भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 03.15

03.15.001

भ्प्_03.15.001।0 मैत्रेय उवाच
प्राजापत्यं तु तत् तेजः पर-तेजो-हनं दितिः ।
दधार वर्षाणि शतं शङ्कमाना सुरार्दनात्

03.15.002

लोके तेनाहतालोके लोक-पाला हतौजसः ।
न्यवेदयन् विश्व-सृजे ध्वान्त-व्यतिकरं दिशाम्

03.15.003

भ्प्_03.15.003।0 देवा ऊचुः
तम एतद् विभो वेत्थ संविग्ना यद् वयं भृशम् ।
न ह्य् अव्यक्तं भगवतः कालेनास्पृष्ट-वर्त्मनः

03.15.004

देव-देव जगद्-धातर् लोकनाथ-शिखामणे ।
परेषाम् अपरेषां त्वं भूतानाम् असि भाव-वित्

03.15.005

नमो विज्ञान-वीर्याय माययेदम् उपेयुषे ।
गृहीत-गुण-भेदाय नमस् ते ऽव्यक्त-योनये

03.15.006

ये त्वानन्येन भावेन भावयन्त्य् आत्म-भावनम् ।
आत्मनि प्रोत-भुवनं परं सद्-असद्-आत्मकम्

03.15.007

तेषां सुपक्व-योगानां जित-श्वासेन्द्रियात्मनाम् ।
लब्ध-युष्मत्-प्रसादानां न कुतश्चित् पराभवः

03.15.008

यस्य वाचा प्रजाः सर्वा गावस् तन्त्येव यन्त्रिताः ।
हरन्ति बलिम् आयत्तास् तस्मै मुख्याय ते नमः

03.15.009

स त्वं विधत्स्व शं भूमंस् तमसा लुप्त-कर्मणाम् ।
अदभ्र-दयया दृष्ट्या आपन्नान् अर्हसीक्षितुम्

03.15.010

एष देव दितेर् गर्भ ओजः काश्यपम् अर्पितम् ।
दिशस् तिमिरयन् सर्वा वर्धते ऽग्निर् इवैधसि

03.15.011

भ्प्_03.15.011।0 मैत्रेय उवाच
स प्रहस्य महा-बाहो भगवान् शब्द-गोचरः ।
प्रत्याचष्टात्म-भूर् देवान् प्रीणन् रुचिरया गिरा

03.15.012

भ्प्_03.15.012।0 ब्रह्मोवाच
मानसा मे सुता युष्मत्- पूर्वजाः सनकादयः ।
चेरुर् विहायसा लोकाल् लोकेषु विगत-स्पृहाः

03.15.013

त एकदा भगवतो वैकुण्ठस्यामलात्मनः ।
ययुर् वैकुण्ठ-निलयं सर्व-लोक-नमस्कृतम्

03.15.014

वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठ-मूर्तयः ।
ये ऽनिमित्त-निमित्तेन धर्मेणाराधयन् हरिम्

03.15.015

यत्र चाद्यः पुमान् आस्ते भगवान् शब्द-गोचरः ।
सत्त्वं विष्टभ्य विरजं स्वानां नो मृडयन् वृषः

03.15.016

यत्र नैःश्रेयसं नाम वनं काम-दुघैर् द्रुमैः ।
सर्वर्तु-श्रीभिर् विभ्राजत् कैवल्यम् इव मूर्तिमत्

03.15.032

वैमानिकाः स-ललनाश् चरितानि शश्वद् $ गायन्ति यत्र शमल-क्षपणानि भर्तुः &अम्प्;
अन्तर्-जले ऽनुविकसन्-मधु-माधवीनां % गन्धेन खण्डित-धियो ऽप्य् अनिलं क्षिपन्तः ॥ भ्प्_03.15.017* ॥
पारावतान्यभृत-सारस-चक्रवाक- $ दात्यूह-हंस-शुक-तित्तिरि-बर्हिणां यः &
पारावतान्यभृत-सारस-चक्रवाक- $ दात्यूह-हंस-शुक-तित्तिरि-बर्हिणां यः &
कोलाहलो विरमते ऽचिर-मात्रम् उच्चैर् % भृङ्गाधिपे हरि-कथाम् इव गायमाने ॥ भ्प्_03.15.018* ॥
मन्दार-कुन्द-कुरबोत्पल-चम्पकार्ण- $ पुन्नाग-नाग-बकुलाम्बुज-पारिजाताः &
मन्दार-कुन्द-कुरबोत्पल-चम्पकार्ण- $ पुन्नाग-नाग-बकुलाम्बुज-पारिजाताः &
गन्धे ऽर्चिते तुलसिकाभरणेन तस्या % यस्मिंस् तपः सुमनसो बहु मानयन्ति ॥ भ्प्_03.15.019* ॥
यत् सङ्कुलं हरि-पदानति-मात्र-दृष्टैर् $ वैदूर्य-मारकत-हेम-मयैर् विमानैः &
यत् सङ्कुलं हरि-पदानति-मात्र-दृष्टैर् $ वैदूर्य-मारकत-हेम-मयैर् विमानैः &
येषां बृहत्-कटि-तटाः स्मित-शोभि-मुख्यः % कृष्णात्मनां न रज आदधुर् उत्स्मयाद्यैः ॥ भ्प्_03.15.020* ॥
श्री रूपिणी क्वणयती चरणारविन्दं $ लीलाम्बुजेन हरि-सद्मनि मुक्त-दोषा &
श्री रूपिणी क्वणयती चरणारविन्दं $ लीलाम्बुजेन हरि-सद्मनि मुक्त-दोषा &
संलक्ष्यते स्फटिक-कुड्य उपेत-हेम्नि % सम्मार्जतीव यद्-अनुग्रहणे ऽन्य-यत्नः ॥ भ्प्_03.15.021* ॥
वापीषु विद्रुम-तटास्व् अमलामृताप्सु $ प्रेष्यान्विता निज-वने तुलसीभिर् ईशम् &
वापीषु विद्रुम-तटास्व् अमलामृताप्सु $ प्रेष्यान्विता निज-वने तुलसीभिर् ईशम् &
अभ्यर्चती स्वलकम् उन्नसम् ईक्ष्य वक्त्रम् % उच्छेषितं भगवतेत्य् अमताङ्ग यच्-छ्रीः ॥ भ्प्_03.15.022* ॥
यन् न व्रजन्त्य् अघ-भिदो रचनानुवादाच् $ छृण्वन्ति ये ऽन्य-विषयाः कुकथा मति-घ्नीः &
यन् न व्रजन्त्य् अघ-भिदो रचनानुवादाच् $ छृण्वन्ति ये ऽन्य-विषयाः कुकथा मति-घ्नीः &
यास् तु श्रुता हत-भगैर् नृभिर् आत्त-सारास् % तांस् तान् क्षिपन्त्य् अशरणेषु तमःसु हन्त ॥ भ्प्_03.15.023* ॥
ये ऽभ्यर्थिताम् अपि च नो नृ-गतिं प्रपन्ना $ ज्ञानं च तत्त्व-विषयं सह-धर्मं यत्र &
ये ऽभ्यर्थिताम् अपि च नो नृ-गतिं प्रपन्ना $ ज्ञानं च तत्त्व-विषयं सह-धर्मं यत्र &
नाराधनं भगवतो वितरन्त्य् अमुष्य % सम्मोहिता विततया बत मायया ते ॥ भ्प्_03.15.024* ॥
यच् च व्रजन्त्य् अनिमिषाम् ऋषभानुवृत्त्या $ दूरे यमा ह्य् उपरि नः स्पृहणीय-शीलाः &
यच् च व्रजन्त्य् अनिमिषाम् ऋषभानुवृत्त्या $ दूरे यमा ह्य् उपरि नः स्पृहणीय-शीलाः &
भर्तुर् मिथः सुयशसः कथनानुराग- % वैक्लव्य-बाष्प-कलया पुलकी-कृताङ्गाः ॥ भ्प्_03.15.025* ॥
तद् विश्व-गुर्व्-अधिकृतं भुवनैक-वन्द्यं $ दिव्यं विचित्र-विबुधाग्र्य-विमान-शोचिः &
तद् विश्व-गुर्व्-अधिकृतं भुवनैक-वन्द्यं $ दिव्यं विचित्र-विबुधाग्र्य-विमान-शोचिः &
आपुः परां मुदम् अपूर्वम् उपेत्य योग- % माया-बलेन मुनयस् तद् अथो विकुण्ठम् ॥ भ्प्_03.15.026* ॥
तस्मिन्न् अतीत्य मुनयः षड् असज्जमानाः $ कक्षाः समान-वयसाव् अथ सप्तमायाम् &
तस्मिन्न् अतीत्य मुनयः षड् असज्जमानाः $ कक्षाः समान-वयसाव् अथ सप्तमायाम् &
देवाव् अचक्षत गृहीत-गदौ परार्ध्य- % केयूर-कुण्डल-किरीट-विटङ्क-वेषौ ॥ भ्प्_03.15.027* ॥
मत्त-द्विरेफ-वनमालिकया निवीतौ $ विन्यस्तयासित-चतुष्टय-बाहु-मध्ये &
मत्त-द्विरेफ-वनमालिकया निवीतौ $ विन्यस्तयासित-चतुष्टय-बाहु-मध्ये &
वक्त्रं भ्रुवा कुटिलया स्फुट-निर्गमाभ्यां % रक्तेक्षणेन च मनाग् रभसं दधानौ ॥ भ्प्_03.15.028* ॥
द्वार्य् एतयोर् निविविशुर् मिषतोर् अपृष्ट्वा $ पूर्वा यथा पुरट-वज्र-कपाटिका याः &
द्वार्य् एतयोर् निविविशुर् मिषतोर् अपृष्ट्वा $ पूर्वा यथा पुरट-वज्र-कपाटिका याः &
सर्वत्र ते ऽविषमया मुनयः स्व-दृष्ट्या % ये सञ्चरन्त्य् अविहता विगताभिशङ्काः ॥ भ्प्_03.15.029* ॥
तान् वीक्ष्य वात-रशनांश् चतुरः कुमारान् $ वृद्धान् दशार्ध-वयसो विदितात्म-तत्त्वान् &
तान् वीक्ष्य वात-रशनांश् चतुरः कुमारान् $ वृद्धान् दशार्ध-वयसो विदितात्म-तत्त्वान् &
वेत्रेण चास्खलयताम् अतद्-अर्हणांस् तौ % तेजो विहस्य भगवत्-प्रतिकूल-शीलौ ॥ भ्प्_03.15.030* ॥
ताभ्यां मिषत्स्व् अनिमिषेषु निषिध्यमानाः $ स्वर्हत्तमा ह्य् अपि हरेः प्रतिहार-पाभ्याम् &
ताभ्यां मिषत्स्व् अनिमिषेषु निषिध्यमानाः $ स्वर्हत्तमा ह्य् अपि हरेः प्रतिहार-पाभ्याम् &
ऊचुः सुहृत्तम-दिदृक्षित-भङ्ग ईषत् % कामानुजेन सहसा त उपप्लुताक्षाः ॥ भ्प्_03.15.031*

