भागवत पुराण · अध्याय 03.30
भ्प्_03.30.001।0 कपिल उवाच
तस्यैतस्य जनो नूनं नायं वेदोरु-विक्रमम् ।
काल्यमानो ऽपि बलिनो वायोर् इव घनावलिः
यं यम् अर्थम् उपादत्ते दुःखेन सुख-हेतवे ।
तं तं धुनोति भगवान् पुमान् छोचति यत्-कृते
यद् अध्रुवस्य देहस्य सानुबन्धस्य दुर्मतिः ।
ध्रुवाणि मन्यते मोहाद् गृह-क्षेत्र-वसूनि च
जन्तुर् वै भव एतस्मिन् यां यां योनिम् अनुव्रजेत् ।
तस्यां तस्यां स लभते निर्वृतिं न विरज्यते
नरक-स्थो ऽपि देहं वै न पुमांस् त्यक्तुम् इच्छति ।
नारक्यां निर्वृतौ सत्यां देव-माया-विमोहितः
आत्म-जाया-सुतागार- पशु-द्रविण-बन्धुषु ।
निरूढ-मूल-हृदय आत्मानं बहु मन्यते
सन्दह्यमान-सर्वाङ्ग एषाम् उद्वहनाधिना ।
करोत्य् अविरतं मूढो दुरितानि दुराशयः
आक्षिप्तात्मेन्द्रियः स्त्रीणाम् असतीनां च मायया ।
रहो रचितयालापैः शिशूनां कल-भाषिणाम्
गृहेषु कूट-धर्मेषु दुःख-तन्त्रेष्व् अतन्द्रितः ।
कुर्वन् दुःख-प्रतीकारं सुखवन् मन्यते गृही
अर्थैर् आपादितैर् गुर्व्या हिंसयेतस्-ततश् च तान् ।
पुष्णाति येषां पोषेण शेष-भुग् यात्य् अधः स्वयम्
वार्तायां लुप्यमानायाम् आरब्धायां पुनः पुनः ।
लोभाभिभूतो निःसत्त्वः परार्थे कुरुते स्पृहाम्
कुटुम्ब-भरणाकल्पो मन्द-भाग्यो वृथोद्यमः ।
श्रिया विहीनः कृपणो ध्यायन् छ्वसिति मूढ-धीः
एवं स्व-भरणाकल्पं तत्-कलत्रादयस् तथा ।
नाद्रियन्ते यथा पूर्वं कीनाशा इव गो-जरम्
तत्राप्य् अजात-निर्वेदो भ्रियमाणः स्वयम् भृतैः ।
जरयोपात्त-वैरूप्यो मरणाभिमुखो गृहे
आस्ते ऽवमत्योपन्यस्तं गृह-पाल इवाहरन् ।
आमयाव्य् अप्रदीप्ताग्निर् अल्पाहारो ऽल्प-चेष्टितः
वायुनोत्क्रमतोत्तारः कफ-संरुद्ध-नाडिकः ।
कास-श्वास-कृतायासः कण्ठे घुर-घुरायते
शयानः परिशोचद्भिः परिवीतः स्व-बन्धुभिः ।
वाच्यमानो ऽपि न ब्रूते काल-पाश-वशं गतः
एवं कुटुम्ब-भरणे व्यापृतात्माजितेन्द्रियः ।
म्रियते रुदतां स्वानाम् उरु-वेदनयास्त-धीः
यम-दूतौ तदा प्राप्तौ भीमौ सरभसेक्षणौ ।
स दृष्ट्वा त्रस्त-हृदयः शकृन्-मूत्रं विमुञ्चति
यातना-देह आवृत्य पाशैर् बद्ध्वा गले बलात् ।
नयतो दीर्घम् अध्वानं दण्ड्यं राज-भटा यथा
तयोर् निर्भिन्न-हृदयस् तर्जनैर् जात-वेपथुः ।
पथि श्वभिर् भक्ष्यमाण आर्तो ऽघं स्वम् अनुस्मरन्
क्षुत्-तृट्-परीतो ऽर्क-दवानलानिलैः सन्तप्यमानः पथि तप्त-वालुके ।
कृच्छ्रेण पृष्ठे कशया च ताडितश् चलत्य् अशक्तो ऽपि निराश्रमोदके
तत्र तत्र पतन् छ्रान्तो मूर्च्छितः पुनर् उत्थितः ।
पथा पापीयसा नीतस् तरसा यम-सादनम्
योजनानां सहस्राणि नवतिं नव चाध्वनः ।
त्रिभिर् मुहूर्तैर् द्वाभ्यां वा नीतः प्राप्नोति यातनाः
आदीपनं स्व-गात्राणां वेष्टयित्वोल्मुकादिभिः ।
आत्म-मांसादनं क्वापि स्व-कृत्तं परतो ऽपि वा
जीवतश् चान्त्राभ्युद्धारः श्व-गृध्रैर् यम-सादने ।
सर्प-वृश्चिक-दंशाद्यैर् दशद्भिश् चात्म-वैशसम्
कृन्तनं चावयवशो गजादिभ्यो भिदापनम् ।
पातनं गिरि-शृङ्गेभ्यो रोधनं चाम्बु-गर्तयोः
यास् तामिस्रान्ध-तामिस्रा रौरवाद्याश् च यातनाः ।
भुङ्क्ते नरो वा नारी वा मिथः सङ्गेन निर्मिताः
अत्रैव नरकः स्वर्ग इति मातः प्रचक्षते ।
या यातना वै नारक्यस् ता इहाप्य् उपलक्षिताः
एवं कुटुम्बं बिभ्राण उदरम् भर एव वा ।
विसृज्येहोभयं प्रेत्य भुङ्क्ते तत्-फलम् ईदृशम्
एकः प्रपद्यते ध्वान्तं हित्वेदं स्व-कलेवरम् ।
कुशलेतर-पाथेयो भूत-द्रोहेण यद् भृतम्
दैवेनासादितं तस्य शमलं निरये पुमान् ।
भुङ्क्ते कुटुम्ब-पोषस्य हृत-वित्त इवातुरः
केवलेन ह्य् अधर्मेण कुटुम्ब-भरणोत्सुकः ।
याति जीवो ऽन्ध-तामिस्रं चरमं तमसः पदम्
अधस्तान् नर-लोकस्य यावतीर् यातनादयः ।
क्रमशः समनुक्रम्य पुनर् अत्राव्रजेच् छुचिः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0