भागवत पुराण · अध्याय 03.20
भ्प्_03.20.001।0 शौनक उवाच
महीं प्रतिष्ठाम् अध्यस्य सौते स्वायम्भुवो मनुः ।
कान्य् अन्वतिष्ठद् द्वाराणि मार्गायावर-जन्मनाम्
क्षत्ता महा-भागवतः कृष्णस्यैकान्तिकः सुहृत् ।
यस् तत्याजाग्रजं कृष्णे सापत्यम् अघवान् इति
द्वैपायनाद् अनवरो महित्वे तस्य देहजः ।
सर्वात्मना श्रितः कृष्णं तत्-परांश् चाप्य् अनुव्रतः
किम् अन्वपृच्छन् मैत्रेयं विरजास् तीर्थ-सेवया ।
उपगम्य कुशावर्त आसीनं तत्त्व-वित्तमम्
तयोः संवदतोः सूत प्रवृत्ता ह्य् अमलाः कथाः ।
आपो गाङ्गा इवाघ-घ्नीर् हरेः पादाम्बुजाश्रयाः
ता नः कीर्तय भद्रं ते कीर्तन्योदार-कर्मणः ।
रसज्ञः को नु तृप्येत हरि-लीलामृतं पिबन्
एवम् उग्रश्रवाः पृष्ट ऋषिभिर् नैमिषायनैः ।
भगवत्य् अर्पिताध्यात्मस् तान् आह श्रूयताम् इति
भ्प्_03.20.008।0 सूत उवाच
हरेर् धृत-क्रोड-तनोः स्व-मायया निशम्य गोर् उद्धरणं रसातलात् ।
लीलां हिरण्याक्षम् अवज्ञया हतं सञ्जात-हर्षो मुनिम् आह भारतः
भ्प्_03.20.009।0 विदुर उवाच
प्रजापति-पतिः सृष्ट्वा प्रजा-सर्गे प्रजापतीन् ।
किम् आरभत मे ब्रह्मन् प्रब्रूह्य् अव्यक्त-मार्ग-वित्
ये मरीच्य्-आदयो विप्रा यस् तु स्वायम्भुवो मनुः ।
ते वै ब्रह्मण आदेशात् कथम् एतद् अभावयन्
स-द्वितीयाः किम् असृजन् स्वतन्त्रा उत कर्मसु ।
आहो स्वित् संहताः सर्व इदं स्म समकल्पयन्
भ्प्_03.20.012।0 मैत्रेय उवाच
दैवेन दुर्वितर्क्येण परेणानिमिषेण च ।
जात-क्षोभाद् भगवतो महान् आसीद् गुण-त्रयात्
रजः-प्रधानान् महतस् त्रि-लिङ्गो दैव-चोदितात् ।
जातः ससर्ज भूतादिर् वियद्-आदीनि पञ्चशः
तानि चैकैकशः स्रष्टुम् असमर्थानि भौतिकम् ।
संहत्य दैव-योगेन हैमम् अण्डम् अवासृजन्
सो ऽशयिष्टाब्धि-सलिले आण्डकोशो निरात्मकः ।
साग्रं वै वर्ष-साहस्रम् अन्ववात्सीत् तम् ईश्वरः
तस्य नाभेर् अभूत् पद्मं सहस्रार्कोरु-दीधिति ।
सर्व-जीवनिकायौको यत्र स्वयम् अभूत् स्वराट्
सो ऽनुविष्टो भगवता यः शेते सलिलाशये ।
लोक-संस्थां यथा पूर्वं निर्ममे संस्थया स्वया
ससर्ज च्छाययाविद्यां पञ्च-पर्वाणम् अग्रतः ।
तामिस्रम् अन्ध-तामिस्रं तमो मोहो महा-तमः
विससर्जात्मनः कायं नाभिनन्दंस् तमोमयम् ।
जगृहुर् यक्ष-रक्षांसि रात्रिं क्षुत्-तृट्-समुद्भवाम्
क्षुत्-तृड्भ्याम् उपसृष्टास् ते तं जग्धुम् अभिदुद्रुवुः ।
मा रक्षतैनं जक्षध्वम् इत्य् ऊचुः क्षुत्-तृड्-अर्दिताः
देवस् तान् आह संविग्नो मा मां जक्षत रक्षत ।
अहो मे यक्ष-रक्षांसि प्रजा यूयं बभूविथ
देवताः प्रभया या या दीव्यन् प्रमुखतो ऽसृजत् ।
ते अहार्षुर् देवयन्तो विसृष्टां तां प्रभाम् अहः
देवो ऽदेवाञ् जघनतः सृजति स्मातिलोलुपान् ।
त एनं लोलुपतया मैथुनायाभिपेदिरे
ततो हसन् स भगवान् असुरैर् निरपत्रपैः ।
अन्वीयमानस् तरसा क्रुद्धो भीतः परापतत्
स उपव्रज्य वरदं प्रपन्नार्ति-हरं हरिम् ।
अनुग्रहाय भक्तानाम् अनुरूपात्म-दर्शनम्
पाहि मां परमात्मंस् ते प्रेषणेनासृजं प्रजाः ।
ता इमा यभितुं पापा उपाक्रामन्ति मां प्रभो
त्वम् एकः किल लोकानां क्लिष्टानां क्लेश-नाशनः ।
त्वम् एकः क्लेशदस् तेषाम् अनासन्न-पदां तव
सो ऽवधार्यास्य कार्पण्यं विविक्ताध्यात्म-दर्शनः ।
विमुञ्चात्म-तनुं घोराम् इत्य् उक्तो विमुमोच ह
तां क्वणच्-चरणाम्भोजां मद-विह्वल-लोचनाम् ।
काञ्ची-कलाप-विलसद्- दुकूल-च्छन्न-रोधसम्
अन्योन्य-श्लेषयोत्तुङ्ग- निरन्तर-पयोधराम् ।
सुनासां सुद्विजां स्निग्ध- हास-लीलावलोकनाम्
गूहन्तीं व्रीडयात्मानं नीलालक-वरूथिनीम् ।
उपलभ्यासुरा धर्म सर्वे सम्मुमुहुः स्त्रियम्
अहो रूपम् अहो धैर्यम् अहो अस्या नवं वयः ।
मध्ये कामयमानानाम् अकामेव विसर्पति
वितर्कयन्तो बहुधा तां सन्ध्यां प्रमदाकृतिम् ।
अभिसम्भाव्य विश्रम्भात् पर्यपृच्छन् कुमेधसः
कासि कस्यासि रम्भोरु को वार्थस् ते ऽत्र भामिनि ।
रूप-द्रविण-पण्येन दुर्भगान् नो विबाधसे
या वा काचित् त्वम् अबले दिष्ट्या सन्दर्शनं तव ।
उत्सुनोषीक्षमाणानां कन्दुक-क्रीडया मनः
नैकत्र ते जयति शालिनि पाद-पद्मं $ घ्नन्त्या मुहुः कर-तलेन पतत्-पतङ्गम् &अम्प्;
मध्यं विषीदति बृहत्-स्तन-भार-भीतं % शान्तेव दृष्टिर् अमला सुशिखा-समूहः ॥ भ्प्_03.20.036* ॥
इति सायन्तनीं सन्ध्याम् असुराः प्रमदायतीम् ।
प्रलोभयन्तीं जगृहुर् मत्वा मूढ-धियः स्त्रियम्
प्रहस्य भाव-गम्भीरं जिघ्रन्त्यात्मानम् आत्मना ।
कान्त्या ससर्ज भगवान् गन्धर्वाप्सरसां गणान्
विससर्ज तनुं तां वै ज्योत्स्नां कान्तिमतीं प्रियाम् ।
त एव चाददुः प्रीत्या विश्वावसु-पुरोगमाः
सृष्ट्वा भूत-पिशाचांश् च भगवान् आत्म-तन्द्रिणा ।
दिग्-वाससो मुक्त-केशान् वीक्ष्य चामीलयद् दृशौ
जगृहुस् तद्-विसृष्टां तां जृम्भणाख्यां तनुं प्रभोः ।
निद्राम् इन्द्रिय-विक्लेदो यया भूतेषु दृश्यते ।
येनोच्छिष्टान् धर्षयन्ति तम् उन्मादं प्रचक्षते
ऊर्जस्वन्तं मन्यमान आत्मानं भगवान् अजः ।
साध्यान् गणान् पितृ-गणान् परोक्षेणासृजत् प्रभुः
त आत्म-सर्गं तं कायं पितरः प्रतिपेदिरे ।
साध्येभ्यश् च पितृभ्यश् च कवयो यद् वितन्वते
सिद्धान् विद्याधरांश् चैव तिरोधानेन सो ऽसृजत् ।
तेभ्यो ऽददात् तम् आत्मानम् अन्तर्धानाख्यम् अद्भुतम्
स किन्नरान् किम्पुरुषान् प्रत्यात्म्येनासृजत् प्रभुः ।
मानयन्न् आत्मनात्मानम् आत्माभासं विलोकयन्
ते तु तज् जगृहू रूपं त्यक्तं यत् परमेष्ठिना ।
मिथुनी-भूय गायन्तस् तम् एवोषसि कर्मभिः
देहेन वै भोगवता शयानो बहु-चिन्तया ।
सर्गे ऽनुपचिते क्रोधाद् उत्ससर्ज ह तद् वपुः
ये ऽहीयन्तामुतः केशा अहयस् ते ऽङ्ग जज्ञिरे ।
सर्पाः प्रसर्पतः क्रूरा नागा भोगोरु-कन्धराः
स आत्मानं मन्यमानः कृत-कृत्यम् इवात्मभूः ।
तदा मनून् ससर्जान्ते मनसा लोक-भावनान्
तेभ्यः सो ऽसृजत् स्वीयं पुरं पुरुषम् आत्मवान् ।
तान् दृष्ट्वा ये पुरा सृष्टाः प्रशशंसुः प्रजापतिम्
अहो एतज् जगत्-स्रष्टः सुकृतं बत ते कृतम् ।
प्रतिष्ठिताः क्रिया यस्मिन् साकम् अन्नम् अदाम हे
तपसा विद्यया युक्तो योगेन सुसमाधिना ।
ऋषीन् ऋषिर् हृषीकेशः ससर्जाभिमताः प्रजाः
तेभ्यश् चैकैकशः स्वस्य देहस्यांशम् अदाद् अजः ।
यत् तत् समाधि-योगर्द्धि- तपो-विद्या-विरक्तिमत्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0