भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 03.26

03.26.001

भ्प्_03.26.001।0 श्री-भगवान् उवाच
अथ ते सम्प्रवक्ष्यामि तत्त्वानां लक्षणं पृथक् ।
यद् विदित्वा विमुच्येत पुरुषः प्राकृतैर् गुणैः

03.26.002

ज्ञानं निःश्रेयसार्थाय पुरुषस्यात्म-दर्शनम् ।
यद् आहुर् वर्णये तत् ते हृदय-ग्रन्थि-भेदनम्

03.26.003

अनादिर् आत्मा पुरुषो निर्गुणः प्रकृतेः परः ।
प्रत्यग्-धामा स्वयं-ज्योतिर् विश्वं येन समन्वितम्

03.26.004

स एष प्रकृतिं सूक्ष्मां दैवीं गुणमयीं विभुः ।
यदृच्छयैवोपगताम् अभ्यपद्यत लीलया

03.26.005

गुणैर् विचित्राः सृजतीं स-रूपाः प्रकृतिं प्रजाः ।
विलोक्य मुमुहे सद्यः स इह ज्ञान-गूहया

03.26.006

एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान् ।
कर्मसु क्रियमाणेषु गुणैर् आत्मनि मन्यते

03.26.007

तद् अस्य संसृतिर् बन्धः पार-तन्त्र्यं च तत्-कृतम् ।
भवत्य् अकर्तुर् ईशस्य साक्षिणो निर्वृतात्मनः

03.26.008

कार्य-कारण-कर्तृत्वे कारणं प्रकृतिं विदुः ।
भोक्तृत्वे सुख-दुःखानां पुरुषं प्रकृतेः परम्

03.26.009

भ्प्_03.26.009।0 देवहूतिर् उवाच
प्रकृतेः पुरुषस्यापि लक्षणं पुरुषोत्तम ।
ब्रूहि कारणयोर् अस्य सद्-असच् च यद्-आत्मकम्

03.26.010

भ्प्_03.26.010।0 श्री-भगवान् उवाच
यत् तत् त्रि-गुणम् अव्यक्तं नित्यं सद्-असद्-आत्मकम् ।
प्रधानं प्रकृतिं प्राहुर् अविशेषं विशेषवत्

03.26.011

पञ्चभिः पञ्चभिर् ब्रह्म चतुर्भिर् दशभिस् तथा ।
एतच् चतुर्-विंशतिकं गणं प्राधानिकं विदुः

03.26.012

महा-भूतानि पञ्चैव भूर् आपो ऽग्निर् मरुन् नभः ।
तन्-मात्राणि च तावन्ति गन्धादीनि मतानि मे

03.26.013

इन्द्रियाणि दश श्रोत्रं त्वग् दृग् रसन-नासिकाः ।
वाक् करौ चरणौ मेढ्रं पायुर् दशम उच्यते

03.26.014

मनो बुद्धिर् अहङ्कारश् चित्तम् इत्य् अन्तर्-आत्मकम् ।
चतुर्धा लक्ष्यते भेदो वृत्त्या लक्षण-रूपया

03.26.015

एतावान् एव सङ्ख्यातो ब्रह्मणः स-गुणस्य ह ।
सन्निवेशो मया प्रोक्तो यः कालः पञ्च-विंशकः

03.26.016

प्रभावं पौरुषं प्राहुः कालम् एके यतो भयम् ।
अहङ्कार-विमूढस्य कर्तुः प्रकृतिम् ईयुषः

03.26.017

प्रकृतेर् गुण-साम्यस्य निर्विशेषस्य मानवि ।
चेष्टा यतः स भगवान् काल इत्य् उपलक्षितः

03.26.018

अन्तः पुरुष-रूपेण काल-रूपेण यो बहिः ।
समन्वेत्य् एष सत्त्वानां भगवान् आत्म-मायया

03.26.019

दैवात् क्षुभित-धर्मिण्यां स्वस्यां योनौ परः पुमान् ।
आधत्त वीर्यं सासूत महत्-तत्त्वं हिरण्मयम्

03.26.020

विश्वम् आत्म-गतं व्यञ्जन् कूट-स्थो जगद्-अङ्कुरः ।
स्व-तेजसापिबत् तीव्रम् आत्म-प्रस्वापनं तमः

03.26.021

यत् तत् सत्त्व-गुणं स्वच्छं शान्तं भगवतः पदम् ।
यद् आहुर् वासुदेवाख्यं चित्तं तन् महद्-आत्मकम्

03.26.022

स्वच्छत्वम् अविकारित्वं शान्तत्वम् इति चेतसः ।
वृत्तिभिर् लक्षणं प्रोक्तं यथापां प्रकृतिः परा

03.26.023

महत्-तत्त्वाद् विकुर्वाणाद् भगवद्-वीर्य-सम्भवात् ।
क्रिया-शक्तिर् अहङ्कारस् त्रि-विधः समपद्यत

03.26.024

वैकारिकस् तैजसश् च तामसश् च यतो भवः ।
मनसश् चेन्द्रियाणां च भूतानां महताम् अपि

03.26.025

सहस्र-शिरसं साक्षाद् यम् अनन्तं प्रचक्षते ।
सङ्कर्षणाख्यं पुरुषं भूतेन्द्रिय-मनोमयम्

03.26.026

कर्तृत्वं करणत्वं च कार्यत्वं चेति लक्षणम् ।
शान्त-घोर-विमूढत्वम् इति वा स्याद् अहङ्कृतेः

03.26.027

वैकारिकाद् विकुर्वाणान् मनस्-तत्त्वम् अजायत ।
यत्-सङ्कल्प-विकल्पाभ्यां वर्तते काम-सम्भवः

03.26.028

यद् विदुर् ह्य् अनिरुद्धाख्यं हृषीकाणाम् अधीश्वरम् ।
शारदेन्दीवर-श्यामं संराध्यं योगिभिः शनैः

03.26.029

तैजसात् तु विकुर्वाणाद् बुद्धि-तत्त्वम् अभूत् सति ।
द्रव्य-स्फुरण-विज्ञानम् इन्द्रियाणाम् अनुग्रहः

03.26.030

संशयो ऽथ विपर्यासो निश्चयः स्मृतिर् एव च ।
स्वाप इत्य् उच्यते बुद्धेर् लक्षणं वृत्तितः पृथक्

03.26.031

तैजसानीन्द्रियाण्य् एव क्रिया-ज्ञान-विभागशः ।
प्राणस्य हि क्रिया-शक्तिर् बुद्धेर् विज्ञान-शक्तिता

03.26.032

तामसाच् च विकुर्वाणाद् भगवद्-वीर्य-चोदितात् ।
शब्द-मात्रम् अभूत् तस्मान् नभः श्रोत्रं तु शब्दगम्

03.26.033

अर्थाश्रयत्वं शब्दस्य द्रष्टुर् लिङ्गत्वम् एव च ।
तन्-मात्रत्वं च नभसो लक्षणं कवयो विदुः

03.26.034

भूतानां छिद्र-दातृत्वं बहिर् अन्तरम् एव च ।
प्राणेन्द्रियात्म-धिष्ण्यत्वं नभसो वृत्ति-लक्षणम्

03.26.035

नभसः शब्द-तन्मात्रात् काल-गत्या विकुर्वतः ।
स्पर्शो ऽभवत् ततो वायुस् त्वक् स्पर्शस्य च सङ्ग्रहः

03.26.036

मृदुत्वं कठिनत्वं च शैत्यम् उष्णत्वम् एव च ।
एतत् स्पर्शस्य स्पर्शत्वं तन्-मात्रत्वं नभस्वतः

03.26.037

चालनं व्यूहनं प्राप्तिर् नेतृत्वं द्रव्य-शब्दयोः ।
सर्वेन्द्रियाणाम् आत्मत्वं वायोः कर्माभिलक्षणम्

03.26.038

वायोश् च स्पर्श-तन्मात्राद् रूपं दैवेरिताद् अभूत् ।
समुत्थितं ततस् तेजश् चक्षू रूपोपलम्भनम्

03.26.039

द्रव्याकृतित्वं गुणता व्यक्ति-संस्थात्वम् एव च ।
तेजस्त्वं तेजसः साध्वि रूप-मात्रस्य वृत्तयः

03.26.040

द्योतनं पचनं पानम् अदनं हिम-मर्दनम् ।
तेजसो वृत्तयस् त्व् एताः शोषणं क्षुत् तृड् एव च

03.26.041

रूप-मात्राद् विकुर्वाणात् तेजसो दैव-चोदितात् ।
रस-मात्रम् अभूत् तस्माद् अम्भो जिह्वा रस-ग्रहः

03.26.042

कषायो मधुरस् तिक्तः कट्व् अम्ल इति नैकधा ।
भौतिकानां विकारेण रस एको विभिद्यते

03.26.043

क्लेदनं पिण्डनं तृप्तिः प्राणनाप्यायनोन्दनम् ।
तापापनोदो भूयस्त्वम् अम्भसो वृत्तयस् त्व् इमाः

03.26.044

रस-मात्राद् विकुर्वाणाद् अम्भसो दैव-चोदितात् ।
गन्ध-मात्रम् अभूत् तस्मात् पृथ्वी घ्राणस् तु गन्धगः

03.26.045

करम्भ-पूति-सौरभ्य- शान्तोग्राम्लादिभिः पृथक् ।
द्रव्यावयव-वैषम्याद् गन्ध एको विभिद्यते

03.26.046

भावनं ब्रह्मणः स्थानं धारणं सद्-विशेषणम् ।
सर्व-सत्त्व-गुणोद्भेदः पृथिवी-वृत्ति-लक्षणम्

03.26.047

नभो-गुण-विशेषो ऽर्थो यस्य तच् छ्रोत्रम् उच्यते ।
वायोर् गुण-विशेषो ऽर्थो यस्य तत् स्पर्शनं विदुः

03.26.048

तेजो-गुण-विशेषो ऽर्थो यस्य तच् चक्षुर् उच्यते ।
अम्भो-गुण-विशेषो ऽर्थो यस्य तद् रसनं विदुः ।
भूमेर् गुण-विशेषो ऽर्थो यस्य स घ्राण उच्यते

03.26.049

परस्य दृश्यते धर्मो ह्य् अपरस्मिन् समन्वयात् ।
अतो विशेषो भावानां भूमाव् एवोपलक्ष्यते

03.26.050

एतान्य् असंहत्य यदा महद्-आदीनि सप्त वै ।
काल-कर्म-गुणोपेतो जगद्-आदिर् उपाविशत्

03.26.051

ततस् तेनानुविद्धेभ्यो युक्तेभ्यो ऽण्डम् अचेतनम् ।
उत्थितं पुरुषो यस्माद् उदतिष्ठद् असौ विराट्

03.26.052

एतद् अण्डं विशेषाख्यं क्रम-वृद्धैर् दशोत्तरैः ।
तोयादिभिः परिवृतं प्रधानेनावृतैर् बहिः ।
यत्र लोक-वितानो ऽयं रूपं भगवतो हरेः

03.26.053

हिरण्मयाद् अण्ड-कोशाद् उत्थाय सलिले शयात् ।
तम् आविश्य महा-देवो बहुधा निर्बिभेद खम्

03.26.054

निरभिद्यतास्य प्रथमं मुखं वाणी ततो ऽभवत् ।
वाण्या वह्निर् अथो नासे प्राणोतो घ्राण एतयोः

03.26.055

घ्राणाद् वायुर् अभिद्येताम् अक्षिणी चक्षुर् एतयोः ।
तस्मात् सूर्यो न्यभिद्येतां कर्णौ श्रोत्रं ततो दिशः

03.26.056

निर्बिभेद विराजस् त्वग्- रोम-श्मश्र्व्-आदयस् ततः ।
तत ओषधयश् चासन् शिश्नं निर्बिभिदे ततः

03.26.057

रेतस् तस्माद् आप आसन् निरभिद्यत वै गुदम् ।
गुदाद् अपानो ऽपानाच् च मृत्युर् लोक-भयङ्करः

03.26.058

हस्तौ च निरभिद्येतां बलं ताभ्यां ततः स्वराट् ।
पादौ च निरभिद्येतां गतिस् ताभ्यां ततो हरिः

03.26.059

नाड्यो ऽस्य निरभिद्यन्त ताभ्यो लोहितम् आभृतम् ।
नद्यस् ततः समभवन्न् उदरं निरभिद्यत

03.26.060

क्षुत्-पिपासे ततः स्यातां समुद्रस् त्व् एतयोर् अभूत् ।
अथास्य हृदयं भिन्नं हृदयान् मन उत्थितम्

03.26.061

मनसश् चन्द्रमा जातो बुद्धिर् बुद्धेर् गिरां पतिः ।
अहङ्कारस् ततो रुद्रश् चित्तं चैत्यस् ततो ऽभवत्

03.26.062

एते ह्य् अभ्युत्थिता देवा नैवास्योत्थापने ऽशकन् ।
पुनर् आविविशुः खानि तम् उत्थापयितुं क्रमात्

03.26.063

वह्निर् वाचा मुखं भेजे नोदतिष्ठत् तदा विराट् ।
घ्राणेन नासिके वायुर् नोदतिष्ठत् तदा विराट्

03.26.064

अक्षिणी चक्षुषादित्यो नोदतिष्ठत् तदा विराट् ।
श्रोत्रेण कर्णौ च दिशो नोदतिष्ठत् तदा विराट्

03.26.065

त्वचं रोमभिर् ओषध्यो नोदतिष्ठत् तदा विराट् ।
रेतसा शिश्नम् आपस् तु नोदतिष्ठत् तदा विराट्

03.26.066

गुदं मृत्युर् अपानेन नोदतिष्ठत् तदा विराट् ।
हस्ताव् इन्द्रो बलेनैव नोदतिष्ठत् तदा विराट्

03.26.067

विष्णुर् गत्यैव चरणौ नोदतिष्ठत् तदा विराट् ।
नाडीर् नद्यो लोहितेन नोदतिष्ठत् तदा विराट्

03.26.068

क्षुत्-तृड्भ्याम् उदरं सिन्धुर् नोदतिष्ठत् तदा विराट् ।
हृदयं मनसा चन्द्रो नोदतिष्ठत् तदा विराट्

03.26.069

बुद्ध्या ब्रह्मापि हृदयं नोदतिष्ठत् तदा विराट् ।
रुद्रो ऽभिमत्या हृदयं नोदतिष्ठत् तदा विराट्

03.26.070

चित्तेन हृदयं चैत्यः क्षेत्र-ज्ञः प्राविशद् यदा ।
विराट् तदैव पुरुषः सलिलाद् उदतिष्ठत

03.26.071

यथा प्रसुप्तं पुरुषं प्राणेन्द्रिय-मनो-धियः ।
प्रभवन्ति विना येन नोत्थापयितुम् ओजसा

03.26.072

तम् अस्मिन् प्रत्यग्-आत्मानं धिया योग-प्रवृत्तया ।
भक्त्या विरक्त्या ज्ञानेन विविच्यात्मनि चिन्तयेत्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc