भागवत पुराण · अध्याय 03.19
भ्प्_03.19.001।0 मैत्रेय उवाच
अवधार्य विरिञ्चस्य निर्व्यलीकामृतं वचः ।
प्रहस्य प्रेम-गर्भेण तद् अपाङ्गेन सो ऽग्रहीत्
ततः सपत्नं मुखतश् चरन्तम् अकुतो-भयम् ।
जघानोत्पत्य गदया हनाव् असुरम् अक्षजः
सा हता तेन गदया विहता भगवत्-करात् ।
विघूर्णितापतद् रेजे तद् अद्भुतम् इवाभवत्
स तदा लब्ध-तीर्थो ऽपि न बबाधे निरायुधम् ।
मानयन् स मृधे धर्मं विष्वक्सेनं प्रकोपयन्
गदायाम् अपविद्धायां हाहा-कारे विनिर्गते ।
मानयाम् आस तद्-धर्मं सुनाभं चास्मरद् विभुः
तं व्यग्र-चक्रं दिति-पुत्राधमेन स्व-पार्षद-मुख्येन विषज्जमानम् ।
चित्रा वाचो ऽतद्-विदां खे-चराणां तत्र स्मासन् स्वस्ति ते ऽमुं जहीति
स तं निशाम्यात्त-रथाङ्गम् अग्रतो व्यवस्थितं पद्म-पलाश-लोचनम् ।
विलोक्य चामर्ष-परिप्लुतेन्द्रियो रुषा स्व-दन्त-च्छदम् आदशच् छ्वसन्
कराल-दंष्ट्रश् चक्षुर्भ्यां सञ्चक्षाणो दहन्न् इव ।
अभिप्लुत्य स्व-गदया हतो ऽसीत्य् आहनद् धरिम्
पदा सव्येन तां साधो भगवान् यज्ञ-सूकरः ।
लीलया मिषतः शत्रोः प्राहरद् वात-रंहसम्
आह चायुधम् आधत्स्व घटस्व त्वं जिगीषसि ।
इत्य् उक्तः स तदा भूयस् ताडयन् व्यनदद् भृशम्
तां स आपततीं वीक्ष्य भगवान् समवस्थितः ।
जग्राह लीलया प्राप्तां गरुत्मान् इव पन्नगीम्
स्व-पौरुषे प्रतिहते हत-मानो महासुरः ।
नैच्छद् गदां दीयमानां हरिणा विगत-प्रभः
जग्राह त्रि-शिखं शूलं ज्वलज्-ज्वलन-लोलुपम् ।
यज्ञाय धृत-रूपाय विप्रायाभिचरन् यथा
तद् ओजसा दैत्य-महा-भटार्पितं चकासद् अन्तः-ख उदीर्ण-दीधिति ।
चक्रेण चिच्छेद निशात-नेमिना हरिर् यथा तार्क्ष्य-पतत्रम् उज्झितम्
वृक्णे स्व-शूले बहुधारिणा हरेः प्रत्येत्य विस्तीर्णम् उरो विभूतिमत् ।
प्रवृद्ध-रोषः स कठोर-मुष्टिना नदन् प्रहृत्यान्तरधीयतासुरः
तेनेत्थम् आहतः क्षत्तर् भगवान् आदि-सूकरः ।
नाकम्पत मनाक् क्वापि स्रजा हत इव द्विपः
अथोरुधासृजन् मायां योग-मायेश्वरे हरौ ।
यां विलोक्य प्रजास् त्रस्ता मेनिरे ऽस्योपसंयमम्
प्रववुर् वायवश् चण्डास् तमः पांसवम् ऐरयन् ।
दिग्भ्यो निपेतुर् ग्रावाणः क्षेपणैः प्रहिता इव
द्यौर् नष्ट-भगणाभ्रौघैः स-विद्युत्-स्तनयित्नुभिः ।
वर्षद्भिः पूय-केशासृग्- विण्-मूत्रास्थीनि चासकृत्
गिरयः प्रत्यदृश्यन्त नानायुध-मुचो ऽनघ ।
दिग्-वाससो यातुधान्यः शूलिन्यो मुक्त-मूर्धजाः
बहुभिर् यक्ष-रक्षोभिः पत्त्य्-अश्व-रथ-कुञ्जरैः ।
आततायिभिर् उत्सृष्टा हिंस्रा वाचो ऽतिवैशसाः
प्रादुष्कृतानां मायानाम् आसुरीणां विनाशयत् ।
सुदर्शनास्त्रं भगवान् प्रायुङ्क्त दयितं त्रि-पात्
तदा दितेः समभवत् सहसा हृदि वेपथुः ।
स्मरन्त्या भर्तुर् आदेशं स्तनाच् चासृक् प्रसुस्रुवे
विनष्टासु स्व-मायासु भूयश् चाव्रज्य केशवम् ।
रुषोपगूहमानो ऽमुं ददृशे ऽवस्थितं बहिः
तं मुष्टिभिर् विनिघ्नन्तं वज्र-सारैर् अधोक्षजः ।
करेण कर्ण-मूले ऽहन् यथा त्वाष्ट्रं मरुत्-पतिः
स आहतो विश्व-जिता ह्य् अवज्ञया परिभ्रमद्-गात्र उदस्त-लोचनः ।
विशीर्ण-बाह्व्-अङ्घ्रि-शिरोरुहो ऽपतद् यथा नगेन्द्रो लुलितो नभस्वता
क्षितौ शयानं तम् अकुण्ठ-वर्चसं कराल-दंष्ट्रं परिदष्ट-दच्छदम् ।
अजादयो वीक्ष्य शशंसुर् आगता अहो इमं को नु लभेत संस्थितिम्
यं योगिनो योग-समाधिना रहो ध्यायन्ति लिङ्गाद् असतो मुमुक्षया ।
तस्यैष दैत्य-ऋषभः पदाहतो मुखं प्रपश्यंस् तनुम् उत्ससर्ज ह
एतौ तौ पार्षदाव् अस्य शापाद् याताव् असद्-गतिम् ।
पुनः कतिपयैः स्थानं प्रपत्स्येते ह जन्मभिः
भ्प्_03.19.030।0 देवा ऊचुः
नमो नमस् ते ऽखिल-यज्ञ-तन्तवे स्थितौ गृहीतामल-सत्त्व-मूर्तये ।
दिष्ट्या हतो ऽयं जगताम् अरुन्तुदस् त्वत्-पाद-भक्त्या वयम् ईश निर्वृताः
भ्प्_03.19.031।0 मैत्रेय उवाच
एवं हिरण्याक्षम् असह्य-विक्रमं स सादयित्वा हरिर् आदि-सूकरः ।
जगाम लोकं स्वम् अखण्डितोत्सवं समीडितः पुष्कर-विष्टरादिभिः
मया यथानूक्तम् अवादि ते हरेः कृतावतारस्य सुमित्र चेष्टितम् ।
यथा हिरण्याक्ष उदार-विक्रमो महा-मृधे क्रीडनवन् निराकृतः
भ्प्_03.19.033।0 सूत उवाच
इति कौषारवाख्याताम् आश्रुत्य भगवत्-कथाम् ।
क्षत्तानन्दं परं लेभे महा-भागवतो द्विज
अन्येषां पुण्य-श्लोकानाम् उद्दाम-यशसां सताम् ।
उपश्रुत्य भवेन् मोदः श्रीवत्साङ्कस्य किं पुनः
यो गजेन्द्रं झष-ग्रस्तं ध्यायन्तं चरणाम्बुजम् ।
क्रोशन्तीनां करेणूनां कृच्छ्रतो ऽमोचयद् द्रुतम्
तं सुखाराध्यम् ऋजुभिर् अनन्य-शरणैर् नृभिः ।
कृतज्ञः को न सेवेत दुराराध्यम् असाधुभिः
यो वै हिरण्याक्ष-वधं महाद्भुतं विक्रीडितं कारण-सूकरात्मनः ।
शृणोति गायत्य् अनुमोदते ऽञ्जसा विमुच्यते ब्रह्म-वधाद् अपि द्विजाः
एतन् महा-पुण्यम् अलं पवित्रं धन्यं यशस्यं पदम् आयुर्-आशिषाम् ।
प्राणेन्द्रियाणां युधि शौर्य-वर्धनं नारायणो ऽन्ते गतिर् अङ्ग शृण्वताम्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0