भागवत पुराण · अध्याय 03.28
भ्प्_03.28.001।0 श्री-भगवान् उवाच
योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे ।
मनो येनैव विधिना प्रसन्नं याति सत्-पथम्
स्व-धर्माचरणं शक्त्या विधर्माच् च निवर्तनम् ।
दैवाल् लब्धेन सन्तोष आत्मविच्-चरणार्चनम्
ग्राम्य-धर्म-निवृत्तिश् च मोक्ष-धर्म-रतिस् तथा ।
मित-मेध्यादनं शश्वद् विविक्त-क्षेम-सेवनम्
अहिंसा सत्यम् अस्तेयं यावद्-अर्थ-परिग्रहः ।
ब्रह्मचर्यं तपः शौचं स्वाध्यायः पुरुषार्चनम्
मौनं सद्-आसन-जयः स्थैर्यं प्राण-जयः शनैः ।
प्रत्याहारश् चेन्द्रियाणां विषयान् मनसा हृदि
स्व-धिष्ण्यानाम् एक-देशे मनसा प्राण-धारणम् ।
वैकुण्ठ-लीलाभिध्यानं समाधानं तथात्मनः
एतैर् अन्यैश् च पथिभिर् मनो दुष्टम् असत्-पथम् ।
बुद्ध्या युञ्जीत शनकैर् जित-प्राणो ह्य् अतन्द्रितः
शुचौ देशे प्रतिष्ठाप्य विजितासन आसनम् ।
तस्मिन् स्वस्ति समासीन ऋजु-कायः समभ्यसेत्
प्राणस्य शोधयेन् मार्गं पूर-कुम्भक-रेचकैः ।
प्रतिकूलेन वा चित्तं यथा स्थिरम् अचञ्चलम्
मनो ऽचिरात् स्याद् विरजं जित-श्वासस्य योगिनः ।
वाय्व्-अग्निभ्यां यथा लोहं ध्मातं त्यजति वै मलम्
प्राणायामैर् दहेद् दोषान् धारणाभिश् च किल्बिषान् ।
प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान्
यदा मनः स्वं विरजं योगेन सुसमाहितम् ।
काष्ठां भगवतो ध्यायेत् स्व-नासाग्रावलोकनः
प्रसन्न-वदनाम्भोजं पद्म-गर्भारुणेक्षणम् ।
नीलोत्पल-दल-श्यामं शङ्ख-चक्र-गदा-धरम्
लसत्-पङ्कज-किञ्जल्क- पीत-कौशेय-वाससम् ।
श्रीवत्स-वक्षसं भ्राजत् कौस्तुभामुक्त-कन्धरम्
मत्त-द्विरेफ-कलया परीतं वन-मालया ।
परार्ध्य-हार-वलय- किरीटाङ्गद-नूपुरम्
काञ्ची-गुणोल्लसच्-छ्रोणिं हृदयाम्भोज-विष्टरम् ।
दर्शनीयतमं शान्तं मनो-नयन-वर्धनम्
अपीच्य-दर्शनं शश्वत् सर्व-लोक-नमस्कृतम् ।
सन्तं वयसि कैशोरे भृत्यानुग्रह-कातरम्
कीर्तन्य-तीर्थ-यशसं पुण्य-श्लोक-यशस्करम् ।
ध्यायेद् देवं समग्राङ्गं यावन् न च्यवते मनः
स्थितं व्रजन्तम् आसीनं शयानं वा गुहाशयम् ।
प्रेक्षणीयेहितं ध्यायेच् छुद्ध-भावेन चेतसा
तस्मिन् लब्ध-पदं चित्तं सर्वावयव-संस्थितम् ।
विलक्ष्यैकत्र संयुज्याद् अङ्गे भगवतो मुनिः
सञ्चिन्तयेद् भगवतश् चरणारविन्दं $ वज्राङ्कुश-ध्वज-सरोरुह-लाञ्छनाढ्यम् &अम्प्;
उत्तुङ्ग-रक्त-विलसन्-नख-चक्रवाल- % ज्योत्स्नाभिर् आहत-महद्-धृदयान्धकारम् ॥ भ्प्_03.28.021* ॥
यच्-छौच-निःसृत-सरित्-प्रवरोदकेन $ तीर्थेन मूर्ध्न्य् अधिकृतेन शिवः शिवो ऽभूत् &
यच्-छौच-निःसृत-सरित्-प्रवरोदकेन $ तीर्थेन मूर्ध्न्य् अधिकृतेन शिवः शिवो ऽभूत् &
ध्यातुर् मनः-शमल-शैल-निसृष्ट-वज्रं % ध्यायेच् चिरं भगवतश् चरणारविन्दम् ॥ भ्प्_03.28.022* ॥
जानु-द्वयं जलज-लोचनया जनन्या $ लक्ष्म्याखिलस्य सुर-वन्दितया विधातुः &
जानु-द्वयं जलज-लोचनया जनन्या $ लक्ष्म्याखिलस्य सुर-वन्दितया विधातुः &
ऊर्वोर् निधाय कर-पल्लव-रोचिषा यत् % संलालितं हृदि विभोर् अभवस्य कुर्यात् ॥ भ्प्_03.28.023* ॥
ऊरू सुपर्ण-भुजयोर् अधि शोभमानाव् $ ओजो-निधी अतसिका-कुसुमावभासौ &
ऊरू सुपर्ण-भुजयोर् अधि शोभमानाव् $ ओजो-निधी अतसिका-कुसुमावभासौ &
व्यालम्बि-पीत-वर-वाससि वर्तमान- % काञ्ची-कलाप-परिरम्भि नितम्ब-बिम्बम् ॥ भ्प्_03.28.024* ॥
नाभि-ह्रदं भुवन-कोश-गुहोदर-स्थं $ यत्रात्म-योनि-धिषणाखिल-लोक-पद्मम् &
नाभि-ह्रदं भुवन-कोश-गुहोदर-स्थं $ यत्रात्म-योनि-धिषणाखिल-लोक-पद्मम् &
व्यूढं हरिन्-मणि-वृष-स्तनयोर् अमुष्य % ध्यायेद् द्वयं विशद-हार-मयूख-गौरम् ॥ भ्प्_03.28.025* ॥
वक्षो ऽधिवासम् ऋषभस्य महा-विभूतेः $ पुंसां मनो-नयन-निर्वृतिम् आदधानम् &
वक्षो ऽधिवासम् ऋषभस्य महा-विभूतेः $ पुंसां मनो-नयन-निर्वृतिम् आदधानम् &
कण्ठं च कौस्तुभ-मणेर् अधिभूषणार्थं % कुर्यान् मनस्य् अखिल-लोक-नमस्कृतस्य ॥ भ्प्_03.28.026* ॥
बाहूंश् च मन्दर-गिरेः परिवर्तनेन $ निर्णिक्त-बाहु-वलयान् अधिलोक-पालान् &
बाहूंश् च मन्दर-गिरेः परिवर्तनेन $ निर्णिक्त-बाहु-वलयान् अधिलोक-पालान् &
सञ्चिन्तयेद् दश-शतारम् असह्य-तेजः % शङ्खं च तत्-कर-सरोरुह-राज-हंसम् ॥ भ्प्_03.28.027* ॥
कौमोदकीं भगवतो दयितां स्मरेत $ दिग्धाम् अराति-भट-शोणित-कर्दमेन &
कौमोदकीं भगवतो दयितां स्मरेत $ दिग्धाम् अराति-भट-शोणित-कर्दमेन &
मालां मधुव्रत-वरूथ-गिरोपघुष्टां % चैत्यस्य तत्त्वम् अमलं मणिम् अस्य कण्ठे ॥ भ्प्_03.28.028* ॥
भृत्यानुकम्पित-धियेह गृहीत-मूर्तेः $ सञ्चिन्तयेद् भगवतो वदनारविन्दम् &
भृत्यानुकम्पित-धियेह गृहीत-मूर्तेः $ सञ्चिन्तयेद् भगवतो वदनारविन्दम् &
यद् विस्फुरन्-मकर-कुण्डल-वल्गितेन % विद्योतितामल-कपोलम् उदार-नासम् ॥ भ्प्_03.28.029* ॥
यच् छ्री-निकेतम् अलिभिः परिसेव्यमानं $ भूत्या स्वया कुटिल-कुन्तल-वृन्द-जुष्टम् &
यच् छ्री-निकेतम् अलिभिः परिसेव्यमानं $ भूत्या स्वया कुटिल-कुन्तल-वृन्द-जुष्टम् &
मीन-द्वयाश्रयम् अधिक्षिपद् अब्ज-नेत्रं % ध्यायेन् मनोमयम् अतन्द्रित उल्लसद्-भ्रु ॥ भ्प्_03.28.030* ॥
तस्यावलोकम् अधिकं कृपयातिघोर- $ ताप-त्रयोपशमनाय निसृष्टम् अक्ष्णोः &
तस्यावलोकम् अधिकं कृपयातिघोर- $ ताप-त्रयोपशमनाय निसृष्टम् अक्ष्णोः &
स्निग्ध-स्मितानुगुणितं विपुल-प्रसादं % ध्यायेच् चिरं विपुल-भावनया गुहायाम् ॥ भ्प्_03.28.031* ॥
हासं हरेर् अवनताखिल-लोक-तीव्र- $ शोकाश्रु-सागर-विशोषणम् अत्युदारम् &
हासं हरेर् अवनताखिल-लोक-तीव्र- $ शोकाश्रु-सागर-विशोषणम् अत्युदारम् &
सम्मोहनाय रचितं निज-माययास्य % भ्रू-मण्डलं मुनि-कृते मकर-ध्वजस्य ॥ भ्प्_03.28.032* ॥
ध्यानायनं प्रहसितं बहुलाधरोष्ठ- $ भासारुणायित-तनु-द्विज-कुन्द-पङ्क्ति &
ध्यानायनं प्रहसितं बहुलाधरोष्ठ- $ भासारुणायित-तनु-द्विज-कुन्द-पङ्क्ति &
ध्यायेत् स्वदेह-कुहरे ऽवसितस्य विष्णोर् % भक्त्यार्द्रयार्पित-मना न पृथग् दिदृक्षेत् ॥ भ्प्_03.28.033* ॥
एवं हरौ भगवति प्रतिलब्ध-भावो $ भक्त्या द्रवद्-धृदय उत्पुलकः प्रमोदात् &
एवं हरौ भगवति प्रतिलब्ध-भावो $ भक्त्या द्रवद्-धृदय उत्पुलकः प्रमोदात् &
औत्कण्ठ्य-बाष्प-कलया मुहुर् अर्द्यमानस् % तच् चापि चित्त-बडिशं शनकैर् वियुङ्क्ते ॥ भ्प्_03.28.034* ॥
मुक्ताश्रयं यर्हि निर्विषयं विरक्तं $ निर्वाणम् ऋच्छति मनः सहसा यथार्चिः &
मुक्ताश्रयं यर्हि निर्विषयं विरक्तं $ निर्वाणम् ऋच्छति मनः सहसा यथार्चिः &
आत्मानम् अत्र पुरुषो ऽव्यवधानम् एकम् % अन्वीक्षते प्रतिनिवृत्त-गुण-प्रवाहः ॥ भ्प्_03.28.035* ॥
सो ऽप्य् एतया चरमया मनसो निवृत्त्या $ तस्मिन् महिम्न्य् अवसितः सुख-दुःख-बाह्ये &
सो ऽप्य् एतया चरमया मनसो निवृत्त्या $ तस्मिन् महिम्न्य् अवसितः सुख-दुःख-बाह्ये &
हेतुत्वम् अप्य् असति कर्तरि दुःखयोर् यत् % स्वात्मन् विधत्त उपलब्ध-परात्म-काष्ठः ॥ भ्प्_03.28.036* ॥
देहं च तं न चरमः स्थितम् उत्थितं वा $ सिद्धो विपश्यति यतो ऽध्यगमत् स्वरूपम् &
देहं च तं न चरमः स्थितम् उत्थितं वा $ सिद्धो विपश्यति यतो ऽध्यगमत् स्वरूपम् &
दैवाद् उपेतम् अथ दैव-वशाद् अपेतं % वासो यथा परिकृतं मदिरा-मदान्धः ॥ भ्प्_03.28.037* ॥
देहो ऽपि दैव-वशगः खलु कर्म यावत् $ स्वारम्भकं प्रतिसमीक्षत एव सासुः &
देहो ऽपि दैव-वशगः खलु कर्म यावत् $ स्वारम्भकं प्रतिसमीक्षत एव सासुः &
तं स-प्रपञ्चम् अधिरूढ-समाधि-योगः % स्वाप्नं पुनर् न भजते प्रतिबुद्ध-वस्तुः ॥ भ्प्_03.28.038* ॥
यथा पुत्राच् च वित्ताच् च पृथङ् मर्त्यः प्रतीयते ।
अप्य् आत्मत्वेनाभिमताद् देहादेः पुरुषस् तथा
यथोल्मुकाद् विस्फुलिङ्गाद् धूमाद् वापि स्व-सम्भवात् ।
अप्य् आत्मत्वेनाभिमताद् यथाग्निः पृथग् उल्मुकात्
भूतेन्द्रियान्तः-करणात् प्रधानाज् जीव-संज्ञितात् ।
आत्मा तथा पृथग् द्रष्टा भगवान् ब्रह्म-संज्ञितः
सर्व-भूतेषु चात्मानं सर्व-भूतानि चात्मनि ।
ईक्षेतानन्य-भावेन भूतेष्व् इव तद्-आत्मताम्
स्व-योनिषु यथा ज्योतिर् एकं नाना प्रतीयते ।
योनीनां गुण-वैषम्यात् तथात्मा प्रकृतौ स्थितः
तस्माद् इमां स्वां प्रकृतिं दैवीं सद्-असद्-आत्मिकाम् ।
दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0