भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 03.21

03.21.001

भ्प्_03.21.001।0 विदुर उवाच
स्वायम्भुवस्य च मनोर् अंशः परम-सम्मतः ।
कथ्यतां भगवन् यत्र मैथुनेनैधिरे प्रजाः

03.21.002

प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य वै ।
यथा-धर्मं जुगुपतुः सप्त-द्वीपवतीं महीम्

03.21.003

तस्य वै दुहिता ब्रह्मन् देवहूतीति विश्रुता ।
पत्नी प्रजापतेर् उक्ता कर्दमस्य त्वयानघ

03.21.004

तस्यां स वै महा-योगी युक्तायां योग-लक्षणैः ।
ससर्ज कतिधा वीर्यं तन् मे शुश्रूषवे वद

03.21.005

रुचिर् यो भगवान् ब्रह्मन् दक्षो वा ब्रह्मणः सुतः ।
यथा ससर्ज भूतानि लब्ध्वा भार्यां च मानवीम्

03.21.006

भ्प्_03.21.006।0 मैत्रेय उवाच
प्रजाः सृजेति भगवान् कर्दमो ब्रह्मणोदितः ।
सरस्वत्यां तपस् तेपे सहस्राणां समा दश

03.21.007

ततः समाधि-युक्तेन क्रिया-योगेन कर्दमः ।
सम्प्रपेदे हरिं भक्त्या प्रपन्न-वरदाशुषम्

03.21.008

तावत् प्रसन्नो भगवान् पुष्कराक्षः कृते युगे ।
दर्शयाम् आस तं क्षत्तः शाब्दं ब्रह्म दधद् वपुः

03.21.009

स तं विरजम् अर्काभं सित-पद्मोत्पल-स्रजम् ।
स्निग्ध-नीलालक-व्रात- वक्त्राब्जं विरजो ऽम्बरम्

03.21.010

किरीटिनं कुण्डलिनं शङ्ख-चक्र-गदा-धरम् ।
श्वेतोत्पल-क्रीडनकं मनः-स्पर्श-स्मितेक्षणम्

03.21.011

विन्यस्त-चरणाम्भोजम् अंस-देशे गरुत्मतः ।
दृष्ट्वा खे ऽवस्थितं वक्षः- श्रियं कौस्तुभ-कन्धरम्

03.21.012

जात-हर्षो ऽपतन् मूर्ध्ना क्षितौ लब्ध-मनोरथः ।
गीर्भिस् त्व् अभ्यगृणात् प्रीति- स्वभावात्मा कृताञ्जलिः

03.21.013

भ्प्_03.21.013।0 ऋषिर् उवाच
जुष्टं बताद्याखिल-सत्त्व-राशेः सांसिद्ध्यम् अक्ष्णोस् तव दर्शनान् नः ।
यद्-दर्शनं जन्मभिर् ईड्य सद्भिर् आशासते योगिनो रूढ-योगाः

03.21.014

ये मायया ते हत-मेधसस् त्वत्- पादारविन्दं भव-सिन्धु-पोतम् ।
उपासते काम-लवाय तेषां रासीश कामान् निरये ऽपि ये स्युः

03.21.015

तथा स चाहं परिवोढु-कामः समान-शीलां गृहमेध-धेनुम् ।
उपेयिवान् मूलम् अशेष-मूलं दुराशयः काम-दुघाङ्घ्रिपस्य

03.21.016

प्रजापतेस् ते वचसाधीश तन्त्या लोकः किलायं काम-हतो ऽनुबद्धः ।
अहं च लोकानुगतो वहामि बलिं च शुक्लानिमिषाय तुभ्यम्

03.21.017

लोकांश् च लोकानुगतान् पशूंश् च हित्वा श्रितास् ते चरणातपत्रम् ।
परस्परं त्वद्-गुण-वाद-सीधु- पीयूष-निर्यापित-देह-धर्माः

03.21.018

न ते ऽजराक्ष-भ्रमिर् आयुर् एषां त्रयोदशारं त्रि-शतं षष्टि-पर्व ।
षण्-नेम्य् अनन्त-च्छदि यत् त्रि-णाभि कराल-स्रोतो जगद् आच्छिद्य धावत्

03.21.019

एकः स्वयं सन् जगतः सिसृक्षया- द्वितीययात्मन्न् अधि-योगमायया ।
सृजस्य् अदः पासि पुनर् ग्रसिष्यसे यथोर्ण-नाभिर् भगवन् स्व-शक्तिभिः

03.21.020

नैतद् बताधीश पदं तवेप्सितं यन् मायया नस् तनुषे भूत-सूक्ष्मम् ।
अनुग्रहायास्त्व् अपि यर्हि मायया लसत्-तुलस्या भगवान् विलक्षितः

03.21.021

तं त्वानुभूत्योपरत-क्रियार्थं स्व-मायया वर्तित-लोक-तन्त्रम् ।
नमाम्य् अभीक्ष्णं नमनीय-पाद- सरोजम् अल्पीयसि काम-वर्षम्

03.21.022

भ्प्_03.21.022।0 ऋषिर् उवाच
इत्य् अव्यलीकं प्रणुतो ऽब्ज-नाभस् तम् आबभाषे वचसामृतेन ।
सुपर्ण-पक्षोपरि रोचमानः प्रेम-स्मितोद्वीक्षण-विभ्रमद्-भ्रूः

03.21.023

भ्प्_03.21.023।0 श्री-भगवान् उवाच
विदित्वा तव चैत्यं मे पुरैव समयोजि तत् ।
यद्-अर्थम् आत्म-नियमैस् त्वयैवाहं समर्चितः

03.21.024

न वै जातु मृषैव स्यात् प्रजाध्यक्ष मद्-अर्हणम् ।
भवद्-विधेष्व् अतितरां मयि सङ्गृभितात्मनाम्

03.21.025

प्रजापति-सुतः सम्राण् मनुर् विख्यात-मङ्गलः ।
ब्रह्मावर्तं यो ऽधिवसन् शास्ति सप्तार्णवां महीम्

03.21.026

स चेह विप्र राजर्षिर् महिष्या शतरूपया ।
आयास्यति दिदृक्षुस् त्वां परश्वो धर्म-कोविदः

03.21.027

आत्मजाम् असितापाङ्गीं वयः-शील-गुणान्विताम् ।
मृगयन्तीं पतिं दास्यत्य् अनुरूपाय ते प्रभो

03.21.028

समाहितं ते हृदयं यत्रेमान् परिवत्सरान् ।
सा त्वां ब्रह्मन् नृप-वधूः कामम् आशु भजिष्यति

03.21.029

या त आत्म-भृतं वीर्यं नवधा प्रसविष्यति ।
वीर्ये त्वदीये ऋषय आधास्यन्त्य् अञ्जसात्मनः

03.21.030

त्वं च सम्यग् अनुष्ठाय निदेशं म उशत्तमः ।
मयि तीर्थी-कृताशेष- क्रियार्थो मां प्रपत्स्यसे

03.21.031

कृत्वा दयां च जीवेषु दत्त्वा चाभयम् आत्मवान् ।
मय्य् आत्मानं सह जगद् द्रक्ष्यस्य् आत्मनि चापि माम्

03.21.032

सहाहं स्वांश-कलया त्वद्-वीर्येण महा-मुने ।
तव क्षेत्रे देवहूत्यां प्रणेष्ये तत्त्व-संहिताम्

03.21.033

भ्प्_03.21.033।0 मैत्रेय उवाच
एवं तम् अनुभाष्याथ भगवान् प्रत्यग्-अक्षजः ।
जगाम बिन्दुसरसः सरस्वत्या परिश्रितात्

03.21.034

निरीक्षतस् तस्य ययाव् अशेष- सिद्धेश्वराभिष्टुत-सिद्ध-मार्गः ।
आकर्णयन् पत्र-रथेन्द्र-पक्षैर् उच्चारितं स्तोमम् उदीर्ण-साम

03.21.035

अथ सम्प्रस्थिते शुक्ले कर्दमो भगवान् ऋषिः ।
आस्ते स्म बिन्दुसरसि तं कालं प्रतिपालयन्

03.21.036

मनुः स्यन्दनम् आस्थाय शातकौम्भ-परिच्छदम् ।
आरोप्य स्वां दुहितरं स-भार्यः पर्यटन् महीम्

03.21.037

तस्मिन् सुधन्वन्न् अहनि भगवान् यत् समादिशत् ।
उपायाद् आश्रम-पदं मुनेः शान्त-व्रतस्य तत्

03.21.038

यस्मिन् भगवतो नेत्रान् न्यपतन्न् अश्रु-बिन्दवः ।
कृपया सम्परीतस्य प्रपन्ने ऽर्पितया भृशम्

03.21.039

तद् वै बिन्दुसरो नाम सरस्वत्या परिप्लुतम् ।
पुण्यं शिवामृत-जलं महर्षि-गण-सेवितम्

03.21.040

पुण्य-द्रुम-लता-जालैः कूजत्-पुण्य-मृग-द्विजैः ।
सर्वर्तु-फल-पुष्पाढ्यं वन-राजि-श्रियान्वितम्

03.21.041

मत्त-द्विज-गणैर् घुष्टं मत्त-भ्रमर-विभ्रमम् ।
मत्त-बर्हि-नटाटोपम् आह्वयन्-मत्त-कोकिलम्

03.21.042

कदम्ब-चम्पकाशोक- करञ्ज-बकुलासनैः ।
कुन्द-मन्दार-कुटजैश् चूत-पोतैर् अलङ्कृतम्

03.21.043

कारण्डवैः प्लवैर् हंसैः कुररैर् जल-कुक्कुटैः ।
सारसैश् चक्रवाकैश् च चकोरैर् वल्गु कूजितम्

03.21.044

तथैव हरिणैः क्रोडैः श्वाविद्-गवय-कुञ्जरैः ।
गोपुच्छैर् हरिभिर् मर्कैर् नकुलैर् नाभिभिर् वृतम्

03.21.045

प्रविश्य तत् तीर्थ-वरम् आदि-राजः सहात्मजः ।
ददर्श मुनिम् आसीनं तस्मिन् हुत-हुताशनम्

03.21.046

विद्योतमानं वपुषा तपस्य् उग्र-युजा चिरम् ।
नातिक्षामं भगवतः स्निग्धापाङ्गावलोकनात् ।
तद्-व्याहृतामृत-कला- पीयूष-श्रवणेन च

03.21.047

प्रांशुं पद्म-पलाशाक्षं जटिलं चीर-वाससम् ।
उपसंश्रित्य मलिनं यथार्हणम् असंस्कृतम्

03.21.048

अथोटजम् उपायातं नृदेवं प्रणतं पुरः ।
सपर्यया पर्यगृह्णात् प्रतिनन्द्यानुरूपया

03.21.049

गृहीतार्हणम् आसीनं संयतं प्रीणयन् मुनिः ।
स्मरन् भगवद्-आदेशम् इत्य् आह श्लक्ष्णया गिरा

03.21.050

नूनं चङ्क्रमणं देव सतां संरक्षणाय ते ।
वधाय चासतां यस् त्वं हरेः शक्तिर् हि पालिनी

03.21.051

यो ऽर्केन्द्व्-अग्नीन्द्र-वायूनां यम-धर्म-प्रचेतसाम् ।
रूपाणि स्थान आधत्से तस्मै शुक्लाय ते नमः

03.21.052

न यदा रथम् आस्थाय जैत्रं मणि-गणार्पितम् ।
विस्फूर्जच्-चण्ड-कोदण्डो रथेन त्रासयन्न् अघान्

03.21.053

स्व-सैन्य-चरण-क्षुण्णं वेपयन् मण्डलं भुवः ।
विकर्षन् बृहतीं सेनां पर्यटस्य् अंशुमान् इव

03.21.054

तदैव सेतवः सर्वे वर्णाश्रम-निबन्धनाः ।
भगवद्-रचिता राजन् भिद्येरन् बत दस्युभिः

03.21.055

अधर्मश् च समेधेत लोलुपैर् व्यङ्कुशैर् नृभिः ।
शयाने त्वयि लोको ऽयं दस्यु-ग्रस्तो विनङ्क्ष्यति

03.21.056

अथापि पृच्छे त्वां वीर यद्-अर्थं त्वम् इहागतः ।
तद् वयं निर्व्यलीकेन प्रतिपद्यामहे हृदा

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc