भागवत पुराण · अध्याय 03.12
भ्प्_03.12.001।0 मैत्रेय उवाच
इति ते वर्णितः क्षत्तः कालाख्यः परमात्मनः ।
महिमा वेद-गर्भो ऽथ यथास्राक्षीन् निबोध मे
ससर्जाग्रे ऽन्ध-तामिस्रम् अथ तामिस्रम् आदि-कृत् ।
महामोहं च मोहं च तमश् चाज्ञान-वृत्तयः
दृष्ट्वा पापीयसीं सृष्टिं नात्मानं बह्व् अमन्यत ।
भगवद्-ध्यान-पूतेन मनसान्यां ततो ऽसृजत्
सनकं च सनन्दं च सनातनम् अथात्मभूः ।
सनत्-कुमारं च मुनीन् निष्क्रियान् ऊर्ध्व-रेतसः
तान् बभाषे स्वभूः पुत्रान् प्रजाः सृजत पुत्रकाः ।
तन् नैच्छन् मोक्ष-धर्माणो वासुदेव-परायणाः
सो ऽवध्यातः सुतैर् एवं प्रत्याख्यातानुशासनैः ।
क्रोधं दुर्विषहं जातं नियन्तुम् उपचक्रमे
धिया निगृह्यमाणो ऽपि भ्रुवोर् मध्यात् प्रजापतेः ।
सद्यो ऽजायत तन्-मन्युः कुमारो नील-लोहितः
स वै रुरोद देवानां पूर्वजो भगवान् भवः ।
नामानि कुरु मे धातः स्थानानि च जगद्-गुरो
इति तस्य वचः पाद्मो भगवान् परिपालयन् ।
अभ्यधाद् भद्रया वाचा मा रोदीस् तत् करोमि ते
यद् अरोदीः सुर-श्रेष्ठ सोद्वेग इव बालकः ।
ततस् त्वाम् अभिधास्यन्ति नाम्ना रुद्र इति प्रजाः
हृद् इन्द्रियाण्य् असुर् व्योम वायुर् अग्निर् जलं मही ।
सूर्यश् चन्द्रस् तपश् चैव स्थानान्य् अग्रे कृतानि ते
मन्युर् मनुर् महिनसो महाञ् छिव ऋतध्वजः ।
उग्ररेता भवः कालो वामदेवो धृतव्रतः
धीर् धृति-रसलोमा च नियुत् सर्पिर् इलाम्बिका ।
इरावती स्वधा दीक्षा रुद्राण्यो रुद्र ते स्त्रियः
गृहाणैतानि नामानि स्थानानि च स-योषणः ।
एभिः सृज प्रजा बह्वीः प्रजानाम् असि यत् पतिः
इत्य् आदिष्टः स्व-गुरुणा भगवान् नील-लोहितः ।
सत्त्वाकृति-स्वभावेन ससर्जात्म-समाः प्रजाः
रुद्राणां रुद्र-सृष्टानां समन्ताद् ग्रसतां जगत् ।
निशाम्यासङ्ख्यशो यूथान् प्रजापतिर् अशङ्कत
अलं प्रजाभिः सृष्टाभिर् ईदृशीभिः सुरोत्तम ।
मया सह दहन्तीभिर् दिशश् चक्षुर्भिर् उल्बणैः
तप आतिष्ठ भद्रं ते सर्व-भूत-सुखावहम् ।
तपसैव यथा पूर्वं स्रष्टा विश्वम् इदं भवान्
तपसैव परं ज्योतिर् भगवन्तम् अधोक्षजम् ।
सर्व-भूत-गुहावासम् अञ्जसा विन्दते पुमान्
भ्प्_03.12.020।0 मैत्रेय उवाच
एवम् आत्मभुवादिष्टः परिक्रम्य गिरां पतिम् ।
बाढम् इत्य् अमुम् आमन्त्र्य विवेश तपसे वनम्
अथाभिध्यायतः सर्गं दश पुत्राः प्रजज्ञिरे ।
भगवच्-छक्ति-युक्तस्य लोक-सन्तान-हेतवः
मरीचिर् अत्र्य्-अङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।
भृगुर् वसिष्ठो दक्षश् च दशमस् तत्र नारदः
उत्सङ्गान् नारदो जज्ञे दक्षो ऽङ्गुष्ठात् स्वयम्भुवः ।
प्राणाद् वसिष्ठः सञ्जातो भृगुस् त्वचि करात् क्रतुः
पुलहो नाभितो जज्ञे पुलस्त्यः कर्णयोर् ऋषिः ।
अङ्गिरा मुखतो ऽक्ष्णो ऽत्रिर् मरीचिर् मनसो ऽभवत्
धर्मः स्तनाद् दक्षिणतो यत्र नारायणः स्वयम् ।
अधर्मः पृष्ठतो यस्मान् मृत्युर् लोक-भयङ्करः
हृदि कामो भ्रुवः क्रोधो लोभश् चाधर-दच्छदात् ।
आस्याद् वाक् सिन्धवो मेढ्रान् निरृतिः पायोर् अघाश्रयः
छायायाः कर्दमो जज्ञे देवहूत्याः पतिः प्रभुः ।
मनसो देहतश् चेदं जज्ञे विश्व-कृतो जगत्
वाचं दुहितरं तन्वीं स्वयम्भूर् हरतीं मनः ।
अकामां चकमे क्षत्तः स-काम इति नः श्रुतम्
तम् अधर्मे कृत-मतिं विलोक्य पितरं सुताः ।
मरीचि-मुख्या मुनयो विश्रम्भात् प्रत्यबोधयन्
नैतत् पूर्वैः कृतं त्वद् ये न करिष्यन्ति चापरे ।
यस् त्वं दुहितरं गच्छेर् अनिगृह्याङ्गजं प्रभुः
तेजीयसाम् अपि ह्य् एतन् न सुश्लोक्यं जगद्-गुरो ।
यद्-वृत्तम् अनुतिष्ठन् वै लोकः क्षेमाय कल्पते
तस्मै नमो भगवते य इदं स्वेन रोचिषा ।
आत्म-स्थं व्यञ्जयाम् आस स धर्मं पातुम् अर्हति
स इत्थं गृणतः पुत्रान् पुरो दृष्ट्वा प्रजापतीन् ।
प्रजापति-पतिस् तन्वं तत्याज व्रीडितस् तदा ।
तां दिशो जगृहुर् घोरां नीहारं यद् विदुस् तमः
कदाचिद् ध्यायतः स्रष्टुर् वेदा आसंश् चतुर्-मुखात् ।
कथं स्रक्ष्याम्य् अहं लोकान् समवेतान् यथा पुरा
चातुर्-होत्रं कर्म-तन्त्रम् उपवेद-नयैः सह ।
धर्मस्य पादाश् चत्वारस् तथैवाश्रम-वृत्तयः
भ्प्_03.12.036।0 विदुर उवाच
स वै विश्व-सृजाम् ईशो वेदादीन् मुखतो ऽसृजत् ।
यद् यद् येनासृजद् देवस् तन् मे ब्रूहि तपो-धन
भ्प्_03.12.037।0 मैत्रेय उवाच
ऋग्-यजुः-सामाथर्वाख्यान् वेदान् पूर्वादिभिर् मुखैः ।
शास्त्रम् इज्यां स्तुति-स्तोमं प्रायश्चित्तं व्यधात् क्रमात्
आयुर्-वेदं धनुर्-वेदं गान्धर्वं वेदम् आत्मनः ।
स्थापत्यं चासृजद् वेदं क्रमात् पूर्वादिभिर् मुखैः
इतिहास-पुराणानि पञ्चमं वेदम् ईश्वरः ।
सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्व-दर्शनः
षोडश्य्-उक्थौ पूर्व-वक्त्रात् पुरीष्य्-अग्निष्टुताव् अथ ।
आप्तोर्यामातिरात्रौ च वाजपेयं सगोसवम्
विद्या दानं तपः सत्यं धर्मस्येति पदानि च ।
आश्रमांश् च यथा-सङ्ख्यम् असृजत् सह वृत्तिभिः
सावित्रं प्राजापत्यं च ब्राह्मं चाथ बृहत् तथा ।
वार्ता सञ्चय-शालीन- शिलोञ्छ इति वै गृहे
वैखानसा वालखिल्यौ- दुम्बराः फेनपा वने ।
न्यासे कुटीचकः पूर्वं बह्वोदो हंस-निष्क्रियौ
आन्वीक्षिकी त्रयी वार्ता दण्ड-नीतिस् तथैव च ।
एवं व्याहृतयश् चासन् प्रणवो ह्य् अस्य दह्रतः
तस्योष्णिग् आसील् लोमभ्यो गायत्री च त्वचो विभोः ।
त्रिष्टुम् मांसात् स्नुतो ऽनुष्टुब् जगत्य् अस्थ्नः प्रजापतेः
मज्जायाः पङ्क्तिर् उत्पन्ना बृहती प्राणतो ऽभवत् ।
स्पर्शस् तस्याभवज् जीवः स्वरो देह उदाहृत
ऊष्माणम् इन्द्रियाण्य् आहुर् अन्तः-स्था बलम् आत्मनः ।
स्वराः सप्त विहारेण भवन्ति स्म प्रजापतेः
शब्द-ब्रह्मात्मनस् तस्य व्यक्ताव्यक्तात्मनः परः ।
ब्रह्मावभाति विततो नाना-शक्त्य्-उपबृंहितः
ततो ऽपराम् उपादाय स सर्गाय मनो दधे ।
ऋषीणां भूरि-वीर्याणाम् अपि सर्गम् अविस्तृतम्
ज्ञात्वा तद् धृदये भूयश् चिन्तयाम् आस कौरव ।
अहो अद्भुतम् एतन् मे व्यापृतस्यापि नित्यदा
न ह्य् एधन्ते प्रजा नूनं दैवम् अत्र विघातकम् ।
एवं युक्त-कृतस् तस्य दैवं चावेक्षतस् तदा
कस्य रूपम् अभूद् द्वेधा यत् कायम् अभिचक्षते ।
ताभ्यां रूप-विभागाभ्यां मिथुनं समपद्यत
यस् तु तत्र पुमान् सो ऽभून् मनुः स्वायम्भुवः स्वराट् ।
स्त्री यासीच् छतरूपाख्या महिष्य् अस्य महात्मनः
तदा मिथुन-धर्मेण प्रजा ह्य् एधाम् बभूविरे ।
स चापि शतरूपायां पञ्चापत्यान्य् अजीजनत्
प्रियव्रतोत्तानपादौ तिस्रः कन्याश् च भारत ।
आकूतिर् देवहूतिश् च प्रसूतिर् इति सत्तम
आकूतिं रुचये प्रादात् कर्दमाय तु मध्यमाम् ।
दक्षायादात् प्रसूतिं च यत आपूरितं जगत्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0