भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 03.27

03.27.001

भ्प्_03.27.001।0 श्री-भगवान् उवाच
प्रकृति-स्थो ऽपि पुरुषो नाज्यते प्राकृतैर् गुणैः ।
अविकाराद् अकर्तृत्वान् निर्गुणत्वाज् जलार्कवत्

03.27.002

स एष यर्हि प्रकृतेर् गुणेष्व् अभिविषज्जते ।
अहङ्क्रिया-विमूढात्मा कर्तास्मीत्य् अभिमन्यते

03.27.003

तेन संसार-पदवीम् अवशो ऽभ्येत्य् अनिर्वृतः ।
प्रासङ्गिकैः कर्म-दोषैः सद्-असन्-मिश्र-योनिषु

03.27.004

अर्थे ह्य् अविद्यमाने ऽपि संसृतिर् न निवर्तते ।
ध्यायतो विषयान् अस्य स्वप्ने ऽनर्थागमो यथा

03.27.005

अत एव शनैश् चित्तं प्रसक्तम् असतां पथि ।
भक्ति-योगेन तीव्रेण विरक्त्या च नयेद् वशम्

03.27.006

यमादिभिर् योग-पथैर् अभ्यसञ् श्रद्धयान्वितः ।
मयि भावेन सत्येन मत्-कथा-श्रवणेन च

03.27.007

सर्व-भूत-समत्वेन निर्वैरेणाप्रसङ्गतः ।
ब्रह्मचर्येण मौनेन स्व-धर्मेण बलीयसा

03.27.008

यदृच्छयोपलब्धेन सन्तुष्टो मित-भुङ् मुनिः ।
विविक्त-शरणः शान्तो मैत्रः करुण आत्मवान्

03.27.009

सानुबन्धे च देहे ऽस्मिन्न् अकुर्वन्न् असद्-आग्रहम् ।
ज्ञानेन दृष्ट-तत्त्वेन प्रकृतेः पुरुषस्य च

03.27.010

निवृत्त-बुद्ध्य्-अवस्थानो दूरी-भूतान्य-दर्शनः ।
उपलभ्यात्मनात्मानं चक्षुषेवार्कम् आत्म-दृक्

03.27.011

मुक्त-लिङ्गं सद्-आभासम् असति प्रतिपद्यते ।
सतो बन्धुम् असच्-चक्षुः सर्वानुस्यूतम् अद्वयम्

03.27.012

यथा जल-स्थ आभासः स्थल-स्थेनावदृश्यते ।
स्वाभासेन तथा सूर्यो जल-स्थेन दिवि स्थितः

03.27.013

एवं त्रिवृद्-अहङ्कारो भूतेन्द्रिय-मनोमयैः ।
स्वाभासैर् लक्षितो ऽनेन सद्-आभासेन सत्य-दृक्

03.27.014

भूत-सूक्ष्मेन्द्रिय-मनो- बुद्ध्य्-आदिष्व् इह निद्रया ।
लीनेष्व् असति यस् तत्र विनिद्रो निरहङ्क्रियः

03.27.015

मन्यमानस् तदात्मानम् अनष्टो नष्टवन् मृषा ।
नष्टे ऽहङ्करणे द्रष्टा नष्ट-वित्त इवातुरः

03.27.016

एवं प्रत्यवमृश्यासाव् आत्मानं प्रतिपद्यते ।
साहङ्कारस्य द्रव्यस्य यो ऽवस्थानम् अनुग्रहः

03.27.017

भ्प्_03.27.017।0 देवहूतिर् उवाच
पुरुषं प्रकृतिर् ब्रह्मन् न विमुञ्चति कर्हिचित् ।
अन्योन्यापाश्रयत्वाच् च नित्यत्वाद् अनयोः प्रभो

03.27.018

यथा गन्धस्य भूमेश् च न भावो व्यतिरेकतः ।
अपां रसस्य च यथा तथा बुद्धेः परस्य च

03.27.019

अकर्तुः कर्म-बन्धो ऽयं पुरुषस्य यद्-आश्रयः ।
गुणेषु सत्सु प्रकृतेः कैवल्यं तेष्व् अतः कथम्

03.27.020

क्वचित् तत्त्वावमर्शेन निवृत्तं भयम् उल्बणम् ।
अनिवृत्त-निमित्तत्वात् पुनः प्रत्यवतिष्ठते

03.27.021

भ्प्_03.27.021।0 श्री-भगवान् उवाच
अनिमित्त-निमित्तेन स्व-धर्मेणामलात्मना ।
तीव्रया मयि भक्त्या च श्रुत-सम्भृतया चिरम्

03.27.022

ज्ञानेन दृष्ट-तत्त्वेन वैराग्येण बलीयसा ।
तपो-युक्तेन योगेन तीव्रेणात्म-समाधिना

03.27.023

प्रकृतिः पुरुषस्येह दह्यमाना त्व् अहर्-निशम् ।
तिरो-भवित्री शनकैर् अग्नेर् योनिर् इवारणिः

03.27.024

भुक्त-भोगा परित्यक्ता दृष्ट-दोषा च नित्यशः ।
नेश्वरस्याशुभं धत्ते स्वे महिम्नि स्थितस्य च

03.27.025

यथा ह्य् अप्रतिबुद्धस्य प्रस्वापो बह्व्-अनर्थ-भृत् ।
स एव प्रतिबुद्धस्य न वै मोहाय कल्पते

03.27.026

एवं विदित-तत्त्वस्य प्रकृतिर् मयि मानसम् ।
युञ्जतो नापकुरुत आत्मारामस्य कर्हिचित्

03.27.027

यदैवम् अध्यात्म-रतः कालेन बहु-जन्मना ।
सर्वत्र जात-वैराग्य आब्रह्म-भुवनान् मुनिः

03.27.028

मद्-भक्तः प्रतिबुद्धार्थो मत्-प्रसादेन भूयसा ।
निःश्रेयसं स्व-संस्थानं कैवल्याख्यं मद्-आश्रयम्

03.27.029

प्राप्नोतीहाञ्जसा धीरः स्व-दृशा च्छिन्न-संशयः ।
यद् गत्वा न निवर्तेत योगी लिङ्गाद् विनिर्गमे

03.27.030

यदा न योगोपचितासु चेतो मायासु सिद्धस्य विषज्जते ऽङ्ग ।
अनन्य-हेतुष्व् अथ मे गतिः स्याद् आत्यन्तिकी यत्र न मृत्यु-हासः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc