भागवत पुराण · अध्याय 03.11
भ्प्_03.11.001।0 मैत्रेय उवाच
चरमः सद्-विशेषाणाम् अनेको ऽसंयुतः सदा ।
परमाणुः स विज्ञेयो नृणाम् ऐक्य-भ्रमो यतः
सत एव पदार्थस्य स्वरूपावस्थितस्य यत् ।
कैवल्यं परम-महान् अविशेषो निरन्तरः
एवं कालो ऽप्य् अनुमितः सौक्ष्म्ये स्थौल्ये च सत्तम ।
संस्थान-भुक्त्या भगवान् अव्यक्तो व्यक्त-भुग् विभुः
स कालः परमाणुर् वै यो भुङ्क्ते परमाणुताम् ।
सतो ऽविशेष-भुग् यस् तु स कालः परमो महान्
अणुर् द्वौ परमाणू स्यात् त्रसरेणुस् त्रयः स्मृतः ।
जालार्क-रश्म्य्-अवगतः खम् एवानुपतन्न् अगात्
त्रसरेणु-त्रिकं भुङ्क्ते यः कालः स त्रुटिः स्मृतः ।
शत-भागस् तु वेधः स्यात् तैस् त्रिभिस् तु लवः स्मृतः
निमेषस् त्रि-लवो ज्ञेय आम्नातस् ते त्रयः क्षणः ।
क्षणान् पञ्च विदुः काष्ठां लघु ता दश पञ्च च
लघूनि वै समाम्नाता दश पञ्च च नाडिका ।
ते द्वे मुहूर्तः प्रहरः षड् यामः सप्त वा नृणाम्
द्वादशार्ध-पलोन्मानं चतुर्भिश् चतुर्-अङ्गुलैः ।
स्वर्ण-माषैः कृत-च्छिद्रं यावत् प्रस्थ-जल-प्लुतम्
यामाश् चत्वारश् चत्वारो मर्त्यानाम् अहनी उभे ।
पक्षः पञ्च-दशाहानि शुक्लः कृष्णश् च मानद
तयोः समुच्चयो मासः पितॄणां तद् अहर्-निशम् ।
द्वौ ताव् ऋतुः षड् अयनं दक्षिणं चोत्तरं दिवि
अयने चाहनी प्राहुर् वत्सरो द्वादश स्मृतः ।
संवत्सर-शतं न्-णां परमायुर् निरूपितम्
ग्रहर्क्ष-तारा-चक्र-स्थः परमाण्व्-आदिना जगत् ।
संवत्सरावसानेन पर्येत्य् अनिमिषो विभुः
संवत्सरः परिवत्सर इडा-वत्सर एव च ।
अनुवत्सरो वत्सरश् च विदुरैवं प्रभाष्यते
यः सृज्य-शक्तिम् उरुधोच्छ्वसयन् स्व-शक्त्या $ पुंसो ऽभ्रमाय दिवि धावति भूत-भेदः &अम्प्;
कालाख्यया गुणमयं क्रतुभिर् वितन्वंस् % तस्मै बलिं हरत वत्सर-पञ्चकाय ॥ भ्प्_03.11.015*
0 विदुर उवाच
पितृ-देव-मनुष्याणाम् आयुः परम् इदं स्मृतम् ।
परेषां गतिम् आचक्ष्व ये स्युः कल्पाद् बहिर् विदः
भगवान् वेद कालस्य गतिं भगवतो ननु ।
विश्वं विचक्षते धीरा योग-राद्धेन चक्षुषा
भ्प्_03.11.018।0 मैत्रेय उवाच
कृतं त्रेता द्वापरं च कलिश् चेति चतुर्-युगम् ।
दिव्यैर् द्वादशभिर् वर्षैः सावधानं निरूपितम्
चत्वारि त्रीणि द्वे चैकं कृतादिषु यथा-क्रमम् ।
सङ्ख्यातानि सहस्राणि द्वि-गुणानि शतानि च
सन्ध्या-सन्ध्यांशयोर् अन्तर् यः कालः शत-सङ्ख्ययोः ।
तम् एवाहुर् युगं तज्-ज्ञा यत्र धर्मो विधीयते
धर्मश् चतुष्-पान् मनुजान् कृते समनुवर्तते ।
स एवान्येष्व् अधर्मेण व्येति पादेन वर्धता
त्रि-लोक्या युग-साहस्रं बहिर् आब्रह्मणो दिनम् ।
तावत्य् एव निशा तात यन् निमीलति विश्व-सृक्
निशावसान आरब्धो लोक-कल्पो ऽनुवर्तते ।
यावद् दिनं भगवतो मनून् भुञ्जंश् चतुर्-दश
स्वं स्वं कालं मनुर् भुङ्क्ते साधिकां ह्य् एक-सप्ततिम् ।
मन्वन्तरेषु मनवस् तद्-वंश्या ऋषयः सुराः ।
भवन्ति चैव युगपत् सुरेशाश् चानु ये च तान्
एष दैनन्-दिनः सर्गो ब्राह्मस् त्रैलोक्य-वर्तनः ।
तिर्यङ्-नृ-पितृ-देवानां सम्भवो यत्र कर्मभिः
मन्वन्तरेषु भगवान् बिभ्रत् सत्त्वं स्व-मूर्तिभिः ।
मन्व्-आदिभिर् इदं विश्वम् अवत्य् उदित-पौरुषः
तमो-मात्राम् उपादाय प्रतिसंरुद्ध-विक्रमः ।
कालेनानुगताशेष आस्ते तूष्णीं दिनात्यये
तम् एवान्व् अपि धीयन्ते लोका भूर्-आदयस् त्रयः ।
निशायाम् अनुवृत्तायां निर्मुक्त-शशि-भास्करम्
त्रि-लोक्यां दह्यमानायां शक्त्या सङ्कर्षणाग्निना ।
यान्त्य् ऊष्मणा महर्लोकाज् जनं भृग्व्-आदयो ऽर्दिताः
तावत् त्रि-भुवनं सद्यः कल्पान्तैधित-सिन्धवः ।
प्लावयन्त्य् उत्कटाटोप- चण्ड-वातेरितोर्मयः
अन्तः स तस्मिन् सलिल आस्ते ऽनन्तासनो हरिः ।
योग-निद्रा-निमीलाक्षः स्तूयमानो जनालयैः
एवं-विधैर् अहो-रात्रैः काल-गत्योपलक्षितैः ।
अपक्षितम् इवास्यापि परमायुर् वयः-शतम्
यद् अर्धम् आयुषस् तस्य परार्धम् अभिधीयते ।
पूर्वः परार्धो ऽपक्रान्तो ह्य् अपरो ऽद्य प्रवर्तते
पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महान् अभूत् ।
कल्पो यत्राभवद् ब्रह्मा शब्द-ब्रह्मेति यं विदुः
तस्यैव चान्ते कल्पो ऽभूद् यं पाद्मम् अभिचक्षते ।
यद् धरेर् नाभि-सरस आसील् लोक-सरोरुहम्
अयं तु कथितः कल्पो द्वितीयस्यापि भारत ।
वाराह इति विख्यातो यत्रासीच् छूकरो हरिः
कालो ऽयं द्वि-परार्धाख्यो निमेष उपचर्यते ।
अव्याकृतस्यानन्तस्य ह्य् अनादेर् जगद्-आत्मनः
कालो ऽयं परमाण्व्-आदिर् द्वि-परार्धान्त ईश्वरः ।
नैवेशितुं प्रभुर् भूम्न ईश्वरो धाम-मानिनाम्
विकारैः सहितो युक्तैर् विशेषादिभिर् आवृतः ।
आण्डकोशो बहिर् अयं पञ्चाशत्-कोटि-विस्तृतः
दशोत्तराधिकैर् यत्र प्रविष्टः परमाणुवत् ।
लक्ष्यते ऽन्तर्-गताश् चान्ये कोटिशो ह्य् अण्ड-राशयः
तद् आहुर् अक्षरं ब्रह्म सर्व-कारण-कारणम् ।
विष्णोर् धाम परं साक्षात् पुरुषस्य महात्मनः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0