03.15.046

0 मुनय ऊचुः
को वाम् इहैत्य भगवत्-परिचर्ययोच्चैस् $ तद्-धर्मिणां निवसतां विषमः स्वभावः &
को वाम् इहैत्य भगवत्-परिचर्ययोच्चैस् $ तद्-धर्मिणां निवसतां विषमः स्वभावः &
तस्मिन् प्रशान्त-पुरुषे गत-विग्रहे वां % को वात्मवत् कुहकयोः परिशङ्कनीयः ॥ भ्प्_03.15.032* ॥
न ह्य् अन्तरं भगवतीह समस्त-कुक्षाव् $ आत्मानम् आत्मनि नभो नभसीव धीराः &
न ह्य् अन्तरं भगवतीह समस्त-कुक्षाव् $ आत्मानम् आत्मनि नभो नभसीव धीराः &
पश्यन्ति यत्र युवयोः सुर-लिङ्गिनोः किं % व्युत्पादितं ह्य् उदर-भेदि भयं यतो ऽस्य ॥ भ्प्_03.15.033* ॥
तद् वाम् अमुष्य परमस्य विकुण्ठ-भर्तुः $ कर्तुं प्रकृष्टम् इह धीमहि मन्द-धीभ्याम् &
तद् वाम् अमुष्य परमस्य विकुण्ठ-भर्तुः $ कर्तुं प्रकृष्टम् इह धीमहि मन्द-धीभ्याम् &
लोकान् इतो व्रजतम् अन्तर-भाव-दृष्ट्या % पापीयसस् त्रय इमे रिपवो ऽस्य यत्र ॥ भ्प्_03.15.034* ॥
तेषाम् इतीरितम् उभाव् अवधार्य घोरं $ तं ब्रह्म-दण्डम् अनिवारणम् अस्त्र-पूगैः &
तेषाम् इतीरितम् उभाव् अवधार्य घोरं $ तं ब्रह्म-दण्डम् अनिवारणम् अस्त्र-पूगैः &
सद्यो हरेर् अनुचराव् उरु बिभ्यतस् तत्- % पाद-ग्रहाव् अपतताम् अतिकातरेण ॥ भ्प्_03.15.035* ॥
भूयाद् अघोनि भगवद्भिर् अकारि दण्डो $ यो नौ हरेत सुर-हेलनम् अप्य् अशेषम् &
भूयाद् अघोनि भगवद्भिर् अकारि दण्डो $ यो नौ हरेत सुर-हेलनम् अप्य् अशेषम् &
मा वो ऽनुताप-कलया भगवत्-स्मृति-घ्नो % मोहो भवेद् इह तु नौ व्रजतोर् अधो ऽधः ॥ भ्प्_03.15.036* ॥
एवं तदैव भगवान् अरविन्द-नाभः $ स्वानां विबुध्य सद्-अतिक्रमम् आर्य-हृद्यः &
एवं तदैव भगवान् अरविन्द-नाभः $ स्वानां विबुध्य सद्-अतिक्रमम् आर्य-हृद्यः &
तस्मिन् ययौ परमहंस-महा-मुनीनाम् % अन्वेषणीय-चरणौ चलयन् सह-श्रीः ॥ भ्प्_03.15.037* ॥
तं त्व् आगतं प्रतिहृतौपयिकं स्व-पुम्भिस् $ ते ऽचक्षताक्ष-विषयं स्व-समाधि-भाग्यम् &
तं त्व् आगतं प्रतिहृतौपयिकं स्व-पुम्भिस् $ ते ऽचक्षताक्ष-विषयं स्व-समाधि-भाग्यम् &
हंस-श्रियोर् व्यजनयोः शिव-वायु-लोलच्- % छुभ्रातपत्र-शशि-केसर-शीकराम्बुम् ॥ भ्प्_03.15.038* ॥
कृत्स्न-प्रसाद-सुमुखं स्पृहणीय-धाम $ स्नेहावलोक-कलया हृदि संस्पृशन्तम् &
कृत्स्न-प्रसाद-सुमुखं स्पृहणीय-धाम $ स्नेहावलोक-कलया हृदि संस्पृशन्तम् &
श्यामे पृथाव् उरसि शोभितया श्रिया स्वश्- % चूडामणिं सुभगयन्तम् इवात्म-धिष्ण्यम् ॥ भ्प्_03.15.039* ॥
पीतांशुके पृथु-नितम्बिनि विस्फुरन्त्या $ काञ्च्यालिभिर् विरुतया वन-मालया च &
पीतांशुके पृथु-नितम्बिनि विस्फुरन्त्या $ काञ्च्यालिभिर् विरुतया वन-मालया च &
वल्गु-प्रकोष्ठ-वलयं विनता-सुतांसे % विन्यस्त-हस्तम् इतरेण धुनानम् अब्जम् ॥ भ्प्_03.15.040* ॥
विद्युत्-क्षिपन्-मकर-कुण्डल-मण्डनार्ह- $ गण्ड-स्थलोन्नस-मुखं मणिमत्-किरीटम् &
विद्युत्-क्षिपन्-मकर-कुण्डल-मण्डनार्ह- $ गण्ड-स्थलोन्नस-मुखं मणिमत्-किरीटम् &
दोर्-दण्ड-षण्ड-विवरे हरता परार्ध्य- % हारेण कन्धर-गतेन च कौस्तुभेन ॥ भ्प्_03.15.041* ॥
अत्रोपसृष्टम् इति चोत्स्मितम् इन्दिरायाः $ स्वानां धिया विरचितं बहु-सौष्ठवाढ्यम् &
अत्रोपसृष्टम् इति चोत्स्मितम् इन्दिरायाः $ स्वानां धिया विरचितं बहु-सौष्ठवाढ्यम् &
मह्यं भवस्य भवतां च भजन्तम् अङ्गं % नेमुर् निरीक्ष्य न वितृप्त-दृशो मुदा कैः ॥ भ्प्_03.15.042* ॥
तस्यारविन्द-नयनस्य पदारविन्द- $ किञ्जल्क-मिश्र-तुलसी-मकरन्द-वायुः &
तस्यारविन्द-नयनस्य पदारविन्द- $ किञ्जल्क-मिश्र-तुलसी-मकरन्द-वायुः &
अन्तर्-गतः स्व-विवरेण चकार तेषां % सङ्क्षोभम् अक्षर-जुषाम् अपि चित्त-तन्वोः ॥ भ्प्_03.15.043* ॥
ते वा अमुष्य वदनासित-पद्म-कोशम् $ उद्वीक्ष्य सुन्दरतराधर-कुन्द-हासम् &
ते वा अमुष्य वदनासित-पद्म-कोशम् $ उद्वीक्ष्य सुन्दरतराधर-कुन्द-हासम् &
लब्धाशिषः पुनर् अवेक्ष्य तदीयम् अङ्घ्रि- % द्वन्द्वं नखारुण-मणि-श्रयणं निदध्युः ॥ भ्प्_03.15.044* ॥
पुंसां गतिं मृगयताम् इह योग-मार्गैर् $ ध्यानास्पदं बहु-मतं नयनाभिरामम् &
पुंसां गतिं मृगयताम् इह योग-मार्गैर् $ ध्यानास्पदं बहु-मतं नयनाभिरामम् &
पौंस्नं वपुर् दर्शयानम् अनन्य-सिद्धैर् % औत्पत्तिकैः समगृणन् युतम् अष्ट-भोगैः ॥ भ्प्_03.15.045*

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc