भागवत पुराण · अध्याय 03.29
भ्प्_03.29.001।0 देवहूतिर् उवाच
लक्षणं महद्-आदीनां प्रकृतेः पुरुषस्य च ।
स्वरूपं लक्ष्यते ऽमीषां येन तत्-पारमार्थिकम्
यथा साङ्ख्येषु कथितं यन्-मूलं तत् प्रचक्षते ।
भक्ति-योगस्य मे मार्गं ब्रूहि विस्तरशः प्रभो
विरागो येन पुरुषो भगवन् सर्वतो भवेत् ।
आचक्ष्व जीव-लोकस्य विविधा मम संसृतीः
कालस्येश्वर-रूपस्य परेषां च परस्य ते ।
स्वरूपं बत कुर्वन्ति यद्-धेतोः कुशलं जनाः
लोकस्य मिथ्याभिमतेर् अचक्षुषश् चिरं प्रसुप्तस्य तमस्य् अनाश्रये ।
श्रान्तस्य कर्मस्व् अनुविद्धया धिया त्वम् आविरासीः किल योग-भास्करः
भ्प्_03.29.006।0 मैत्रेय उवाच
इति मातुर् वचः श्लक्ष्णं प्रतिनन्द्य महा-मुनिः ।
आबभाषे कुरु-श्रेष्ठ प्रीतस् तां करुणार्दितः
भ्प्_03.29.007।0 श्री-भगवान् उवाच
भक्ति-योगो बहु-विधो मार्गैर् भामिनि भाव्यते ।
स्वभाव-गुण-मार्गेण पुंसां भावो विभिद्यते
अभिसन्धाय यो हिंसां दम्भं मात्सर्यम् एव वा ।
संरम्भी भिन्न-दृग् भावं मयि कुर्यात् स तामसः
विषयान् अभिसन्धाय यश ऐश्वर्यम् एव वा ।
अर्चादाव् अर्चयेद् यो मां पृथग्-भावः स राजसः
कर्म-निर्हारम् उद्दिश्य परस्मिन् वा तद्-अर्पणम् ।
यजेद् यष्टव्यम् इति वा पृथग्-भावः स सात्त्विकः
मद्-गुण-श्रुति-मात्रेण मयि सर्व-गुहाशये ।
मनो-गतिर् अविच्छिन्ना यथा गङ्गाम्भसो ऽम्बुधौ
लक्षणं भक्ति-योगस्य निर्गुणस्य ह्य् उदाहृतम् ।
अहैतुक्य् अव्यवहिता या भक्तिः पुरुषोत्तमे
सालोक्य-सार्ष्टि-सामीप्य- सारूप्यैकत्वम् अप्य् उत ।
दीयमानं न गृह्णन्ति विना मत्-सेवनं जनाः
स एव भक्ति-योगाख्य आत्यन्तिक उदाहृतः ।
येनातिव्रज्य त्रि-गुणं मद्-भावायोपपद्यते
निषेवितेनानिमित्तेन स्व-धर्मेण महीयसा ।
क्रिया-योगेन शस्तेन नातिहिंस्रेण नित्यशः
मद्-धिष्ण्य-दर्शन-स्पर्श- पूजा-स्तुत्य्-अभिवन्दनैः ।
भूतेषु मद्-भावनया सत्त्वेनासङ्गमेन च
महतां बहु-मानेन दीनानाम् अनुकम्पया ।
मैत्र्या चैवात्म-तुल्येषु यमेन नियमेन च
आध्यात्मिकानुश्रवणान् नाम-सङ्कीर्तनाच् च मे ।
आर्जवेनार्य-सङ्गेन निरहङ्क्रियया तथा
मद्-धर्मणो गुणैर् एतैः परिसंशुद्ध आशयः ।
पुरुषस्याञ्जसाभ्येति श्रुत-मात्र-गुणं हि माम्
यथा वात-रथो घ्राणम् आवृङ्क्ते गन्ध आशयात् ।
एवं योग-रतं चेत आत्मानम् अविकारि यत्
अहं सर्वेषु भूतेषु भूतात्मावस्थितः सदा ।
तम् अवज्ञाय मां मर्त्यः कुरुते ऽर्चा-विडम्बनम्
यो मां सर्वेषु भूतेषु सन्तम् आत्मानम् ईश्वरम् ।
हित्वार्चां भजते मौढ्याद् भस्मन्य् एव जुहोति सः
द्विषतः पर-काये मां मानिनो भिन्न-दर्शिनः ।
भूतेषु बद्ध-वैरस्य न मनः शान्तिम् ऋच्छति
अहम् उच्चावचैर् द्रव्यैः क्रिययोत्पन्नयानघे ।
नैव तुष्ये ऽर्चितो ऽर्चायां भूत-ग्रामावमानिनः
अर्चादाव् अर्चयेत् तावद् ईश्वरं मां स्व-कर्म-कृत् ।
यावन् न वेद स्व-हृदि सर्व-भूतेष्व् अवस्थितम्
आत्मनश् च परस्यापि यः करोत्य् अन्तरोदरम् ।
तस्य भिन्न-दृशो मृत्युर् विदधे भयम् उल्बणम्
अथ मां सर्व-भूतेषु भूतात्मानं कृतालयम् ।
अर्हयेद् दान-मानाभ्यां मैत्र्याभिन्नेन चक्षुषा
जीवाः श्रेष्ठा ह्य् अजीवानां ततः प्राण-भृतः शुभे ।
ततः स-चित्ताः प्रवरास् ततश् चेन्द्रिय-वृत्तयः
तत्रापि स्पर्श-वेदिभ्यः प्रवरा रस-वेदिनः ।
तेभ्यो गन्ध-विदः श्रेष्ठास् ततः शब्द-विदो वराः
रूप-भेद-विदस् तत्र ततश् चोभयतो-दतः ।
तेषां बहु-पदाः श्रेष्ठाश् चतुष्-पादस् ततो द्वि-पात्
ततो वर्णाश् च चत्वारस् तेषां ब्राह्मण उत्तमः ।
ब्राह्मणेष्व् अपि वेद-ज्ञो ह्य् अर्थ-ज्ञो ऽभ्यधिकस् ततः
अर्थ-ज्ञात् संशय-च्छेत्ता ततः श्रेयान् स्व-कर्म-कृत् ।
मुक्त-सङ्गस् ततो भूयान् अदोग्धा धर्मम् आत्मनः
तस्मान् मय्य् अर्पिताशेष- क्रियार्थात्मा निरन्तरः ।
मय्य् अर्पितात्मनः पुंसो मयि सन्न्यस्त-कर्मणः ।
न पश्यामि परं भूतम् अकर्तुः सम-दर्शनात्
मनसैतानि भूतानि प्रणमेद् बहु-मानयन् ।
ईश्वरो जीव-कलया प्रविष्टो भगवान् इति
भक्ति-योगश् च योगश् च मया मानव्य् उदीरितः ।
ययोर् एकतरेणैव पुरुषः पुरुषं व्रजेत्
एतद् भगवतो रूपं ब्रह्मणः परमात्मनः ।
परं प्रधानं पुरुषं दैवं कर्म-विचेष्टितम्
रूप-भेदास्पदं दिव्यं काल इत्य् अभिधीयते ।
भूतानां महद्-आदीनां यतो भिन्न-दृशां भयम्
यो ऽन्तः प्रविश्य भूतानि भूतैर् अत्त्य् अखिलाश्रयः ।
स विष्ण्व्-आख्यो ऽधियज्ञो ऽसौ कालः कलयतां प्रभुः
न चास्य कश्चिद् दयितो न द्वेष्यो न च बान्धवः ।
आविशत्य् अप्रमत्तो ऽसौ प्रमत्तं जनम् अन्त-कृत्
यद्-भयाद् वाति वातो ऽयं सूर्यस् तपति यद्-भयात् ।
यद्-भयाद् वर्षते देवो भ-गणो भाति यद्-भयात्
यद् वनस्पतयो भीता लताश् चौषधिभिः सह ।
स्वे स्वे काले ऽभिगृह्णन्ति पुष्पाणि च फलानि च
स्रवन्ति सरितो भीता नोत्सर्पत्य् उदधिर् यतः ।
अग्निर् इन्धे स-गिरिभिर् भूर् न मज्जति यद्-भयात्
नभो ददाति श्वसतां पदं यन्-नियमाद् अदः ।
लोकं स्व-देहं तनुते महान् सप्तभिर् आवृतम्
गुणाभिमानिनो देवाः सर्गादिष्व् अस्य यद्-भयात् ।
वर्तन्ते ऽनुयुगं येषां वश एतच् चराचरम्
सो ऽनन्तो ऽन्त-करः कालो ऽनादिर् आदि-कृद् अव्ययः ।
जनं जनेन जनयन् मारयन् मृत्युनान्तकम्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0