनाय केन सृष्टो विध्वस्तः पशुपतिनाद्य दक्ष-कोपात् ।
तं नस् त्वं शव-शयनाभ-शान्त-मेधं यज्ञात्मन् नलिन-रुचा दृशा पुनीहि
भ्प्_04.07.034।0 ऋषय ऊचुः
अनन्वितं ते भगवन् विचेष्टितं यद् आत्मना चरसि हि कर्म नाज्यसे ।
विभूतये यत उपसेदुर् ईश्वरीं न मन्यते स्वयम् अनुवर्ततीं भवान्
भ्प्_04.07.035।0 सिद्धा ऊचुः
अयं त्वत्-कथा-मृष्ट-पीयूष-नद्यां मनो-वारणः क्लेश-दावाग्नि-दग्धः ।
तृषार्तो ऽवगाढो न सस्मार दावं न निष्क्रामति ब्रह्म-सम्पन्नवन् नः
भ्प्_04.07.036।0 यजमान्य् उवाच
स्वागतं ते प्रसीदेश तुभ्यं नमः श्रीनिवास श्रिया कान्तया त्राहि नः ।
त्वाम् ऋते ऽधीश नाङ्गैर् मखः शोभते शीर्ष-हीनः क-बन्धो यथा पुरुषः
भ्प्_04.07.037।0 लोकपाला ऊचुः
दृष्टः किं नो दृग्भिर् असद्-ग्रहैस् त्वं प्रत्यग्-द्रष्टा दृश्यते येन विश्वम् ।
माया ह्य् एषा भवदीया हि भूमन् यस् त्वं षष्ठः पञ्चभिर् भासि भूतैः
भ्प्_04.07.038।0 योगेश्वरा ऊचुः
प्रेयान् न ते ऽन्यो ऽस्त्य् अमुतस् त्वयि प्रभो विश्वात्मनीक्षेन् न पृथग् य आत्मनः ।
अथापि भक्त्येश तयोपधावताम् अनन्य-वृत्त्यानुगृहाण वत्सल
जगद्-उद्भव-स्थिति-लयेषु दैवतो बहु-भिद्यमान-गुणयात्म-मायया ।
रचितात्म-भेद-मतये स्व-संस्थया विनिवर्तित-भ्रम-गुणात्मने नमः
भ्प्_04.07.040।0 ब्रह्मोवाच
नमस् ते श्रित-सत्त्वाय धर्मादीनां च सूतये ।
निर्गुणाय च यत्-काष्ठां नाहं वेदापरे ऽपि च
भ्प्_04.07.041।0 अग्निर् उवाच
यत्-तेजसाहं सुसमिद्ध-तेजा हव्यं वहे स्वध्वर आज्य-सिक्तम् ।
तं यज्ञियं पञ्च-विधं च पञ्चभिः स्विष्टं यजुर्भिः प्रणतो ऽस्मि यज्ञम्
भ्प्_04.07.042।0 देवा ऊचुः
पुरा कल्पापाये स्व-कृतम् उदरी-कृत्य विकृतं $ त्वम् एवाद्यस् तस्मिन् सलिल उरगेन्द्राधिशयने &
पुरा कल्पापाये स्व-कृतम् उदरी-कृत्य विकृतं $ त्वम् एवाद्यस् तस्मिन् सलिल उरगेन्द्राधिशयने &
पुमान् शेषे सिद्धैर् हृदि विमृशिताध्यात्म-पदविः % स एवाद्याक्ष्णोर् यः पथि चरसि भृत्यान् अवसि नः ॥ भ्प्_04.07.042*
0 गन्धर्वा ऊचुः
अंशांशास् ते देव मरीच्य्-आदय एते ब्रह्मेन्द्राद्या देव-गणा रुद्र-पुरोगाः ।
क्रीडा-भाण्डं विश्वम् इदं यस्य विभूमन् तस्मै नित्यं नाथ नमस् ते करवाम
भ्प्_04.07.044।0 विद्याधरा ऊचुः
त्वन्-माययार्थम् अभिपद्य कलेवरे ऽस्मिन् $ कृत्वा ममाहम् इति दुर्मतिर् उत्पथैः स्वैः &
त्वन्-माययार्थम् अभिपद्य कलेवरे ऽस्मिन् $ कृत्वा ममाहम् इति दुर्मतिर् उत्पथैः स्वैः &
क्षिप्तो ऽप्य् असद्-विषय-लालस आत्म-मोहं % युष्मत्-कथामृत-निषेवक उद्व्युदस्येत् ॥ भ्प्_04.07.044*
0 ब्राह्मणा ऊचुः
त्वं क्रतुस् त्वं हविस् त्वं हुताशः स्वयं त्वं हि मन्त्रः समिद्-दर्भ-पात्राणि च ।
त्वं सदस्यर्त्विजो दम्पती देवता अग्निहोत्रं स्वधा सोम आज्यं पशुः
त्वं पुरा गां रसाया महा-सूकरो दंष्ट्रया पद्मिनीं वारणेन्द्रो यथा ।
स्तूयमानो नदल् लीलया योगिभिर् व्युज्जहर्थ त्रयी-गात्र यज्ञ-क्रतुः
स प्रसीद त्वम् अस्माकम् आकाङ्क्षतां दर्शनं ते परिभ्रष्ट-सत्-कर्मणाम् ।
कीर्त्यमाने नृभिर् नाम्नि यज्ञेश ते यज्ञ-विघ्नाः क्षयं यान्ति तस्मै नमः
भ्प्_04.07.048।0 मैत्रेय उवाच
इति दक्षः कविर् यज्ञं भद्र रुद्राभिमर्शितम् ।
कीर्त्यमाने हृषीकेशे सन्निन्ये यज्ञ-भावने
भगवान् स्वेन भागेन सर्वात्मा सर्व-भाग-भुक् ।
दक्षं बभाष आभाष्य प्रीयमाण इवानघ
भ्प्_04.07.050।0 श्री-भगवान् उवाच
अहं ब्रह्मा च शर्वश् च जगतः कारणं परम् ।
आत्मेश्वर उपद्रष्टा स्वयन्-दृग् अविशेषणः
आत्म-मायां समाविश्य सो ऽहं गुणमयीं द्विज ।
सृजन् रक्षन् हरन् विश्वं दध्रे संज्ञां क्रियोचिताम्
तस्मिन् ब्रह्मण्य् अद्वितीये केवले परमात्मनि ।
ब्रह्म-रुद्रौ च भूतानि भेदेनाज्ञो ऽनुपश्यति
यथा पुमान् न स्वाङ्गेषु शिरः-पाण्य्-आदिषु क्वचित् ।
पारक्य-बुद्धिं कुरुते एवं भूतेषु मत्-परः
त्रयाणाम् एक-भावानां यो न पश्यति वै भिदाम् ।
सर्व-भूतात्मनां ब्रह्मन् स शान्तिम् अधिगच्छति
भ्प्_04.07.055।0 मैत्रेय उवाच
एवं भगवतादिष्टः प्रजापति-पतिर् हरिम् ।
अर्चित्वा क्रतुना स्वेन देवान् उभयतो ऽयजत्
रुद्रं च स्वेन भागेन ह्य् उपाधावत् समाहितः ।
कर्मणोदवसानेन सोमपान् इतरान् अपि ।
उदवस्य सहर्त्विग्भिः सस्नाव् अवभृथं ततः
तस्मा अप्य् अनुभावेन स्वेनैवावाप्त-राधसे ।
धर्म एव मतिं दत्त्वा त्रिदशास् ते दिवं ययुः
एवं दाक्षायणी हित्वा सती पूर्व-कलेवरम् ।
जज्ञे हिमवतः क्षेत्रे मेनायाम् इति शुश्रुम
तम् एव दयितं भूय आवृङ्क्ते पतिम् अम्बिका ।
अनन्य-भावैक-गतिं शक्तिः सुप्तेव पूरुषम्
एतद् भगवतः शम्भोः कर्म दक्षाध्वर-द्रुहः ।
श्रुतं भागवताच् छिष्याद् उद्धवान् मे बृहस्पतेः
इदं पवित्रं परम् ईश-चेष्टितं यशस्यम् आयुष्यम् अघौघ-मर्षणम् ।
यो नित्यदाकर्ण्य नरो ऽनुकीर्तयेद् धुनोत्य् अघं कौरव भक्ति-भावतः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0