भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 03.10

03.10.001

भ्प्_03.10.001।0 विदुर उवाच
अन्तर्हिते भगवति ब्रह्मा लोक-पितामहः ।
प्रजाः ससर्ज कतिधा दैहिकीर् मानसीर् विभुः

03.10.002

ये च मे भगवन् पृष्टास् त्वय्य् अर्था बहुवित्तम ।
तान् वदस्वानुपूर्व्येण छिन्धि नः सर्व-संशयान्

03.10.003

भ्प्_03.10.003।0 सूत उवाच
एवं सञ्चोदितस् तेन क्षत्त्रा कौषारविर् मुनिः ।
प्रीतः प्रत्याह तान् प्रश्नान् हृदि-स्थान् अथ भार्गव

03.10.004

भ्प्_03.10.004।0 मैत्रेय उवाच
विरिञ्चो ऽपि तथा चक्रे दिव्यं वर्ष-शतं तपः ।
आत्मन्य् आत्मानम् आवेश्य यथाह भगवान् अजः

03.10.005

तद् विलोक्याब्ज-सम्भूतो वायुना यद्-अधिष्ठितः ।
पद्मम् अम्भश् च तत्-काल- कृत-वीर्येण कम्पितम्

03.10.006

तपसा ह्य् एधमानेन विद्यया चात्म-संस्थया ।
विवृद्ध-विज्ञान-बलो न्यपाद् वायुं सहाम्भसा

03.10.007

तद् विलोक्य वियद्-व्यापि पुष्करं यद्-अधिष्ठितम् ।
अनेन लोकान् प्राग्-लीनान् कल्पितास्मीत्य् अचिन्तयत्

03.10.008

पद्म-कोशं तदाविश्य भगवत्-कर्म-चोदितः ।
एकं व्यभाङ्क्षीद् उरुधा त्रिधा भाव्यं द्वि-सप्तधा

03.10.009

एतावाञ् जीव-लोकस्य संस्था-भेदः समाहृतः ।
धर्मस्य ह्य् अनिमित्तस्य विपाकः परमेष्ठ्य् असौ

03.10.010

भ्प्_03.10.010।0 विदुर उवाच
यथात्थ बहु-रूपस्य हरेर् अद्भुत-कर्मणः ।
कालाख्यं लक्षणं ब्रह्मन् यथा वर्णय नः प्रभो

03.10.011

भ्प्_03.10.011।0 मैत्रेय उवाच
गुण-व्यतिकराकारो निर्विशेषो ऽप्रतिष्ठितः ।
पुरुषस् तद्-उपादानम् आत्मानं लीलयासृजत्

03.10.012

विश्वं वै ब्रह्म-तन्-मात्रं संस्थितं विष्णु-मायया ।
ईश्वरेण परिच्छिन्नं कालेनाव्यक्त-मूर्तिना

03.10.013

यथेदानीं तथाग्रे च पश्चाद् अप्य् एतद् ईदृशम् ।
सर्गो नव-विधस् तस्य प्राकृतो वैकृतस् तु यः

03.10.014

काल-द्रव्य-गुणैर् अस्य त्रि-विधः प्रतिसङ्क्रमः ।
आद्यस् तु महतः सर्गो गुण-वैषम्यम् आत्मनः

03.10.015

द्वितीयस् त्व् अहमो यत्र द्रव्य-ज्ञान-क्रियोदयः ।
भूत-सर्गस् तृतीयस् तु तन्-मात्रो द्रव्य-शक्तिमान्

03.10.016

चतुर्थ ऐन्द्रियः सर्गो यस् तु ज्ञान-क्रियात्मकः ।
वैकारिको देव-सर्गः पञ्चमो यन्-मयं मनः

03.10.017

षष्ठस् तु तमसः सर्गो यस् त्व् अबुद्धि-कृतः प्रभोः ।
षड् इमे प्राकृताः सर्गा वैकृतान् अपि मे शृणु

03.10.018

रजो-भाजो भगवतो लीलेयं हरि-मेधसः ।
सप्तमो मुख्य-सर्गस् तु षड्-विधस् तस्थुषां च यः

03.10.019

वनस्पत्य्-ओषधि-लता- त्वक्सारा वीरुधो द्रुमाः ।
उत्स्रोतसस् तमः-प्राया अन्तः-स्पर्शा विशेषिणः

03.10.020

तिरश्चाम् अष्टमः सर्गः सो ऽष्टाविंशद्-विधो मतः ।
अविदो भूरि-तमसो घ्राण-ज्ञा हृद्य् अवेदिनः

03.10.021

गौर् अजो महिषः कृष्णः सूकरो गवयो रुरुः ।
द्वि-शफाः पशवश् चेमे अविर् उष्ट्रश् च सत्तम

03.10.022

खरो ऽश्वो ऽश्वतरो गौरः शरभश् चमरी तथा ।
एते चैक-शफाः क्षत्तः शृणु पञ्च-नखान् पशून्

03.10.023

श्वा सृगालो वृको व्याघ्रो मार्जारः शश-शल्लकौ ।
सिंहः कपिर् गजः कूर्मो गोधा च मकरादयः

03.10.024

कङ्क-गृध्र-बक-श्येन- भास-भल्लूक-बर्हिणः ।
हंस-सारस-चक्राह्व- काकोलूकादयः खगाः

03.10.025

अर्वाक्-स्रोतस् तु नवमः क्षत्तर् एक-विधो नृणाम् ।
रजो ऽधिकाः कर्म-परा दुःखे च सुख-मानिनः

03.10.026

वैकृतास् त्रय एवैते देव-सर्गश् च सत्तम ।
वैकारिकस् तु यः प्रोक्तः कौमारस् तूभयात्मकः

03.10.027

देव-सर्गश् चाष्ट-विधो विबुधाः पितरो ऽसुराः ।
गन्धर्वाप्सरसः सिद्धा यक्ष-रक्षांसि चारणाः

03.10.028

भूत-प्रेत-पिशाचाश् च विद्याध्राः किन्नरादयः ।
दशैते विदुराख्याताः सर्गास् ते विश्व-सृक्-कृताः

03.10.029

अतः परं प्रवक्ष्यामि वंशान् मन्वन्तराणि च ।
एवं रजः-प्लुतः स्रष्टा कल्पादिष्व् आत्मभूर् हरिः ।
सृजत्य् अमोघ-सङ्कल्प आत्मैवात्मानम् आत्मना

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc