भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 03.14

03.14.001

भ्प्_03.14.001।0 श्री-शुक उवाच
निशम्य कौषारविणोपवर्णितां हरेः कथां कारण-सूकरात्मनः ।
पुनः स पप्रच्छ तम् उद्यताञ्जलिर् न चातितृप्तो विदुरो धृत-व्रतः

03.14.002

भ्प्_03.14.002।0 विदुर उवाच
तेनैव तु मुनि-श्रेष्ठ हरिणा यज्ञ-मूर्तिना ।
आदि-दैत्यो हिरण्याक्षो हत इत्य् अनुशुश्रुम

03.14.003

तस्य चोद्धरतः क्षौणीं स्व-दंष्ट्राग्रेण लीलया ।
दैत्य-राजस्य च ब्रह्मन् कस्माद् धेतोर् अभून् मृधः

03.14.004

श्रद्दधानाय भक्ताय ब्रूहि तज्-जन्म-विस्तरम् ।
ऋषे न तृप्यति मनः परं कौतूहलं हि मे

03.14.005

भ्प्_03.14.005।0 मैत्रेय उवाच
साधु वीर त्वया पृष्टम् अवतार-कथां हरेः ।
यत् त्वं पृच्छसि मर्त्यानां मृत्यु-पाश-विशातनीम्

03.14.006

ययोत्तानपदः पुत्रो मुनिना गीतयार्भकः ।
मृत्योः कृत्वैव मूर्ध्न्य् अङ्घ्रिम् आरुरोह हरेः पदम्

03.14.007

अथात्रापीतिहासो ऽयं श्रुतो मे वर्णितः पुरा ।
ब्रह्मणा देव-देवेन देवानाम् अनुपृच्छताम्

03.14.008

दितिर् दाक्षायणी क्षत्तर् मारीचं कश्यपं पतिम् ।
अपत्य-कामा चकमे सन्ध्यायां हृच्-छयार्दिता

03.14.009

इष्ट्वाग्नि-जिह्वं पयसा पुरुषं यजुषां पतिम् ।
निम्लोचत्य् अर्क आसीनम् अग्न्य्-अगारे समाहितम्

03.14.010

भ्प्_03.14.010।0 दितिर् उवाच
एष मां त्वत्-कृते विद्वन् काम आत्त-शरासनः ।
दुनोति दीनां विक्रम्य रम्भाम् इव मतङ्गजः

03.14.011

तद् भवान् दह्यमानायां स-पत्नीनां समृद्धिभिः ।
प्रजावतीनां भद्रं ते मय्य् आयुङ्क्ताम् अनुग्रहम्

03.14.012

भर्तर्य् आप्तोरुमानानां लोकान् आविशते यशः ।
पतिर् भवद्-विधो यासां प्रजया ननु जायते

03.14.013

पुरा पिता नो भगवान् दक्षो दुहितृ-वत्सलः ।
कं वृणीत वरं वत्सा इत्य् अपृच्छत नः पृथक्

03.14.014

स विदित्वात्मजानां नो भावं सन्तान-भावनः ।
त्रयोदशाददात् तासां यास् ते शीलम् अनुव्रताः

03.14.015

अथ मे कुरु कल्याणं कामं कमल-लोचन ।
आर्तोपसर्पणं भूमन्न् अमोघं हि महीयसि

03.14.016

इति तां वीर मारीचः कृपणां बहु-भाषिणीम् ।
प्रत्याहानुनयन् वाचा प्रवृद्धानङ्ग-कश्मलाम्

03.14.017

एष ते ऽहं विधास्यामि प्रियं भीरु यद् इच्छसि ।
तस्याः कामं न कः कुर्यात् सिद्धिस् त्रैवर्गिकी यतः

03.14.018

सर्वाश्रमान् उपादाय स्वाश्रमेण कलत्रवान् ।
व्यसनार्णवम् अत्येति जल-यानैर् यथार्णवम्

03.14.019

याम् आहुर् आत्मनो ह्य् अर्धं श्रेयस्-कामस्य मानिनि ।
यस्यां स्व-धुरम् अध्यस्य पुमांश् चरति विज्वरः

03.14.020

याम् आश्रित्येन्द्रियारातीन् दुर्जयान् इतराश्रमैः ।
वयं जयेम हेलाभिर् दस्यून् दुर्ग-पतिर् यथा

03.14.021

न वयं प्रभवस् तां त्वाम् अनुकर्तुं गृहेश्वरि ।
अप्य् आयुषा वा कार्त्स्न्येन ये चान्ये गुण-गृध्नवः

03.14.022

अथापि कामम् एतं ते प्रजात्यै करवाण्य् अलम् ।
यथा मां नातिरोचन्ति मुहूर्तं प्रतिपालय

03.14.023

एषा घोरतमा वेला घोराणां घोर-दर्शना ।
चरन्ति यस्यां भूतानि भूतेशानुचराणि ह

03.14.024

एतस्यां साध्वि सन्ध्यायां भगवान् भूत-भावनः ।
परीतो भूत-पर्षद्भिर् वृषेणाटति भूतराट्

03.14.025

श्मशान-चक्रानिल-धूलि-धूम्र- विकीर्ण-विद्योत-जटा-कलापः ।
भस्मावगुण्ठामल-रुक्म-देहो देवस् त्रिभिः पश्यति देवरस् ते

03.14.026

न यस्य लोके स्व-जनः परो वा नात्यादृतो नोत कश्चिद् विगर्ह्यः ।
वयं व्रतैर् यच्-चरणापविद्धाम् आशास्महे ऽजां बत भुक्त-भोगाम्

03.14.027

यस्यानवद्याचरितं मनीषिणो गृणन्त्य् अविद्या-पटलं बिभित्सवः ।
निरस्त-साम्यातिशयो ऽपि यत् स्वयं पिशाच-चर्याम् अचरद् गतिः सताम्

03.14.028

हसन्ति यस्याचरितं हि दुर्भगाः स्वात्मन्-रतस्याविदुषः समीहितम् ।
यैर् वस्त्र-माल्याभरणानुलेपनैः श्व-भोजनं स्वात्मतयोपलालितम्

03.14.029

ब्रह्मादयो यत्-कृत-सेतु-पाला यत्-कारणं विश्वम् इदं च माया ।
आज्ञा-करी यस्य पिशाच-चर्या अहो विभूम्नश् चरितं विडम्बनम्

03.14.030

भ्प्_03.14.030।0 मैत्रेय उवाच
सैवं संविदिते भर्त्रा मन्मथोन्मथितेन्द्रिया ।
जग्राह वासो ब्रह्मर्षेर् वृषलीव गत-त्रपा

03.14.031

स विदित्वाथ भार्यायास् तं निर्बन्धं विकर्मणि ।
नत्वा दिष्टाय रहसि तयाथोपविवेश हि

03.14.032

अथोपस्पृश्य सलिलं प्राणान् आयम्य वाग्-यतः ।
ध्यायञ् जजाप विरजं ब्रह्म ज्योतिः सनातनम्

03.14.033

दितिस् तु व्रीडिता तेन कर्मावद्येन भारत ।
उपसङ्गम्य विप्रर्षिम् अधो-मुख्य् अभ्यभाषत

03.14.034

भ्प्_03.14.034।0 दितिर् उवाच
न मे गर्भम् इमं ब्रह्मन् भूतानाम् ऋषभो ऽवधीत् ।
रुद्रः पतिर् हि भूतानां यस्याकरवम् अंहसम्

03.14.035

नमो रुद्राय महते देवायोग्राय मीढुषे ।
शिवाय न्यस्त-दण्डाय धृत-दण्डाय मन्यवे

03.14.036

स नः प्रसीदतां भामो भगवान् उर्व्-अनुग्रहः ।
व्याधस्याप्य् अनुकम्प्यानां स्त्रीणां देवः सती-पतिः

03.14.037

भ्प्_03.14.037।0 मैत्रेय उवाच
स्व-सर्गस्याशिषं लोक्याम् आशासानां प्रवेपतीम् ।
निवृत्त-सन्ध्या-नियमो भार्याम् आह प्रजापतिः

03.14.038

भ्प्_03.14.038।0 कश्यप उवाच
अप्रायत्याद् आत्मनस् ते दोषान् मौहूर्तिकाद् उत ।
मन्-निदेशातिचारेण देवानां चातिहेलनात्

03.14.039

भविष्यतस् तवाभद्राव् अभद्रे जाठराधमौ ।
लोकान् स-पालांस् त्रींश् चण्डि मुहुर् आक्रन्दयिष्यतः

03.14.040

प्राणिनां हन्यमानानां दीनानाम् अकृतागसाम् ।
स्त्रीणां निगृह्यमाणानां कोपितेषु महात्मसु

03.14.041

तदा विश्वेश्वरः क्रुद्धो भगवाल् लोक-भावनः ।
हनिष्यत्य् अवतीर्यासौ यथाद्रीन् शतपर्व-धृक्

03.14.042

भ्प्_03.14.042।0 दितिर् उवाच
वधं भगवता साक्षात् सुनाभोदार-बाहुना ।
आशासे पुत्रयोर् मह्यं मा क्रुद्धाद् ब्राह्मणाद् प्रभो

03.14.043

न ब्रह्म-दण्ड-दग्धस्य न भूत-भयदस्य च ।
नारकाश् चानुगृह्णन्ति यां यां योनिम् असौ गतः

03.14.044

भ्प्_03.14.044।0 कश्यप उवाच
कृत-शोकानुतापेन सद्यः प्रत्यवमर्शनात् ।
भगवत्य् उरु-मानाच् च भवे मय्य् अपि चादरात्

03.14.045

पुत्रस्यैव च पुत्राणां भवितैकः सतां मतः ।
गास्यन्ति यद्-यशः शुद्धं भगवद्-यशसा समम्

03.14.046

योगैर् हेमेव दुर्वर्णं भावयिष्यन्ति साधवः ।
निर्वैरादिभिर् आत्मानं यच्-छीलम् अनुवर्तितुम्

03.14.047

यत्-प्रसादाद् इदं विश्वं प्रसीदति यद्-आत्मकम् ।
स स्व-दृग् भगवान् यस्य तोष्यते ऽनन्यया दृशा

03.14.048

स वै महा-भागवतो महात्मा महानुभावो महतां महिष्ठः ।
प्रवृद्ध-भक्त्या ह्य् अनुभाविताशये निवेश्य वैकुण्ठम् इमं विहास्यति

03.14.049

अलम्पटः शील-धरो गुणाकरो हृष्टः परर्द्ध्या व्यथितो दुःखितेषु ।
अभूत-शत्रुर् जगतः शोक-हर्ता नैदाघिकं तापम् इवोडुराजः

03.14.050

अन्तर् बहिश् चामलम् अब्ज-नेत्रं स्व-पूरुषेच्छानुगृहीत-रूपम् ।
पौत्रस् तव श्री-ललना-ललामं द्रष्टा स्फुरत्-कुण्डल-मण्डिताननम्

03.14.051

भ्प्_03.14.051।0 मैत्रेय उवाच
श्रुत्वा भागवतं पौत्रम् अमोदत दितिर् भृशम् ।
पुत्रयोश् च वधं कृष्णाद् विदित्वासीन् महा-मनाः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc