भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 03.25

03.25.001

भ्प्_03.25.001।0 शौनक उवाच
कपिलस् तत्त्व-सङ्ख्याता भगवान् आत्म-मायया ।
जातः स्वयम् अजः साक्षाद् आत्म-प्रज्ञप्तये नृणाम्

03.25.002

न ह्य् अस्य वर्ष्मणः पुंसां वरिम्णः सर्व-योगिनाम् ।
विश्रुतौ श्रुत-देवस्य भूरि तृप्यन्ति मे ऽसवः

03.25.003

यद् यद् विधत्ते भगवान् स्वच्छन्दात्मात्म-मायया ।
तानि मे श्रद्दधानस्य कीर्तन्यान्य् अनुकीर्तय

03.25.004

भ्प्_03.25.004।0 सूत उवाच
द्वैपायन-सखस् त्व् एवं मैत्रेयो भगवांस् तथा ।
प्राहेदं विदुरं प्रीत आन्वीक्षिक्यां प्रचोदितः

03.25.005

भ्प्_03.25.005।0 मैत्रेय उवाच
पितरि प्रस्थिते ऽरण्यं मातुः प्रिय-चिकीर्षया ।
तस्मिन् बिन्दुसरे ऽवात्सीद् भगवान् कपिलः किल

03.25.006

तम् आसीनम् अकर्माणं तत्त्व-मार्गाग्र-दर्शनम् ।
स्व-सुतं देवहूत्य् आह धातुः संस्मरती वचः

03.25.007

भ्प्_03.25.007।0 देवहूतिर् उवाच
निर्विण्णा नितरां भूमन्न् असद्-इन्द्रिय-तर्षणात् ।
येन सम्भाव्यमानेन प्रपन्नान्धं तमः प्रभो

03.25.008

तस्य त्वं तमसो ऽन्धस्य दुष्पारस्याद्य पारगम् ।
सच्-चक्षुर् जन्मनाम् अन्ते लब्धं मे त्वद्-अनुग्रहात्

03.25.009

य आद्यो भगवान् पुंसाम् ईश्वरो वै भवान् किल ।
लोकस्य तमसान्धस्य चक्षुः सूर्य इवोदितः

03.25.010

अथ मे देव सम्मोहम् अपाक्रष्टुं त्वम् अर्हसि ।
यो ऽवग्रहो ऽहं ममेतीत्य् एतस्मिन् योजितस् त्वया

03.25.011

तं त्वा गताहं शरणं शरण्यं स्व-भृत्य-संसार-तरोः कुठारम् ।
जिज्ञासयाहं प्रकृतेः पूरुषस्य नमामि सद्-धर्म-विदां वरिष्ठम्

03.25.012

भ्प्_03.25.012।0 मैत्रेय उवाच
इति स्व-मातुर् निरवद्यम् ईप्सितं निशम्य पुंसाम् अपवर्ग-वर्धनम् ।
धियाभिनन्द्यात्मवतां सतां गतिर् बभाष ईषत्-स्मित-शोभिताननः

03.25.013

भ्प्_03.25.013।0 श्री-भगवान् उवाच
योग आध्यात्मिकः पुंसां मतो निःश्रेयसाय मे ।
अत्यन्तोपरतिर् यत्र दुःखस्य च सुखस्य च

03.25.014

तम् इमं ते प्रवक्ष्यामि यम् अवोचं पुरानघे ।
ऋषीणां श्रोतु-कामानां योगं सर्वाङ्ग-नैपुणम्

03.25.015

चेतः खल्व् अस्य बन्धाय मुक्तये चात्मनो मतम् ।
गुणेषु सक्तं बन्धाय रतं वा पुंसि मुक्तये

03.25.016

अहं ममाभिमानोत्थैः काम-लोभादिभिर् मलैः ।
वीतं यदा मनः शुद्धम् अदुःखम् असुखं समम्

03.25.017

तदा पुरुष आत्मानं केवलं प्रकृतेः परम् ।
निरन्तरं स्वयं-ज्योतिर् अणिमानम् अखण्डितम्

03.25.018

ज्ञान-वैराग्य-युक्तेन भक्ति-युक्तेन चात्मना ।
परिपश्यत्य् उदासीनं प्रकृतिं च हतौजसम्

03.25.019

न युज्यमानया भक्त्या भगवत्य् अखिलात्मनि ।
सदृशो ऽस्ति शिवः पन्था योगिनां ब्रह्म-सिद्धये

03.25.020

प्रसङ्गम् अजरं पाशम् आत्मनः कवयो विदुः ।
स एव साधुषु कृतो मोक्ष-द्वारम् अपावृतम्

03.25.021

तितिक्षवः कारुणिकाः सुहृदः सर्व-देहिनाम् ।
अजात-शत्रवः शान्ताः साधवः साधु-भूषणाः

03.25.022

मय्य् अनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम् ।
मत्-कृते त्यक्त-कर्माणस् त्यक्त-स्वजन-बान्धवाः

03.25.023

मद्-आश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च ।
तपन्ति विविधास् तापा नैतान् मद्-गत-चेतसः

03.25.024

त एते साधवः साध्वि सर्व-सङ्ग-विवर्जिताः ।
सङ्गस् तेष्व् अथ ते प्रार्थ्यः सङ्ग-दोष-हरा हि ते

03.25.025

सतां प्रसङ्गान् मम वीर्य-संविदो भवन्ति हृत्-कर्ण-रसायनाः कथाः ।
तज्-जोषणाद् आश्व् अपवर्ग-वर्त्मनि श्रद्धा रतिर् भक्तिर् अनुक्रमिष्यति

03.25.026

भक्त्या पुमान् जात-विराग ऐन्द्रियाद् दृष्ट-श्रुतान् मद्-रचनानुचिन्तया ।
चित्तस्य यत्तो ग्रहणे योग-युक्तो यतिष्यते ऋजुभिर् योग-मार्गैः

03.25.027

असेवयायं प्रकृतेर् गुणानां ज्ञानेन वैराग्य-विजृम्भितेन ।
योगेन मय्य् अर्पितया च भक्त्या मां प्रत्यग्-आत्मानम् इहावरुन्धे

03.25.028

भ्प्_03.25.028।0 देवहूतिर् उवाच
काचित् त्वय्य् उचिता भक्तिः कीदृशी मम गोचरा ।
यया पदं ते निर्वाणम् अञ्जसान्वाश्नवा अहम्

03.25.029

यो योगो भगवद्-बाणो निर्वाणात्मंस् त्वयोदितः ।
कीदृशः कति चाङ्गानि यतस् तत्त्वावबोधनम्

03.25.030

तद् एतन् मे विजानीहि यथाहं मन्द-धीर् हरे ।
सुखं बुद्ध्येय दुर्बोधं योषा भवद्-अनुग्रहात्

03.25.031

भ्प्_03.25.031।0 मैत्रेय उवाच
विदित्वार्थं कपिलो मातुर् इत्थं जात-स्नेहो यत्र तन्वाभिजातः ।
तत्त्वाम्नायं यत् प्रवदन्ति साङ्ख्यं प्रोवाच वै भक्ति-वितान-योगम्

03.25.032

भ्प्_03.25.032।0 श्री-भगवान् उवाच
देवानां गुण-लिङ्गानाम् आनुश्रविक-कर्मणाम् ।
सत्त्व एवैक-मनसो वृत्तिः स्वाभाविकी तु या

03.25.034

अनिमित्ता भागवती भक्तिः सिद्धेर् गरीयसी ।
जरयत्य् आशु या कोशं निगीर्णम् अनलो यथा

03.25.035

नैकात्मतां मे स्पृहयन्ति केचिन् मत्-पाद-सेवाभिरता मद्-ईहाः ।
ये ऽन्योन्यतो भागवताः प्रसज्य सभाजयन्ते मम पौरुषाणि

03.25.036

पश्यन्ति ते मे रुचिराण्य् अम्ब सन्तः प्रसन्न-वक्त्रारुण-लोचनानि ।
रूपाणि दिव्यानि वर-प्रदानि साकं वाचं स्पृहणीयां वदन्ति

03.25.037

तैर् दर्शनीयावयवैर् उदार- विलास-हासेक्षित-वाम-सूक्तैः ।
हृतात्मनो हृत-प्राणांश् च भक्तिर् अनिच्छतो मे गतिम् अण्वीं प्रयुङ्क्ते

03.25.038

अथो विभूतिं मम मायाविनस् ताम् ऐश्वर्यम् अष्टाङ्गम् अनुप्रवृत्तम् ।
श्रियं भागवतीं वास्पृहयन्ति भद्रां परस्य मे ते ऽश्नुवते तु लोके

03.25.039

न कर्हिचिन् मत्-पराः शान्त-रूपे नङ्क्ष्यन्ति नो मे ऽनिमिषो लेढि हेतिः ।
येषाम् अहं प्रिय आत्मा सुतश् च सखा गुरुः सुहृदो दैवम् इष्टम्

03.25.040

इमं लोकं तथैवामुम् आत्मानम् उभयायिनम् ।
आत्मानम् अनु ये चेह ये रायः पशवो गृहाः

03.25.041

विसृज्य सर्वान् अन्यांश् च माम् एवं विश्वतो-मुखम् ।
भजन्त्य् अनन्यया भक्त्या तान् मृत्योर् अतिपारये

03.25.042

नान्यत्र मद् भगवतः प्रधान-पुरुषेश्वरात् ।
आत्मनः सर्व-भूतानां भयं तीव्रं निवर्तते

03.25.043

मद्-भयाद् वाति वातो ऽयं सूर्यस् तपति मद्-भयात् ।
वर्षतीन्द्रो दहत्य् अग्निर् मृत्युश् चरति मद्-भयात्

03.25.044

ज्ञान-वैराग्य-युक्तेन भक्ति-योगेन योगिनः ।
क्षेमाय पाद-मूलं मे प्रविशन्त्य् अकुतो-भयम्

03.25.045

एतावान् एव लोके ऽस्मिन् पुंसां निःश्रेयसोदयः ।
तीव्रेण भक्ति-योगेन मनो मय्य् अर्पितं स्थिरम्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc