भागवत पुराण · अध्याय 03.13
भ्प्_03.13.001।0 श्री-शुक उवाच
निशम्य वाचं वदतो मुनेः पुण्यतमां नृप ।
भूयः पप्रच्छ कौरव्यो वासुदेव-कथादृतः
भ्प्_03.13.002।0 विदुर उवाच
स वै स्वायम्भुवः सम्राट् प्रियः पुत्रः स्वयम्भुवः ।
प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने
चरितं तस्य राजर्षेर् आदि-राजस्य सत्तम ।
ब्रूहि मे श्रद्दधानाय विष्वक्सेनाश्रयो ह्य् असौ
श्रुतस्य पुंसां सुचिर-श्रमस्य नन्व् अञ्जसा सूरिभिर् ईडितो ऽर्थः ।
तत्-तद्-गुणानुश्रवणं मुकुन्द- पादारविन्दं हृदयेषु येषाम्
भ्प्_03.13.005।0 श्री-शुक उवाच
इति ब्रुवाणं विदुरं विनीतं सहस्र-शीर्ष्णश् चरणोपधानम् ।
प्रहृष्ट-रोमा भगवत्-कथायां प्रणीयमानो मुनिर् अभ्यचष्ट
भ्प्_03.13.006।0 मैत्रेय उवाच
यदा स्व-भार्यया सार्धं जातः स्वायम्भुवो मनुः ।
प्राञ्जलिः प्रणतश् चेदं वेद-गर्भम् अभाषत
त्वम् एकः सर्व-भूतानां जन्म-कृद् वृत्तिदः पिता ।
तथापि नः प्रजानां ते शुश्रूषा केन वा भवेत्
तद् विधेहि नमस् तुभ्यं कर्मस्व् ईड्यात्म-शक्तिषु ।
यत् कृत्वेह यशो विष्वग् अमुत्र च भवेद् गतिः
भ्प्_03.13.009।0 ब्रह्मोवाच
प्रीतस् तुभ्यम् अहं तात स्वस्ति स्ताद् वां क्षितीश्वर ।
यन् निर्व्यलीकेन हृदा शाधि मेत्य् आत्मनार्पितम्
एतावत्य् आत्मजैर् वीर कार्या ह्य् अपचितिर् गुरौ ।
शक्त्याप्रमत्तैर् गृह्येत सादरं गत-मत्सरैः
स त्वम् अस्याम् अपत्यानि सदृशान्य् आत्मनो गुणैः ।
उत्पाद्य शास धर्मेण गां यज्ञैः पुरुषं यज
परं शुश्रूषणं मह्यं स्यात् प्रजा-रक्षया नृप ।
भगवांस् ते प्रजा-भर्तुर् हृषीकेशो ऽनुतुष्यति
येषां न तुष्टो भगवान् यज्ञ-लिङ्गो जनार्दनः ।
तेषां श्रमो ह्य् अपार्थाय यद् आत्मा नादृतः स्वयम्
भ्प्_03.13.014।0 मनुर् उवाच
आदेशे ऽहं भगवतो वर्तेयामीव-सूदन ।
स्थानं त्व् इहानुजानीहि प्रजानां मम च प्रभो
यद् ओकः सर्व-भूतानां मही मग्ना महाम्भसि ।
अस्या उद्धरणे यत्नो देव देव्या विधीयताम्
भ्प्_03.13.016।0 मैत्रेय उवाच
परमेष्ठी त्व् अपां मध्ये तथा सन्नाम् अवेक्ष्य गाम् ।
कथम् एनां समुन्नेष्य इति दध्यौ धिया चिरम्
सृजतो मे क्षितिर् वार्भिः प्लाव्यमाना रसां गता ।
अथात्र किम् अनुष्ठेयम् अस्माभिः सर्ग-योजितैः ।
यस्याहं हृदयाद् आसं स ईशो विदधातु मे
इत्य् अभिध्यायतो नासा- विवरात् सहसानघ ।
वराह-तोको निरगाद् अङ्गुष्ठ-परिमाणकः
तस्याभिपश्यतः ख-स्थः क्षणेन किल भारत ।
गज-मात्रः प्रववृधे तद् अद्भुतम् अभून् महत्
मरीचि-प्रमुखैर् विप्रैः कुमारैर् मनुना सह ।
दृष्ट्वा तत् सौकरं रूपं तर्कयाम् आस चित्रधा
किम् एतत् सूकर-व्याजं सत्त्वं दिव्यम् अवस्थितम् ।
अहो बताश्चर्यम् इदं नासाया मे विनिःसृतम्
दृष्टो ऽङ्गुष्ठ-शिरो-मात्रः क्षणाद् गण्ड-शिला-समः ।
अपि स्विद् भगवान् एष यज्ञो मे खेदयन् मनः
इति मीमांसतस् तस्य ब्रह्मणः सह सूनुभिः ।
भगवान् यज्ञ-पुरुषो जगर्जागेन्द्र-सन्निभः
ब्रह्माणं हर्षयाम् आस हरिस् तांश् च द्विजोत्तमान् ।
स्व-गर्जितेन ककुभः प्रतिस्वनयता विभुः
निशम्य ते घर्घरितं स्व-खेद- क्षयिष्णु मायामय-सूकरस्य ।
जनस्-तपः-सत्य-निवासिनस् ते त्रिभिः पवित्रैर् मुनयो ऽगृणन् स्म
तेषां सतां वेद-वितान-मूर्तिर् ब्रह्मावधार्यात्म-गुणानुवादम् ।
विनद्य भूयो विबुधोदयाय गजेन्द्र-लीलो जलम् आविवेश
उत्क्षिप्त-वालः ख-चरः कठोरः सटा विधुन्वन् खर-रोमश-त्वक् ।
खुराहताभ्रः सित-दंष्ट्र ईक्षा- ज्योतिर् बभासे भगवान् महीध्रः
घ्राणेन पृथ्व्याः पदवीं विजिघ्रन् क्रोडापदेशः स्वयम् अध्वराङ्गः ।
कराल-दंष्ट्रो ऽप्य् अकराल-दृग्भ्याम् उद्वीक्ष्य विप्रान् गृणतो ऽविशत् कम्
स वज्र-कूटाङ्ग-निपात-वेग- विशीर्ण-कुक्षिः स्तनयन्न् उदन्वान् ।
उत्सृष्ट-दीर्घोर्मि-भुजैर् इवार्तश् चुक्रोश यज्ञेश्वर पाहि मेति
खुरैः क्षुरप्रैर् दरयंस् तद् आप उत्पार-पारं त्रि-परू रसायाम् ।
ददर्श गां तत्र सुषुप्सुर् अग्रे यां जीव-धानीं स्वयम् अभ्यधत्त
पाताल-मूलेश्वर-भोग-संहतौ विन्यस्य पादौ पृथिवीं च बिभ्रतः ।
यस्योपमानो न बभूव सो ऽच्युतो ममास्तु माङ्गल्य-विवृद्धये हरिः
स्व-दंष्ट्रयोद्धृत्य महीं निमग्नां स उत्थितः संरुरुचे रसायाः ।
तत्रापि दैत्यं गदयापतन्तं सुनाभ-सन्दीपित-तीव्र-मन्युः
जघान रुन्धानम् असह्य-विक्रमं स लीलयेभं मृगराड् इवाम्भसि ।
तद्-रक्त-पङ्काङ्कित-गण्ड-तुण्डो यथा गजेन्द्रो जगतीं विभिन्दन्
तमाल-नीलं सित-दन्त-कोट्या क्ष्माम् उत्क्षिपन्तं गज-लीलयाङ्ग ।
प्रज्ञाय बद्धाञ्जलयो ऽनुवाकैर् विरिञ्चि-मुख्या उपतस्थुर् ईशम्
भ्प्_03.13.035।0 ऋषय ऊचुः
जितं जितं ते ऽजित यज्ञ-भावन त्रयीं तनुं स्वां परिधुन्वते नमः ।
यद्-रोम-गर्तेषु निलिल्युर् अद्धयस् तस्मै नमः कारण-सूकराय ते
रूपं तवैतन् ननु दुष्कृतात्मनां दुर्दर्शनं देव यद् अध्वरात्मकम् ।
छन्दांसि यस्य त्वचि बर्हि-रोमस्व् आज्यं दृशि त्व् अङ्घ्रिषु चातुर्-होत्रम्
स्रक् तुण्ड आसीत् स्रुव ईश नासयोर् इडोदरे चमसाः कर्ण-रन्ध्रे ।
प्राशित्रम् आस्ये ग्रसने ग्रहास् तु ते यच् चर्वणं ते भगवन्न् अग्नि-होत्रम्
दीक्षानुजन्मोपसदः शिरोधरं त्वं प्रायणीयोदयनीय-दंष्ट्रः ।
जिह्वा प्रवर्ग्यस् तव शीर्षकं क्रतोः सत्यावसथ्यं चितयो ऽसवो हि ते
सोमस् तु रेतः सवनान्य् अवस्थितिः संस्था-विभेदास् तव देव धातवः ।
सत्राणि सर्वाणि शरीर-सन्धिस् त्वं सर्व-यज्ञ-क्रतुर् इष्टि-बन्धनः
नमो नमस् ते ऽखिल-मन्त्र-देवता- द्रव्याय सर्व-क्रतवे क्रियात्मने ।
वैराग्य-भक्त्यात्मजयानुभावित- ज्ञानाय विद्या-गुरवे नमो नमः
दंष्ट्राग्र-कोट्या भगवंस् त्वया धृता विराजते भूधर भूः स-भूधरा ।
यथा वनान् निःसरतो दता धृता मतङ्-गजेन्द्रस्य स-पत्र-पद्मिनी
त्रयीमयं रूपम् इदं च सौकरं भू-मण्डलेनाथ दता धृतेन ते ।
चकास्ति शृङ्गोढ-घनेन भूयसा कुलाचलेन्द्रस्य यथैव विभ्रमः
संस्थापयैनां जगतां स-तस्थुषां लोकाय पत्नीम् असि मातरं पिता ।
विधेम चास्यै नमसा सह त्वया यस्यां स्व-तेजो ऽग्निम् इवारणाव् अधाः
कः श्रद्दधीतान्यतमस् तव प्रभो रसां गताया भुव उद्विबर्हणम् ।
न विस्मयो ऽसौ त्वयि विश्व-विस्मये यो माययेदं ससृजे ऽतिविस्मयम्
विधुन्वता वेदमयं निजं वपुर् जनस्-तपः-सत्य-निवासिनो वयम् ।
सटा-शिखोद्धूत-शिवाम्बु-बिन्दुभिर् विमृज्यमाना भृशम् ईश पाविताः
स वै बत भ्रष्ट-मतिस् तवैषते यः कर्मणां पारम् अपार-कर्मणः ।
यद्-योगमाया-गुण-योग-मोहितं विश्वं समस्तं भगवन् विधेहि शम्
भ्प्_03.13.047।0 मैत्रेय उवाच
इत्य् उपस्थीयमानो ऽसौ मुनिभिर् ब्रह्म-वादिभिः ।
सलिले स्व-खुराक्रान्त उपाधत्तावितावनिम्
स इत्थं भगवान् उर्वीं विष्वक्सेनः प्रजापतिः ।
रसाया लीलयोन्नीताम् अप्सु न्यस्य ययौ हरिः
य एवम् एतां हरि-मेधसो हरेः कथां सुभद्रां कथनीय-मायिनः ।
शृण्वीत भक्त्या श्रवयेत वोशतीं जनार्दनो ऽस्याशु हृदि प्रसीदति
तस्मिन् प्रसन्ने सकलाशिषां प्रभौ किं दुर्लभं ताभिर् अलं लवात्मभिः ।
अनन्य-दृष्ट्या भजतां गुहाशयः स्वयं विधत्ते स्व-गतिं परः पराम्
को नाम लोके पुरुषार्थ-सारवित् पुरा-कथानां भगवत्-कथा-सुधाम् ।
आपीय कर्णाञ्जलिभिर् भवापहाम् अहो विरज्येत विना नरेतरम्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0