भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 03.09

03.09.026

भ्प्_03.09.001।0 ब्रह्मोवाच
ज्ञातो ऽसि मे ऽद्य सुचिरान् ननु देह-भाजां $ न ज्ञायते भगवतो गतिर् इत्य् अवद्यम् &
ज्ञातो ऽसि मे ऽद्य सुचिरान् ननु देह-भाजां $ न ज्ञायते भगवतो गतिर् इत्य् अवद्यम् &
नान्यत् त्वद् अस्ति भगवन्न् अपि तन् न शुद्धं % माया-गुण-व्यतिकराद् यद् उरुर् विभासि ॥ भ्प्_03.09.001* ॥
रूपं यद् एतद् अवबोध-रसोदयेन $ शश्वन्-निवृत्त-तमसः सद्-अनुग्रहाय &
रूपं यद् एतद् अवबोध-रसोदयेन $ शश्वन्-निवृत्त-तमसः सद्-अनुग्रहाय &
आदौ गृहीतम् अवतार-शतैक-बीजं % यन्-नाभि-पद्म-भवनाद् अहम् आविरासम् ॥ भ्प्_03.09.002* ॥
नातः परं परम यद् भवतः स्वरूपम् $ आनन्द-मात्रम् अविकल्पम् अविद्ध-वर्चः &
नातः परं परम यद् भवतः स्वरूपम् $ आनन्द-मात्रम् अविकल्पम् अविद्ध-वर्चः &
पश्यामि विश्व-सृजम् एकम् अविश्वम् आत्मन् % भूतेन्द्रियात्मक-मदस् त उपाश्रितो ऽस्मि ॥ भ्प्_03.09.003* ॥
तद् वा इदं भुवन-मङ्गल मङ्गलाय $ ध्याने स्म नो दर्शितं त उपासकानाम् &
तद् वा इदं भुवन-मङ्गल मङ्गलाय $ ध्याने स्म नो दर्शितं त उपासकानाम् &
तस्मै नमो भगवते ऽनुविधेम तुभ्यं % यो ऽनादृतो नरक-भाग्भिर् असत्-प्रसङ्गैः ॥ भ्प्_03.09.004* ॥
ये तु त्वदीय-चरणाम्बुज-कोश-गन्धं $ जिघ्रन्ति कर्ण-विवरैः श्रुति-वात-नीतम् &
ये तु त्वदीय-चरणाम्बुज-कोश-गन्धं $ जिघ्रन्ति कर्ण-विवरैः श्रुति-वात-नीतम् &
भक्त्या गृहीत-चरणः परया च तेषां % नापैषि नाथ हृदयाम्बुरुहात् स्व-पुंसाम् ॥ भ्प्_03.09.005* ॥
तावद् भयं द्रविण-देह-सुहृन्-निमित्तं $ शोकः स्पृहा परिभवो विपुलश् च लोभः &
तावद् भयं द्रविण-देह-सुहृन्-निमित्तं $ शोकः स्पृहा परिभवो विपुलश् च लोभः &
तावन् ममेत्य् असद्-अवग्रह आर्ति-मूलं % यावन् न ते ऽङ्घ्रिम् अभयं प्रवृणीत लोकः ॥ भ्प्_03.09.006* ॥
दैवेन ते हत-धियो भवतः प्रसङ्गात् $ सर्वाशुभोपशमनाद् विमुखेन्द्रिया ये &
दैवेन ते हत-धियो भवतः प्रसङ्गात् $ सर्वाशुभोपशमनाद् विमुखेन्द्रिया ये &
कुर्वन्ति काम-सुख-लेश-लवाय दीना % लोभाभिभूत-मनसो ऽकुशलानि शश्वत् ॥ भ्प्_03.09.007* ॥
क्षुत्-तृट्-त्रिधातुभिर् इमा मुहुर् अर्द्यमानाः $ शीतोष्ण-वात-वरषैर् इतरेतराच् च &
क्षुत्-तृट्-त्रिधातुभिर् इमा मुहुर् अर्द्यमानाः $ शीतोष्ण-वात-वरषैर् इतरेतराच् च &
कामाग्निनाच्युत-रुषा च सुदुर्भरेण % सम्पश्यतो मन उरुक्रम सीदते मे ॥ भ्प्_03.09.008* ॥
यावत् पृथक्त्वम् इदम् आत्मन इन्द्रियार्थ- $ माया-बलं भगवतो जन ईश पश्येत् &
यावत् पृथक्त्वम् इदम् आत्मन इन्द्रियार्थ- $ माया-बलं भगवतो जन ईश पश्येत् &
तावन् न संसृतिर् असौ प्रतिसङ्क्रमेत % व्यर्थापि दुःख-निवहं वहती क्रियार्था ॥ भ्प्_03.09.009* ॥
अह्न्य् आपृतार्त-करणा निशि निःशयाना $ नाना-मनोरथ-धिया क्षण-भग्न-निद्राः &
अह्न्य् आपृतार्त-करणा निशि निःशयाना $ नाना-मनोरथ-धिया क्षण-भग्न-निद्राः &
दैवाहतार्थ-रचना ऋषयो ऽपि देव % युष्मत्-प्रसङ्ग-विमुखा इह संसरन्ति ॥ भ्प्_03.09.010* ॥
त्वं भक्ति-योग-परिभावित-हृत्-सरोज $ आस्से श्रुतेक्षित-पथो ननु नाथ पुंसाम् &
त्वं भक्ति-योग-परिभावित-हृत्-सरोज $ आस्से श्रुतेक्षित-पथो ननु नाथ पुंसाम् &
यद्-यद्-धिया त उरुगाय विभावयन्ति % तत्-तद्-वपुः प्रणयसे सद्-अनुग्रहाय ॥ भ्प्_03.09.011* ॥
नातिप्रसीदति तथोपचितोपचारैर् $ आराधितः सुर-गणैर् हृदि बद्ध-कामैः &
नातिप्रसीदति तथोपचितोपचारैर् $ आराधितः सुर-गणैर् हृदि बद्ध-कामैः &
यत् सर्व-भूत-दययासद्-अलभ्ययैको % नाना-जनेष्व् अवहितः सुहृद् अन्तर्-आत्मा ॥ भ्प्_03.09.012* ॥
पुंसाम् अतो विविध-कर्मभिर् अध्वराद्यैर् $ दानेन चोग्र-तपसा परिचर्यया च &
पुंसाम् अतो विविध-कर्मभिर् अध्वराद्यैर् $ दानेन चोग्र-तपसा परिचर्यया च &
आराधनं भगवतस् तव सत्-क्रियार्थो % धर्मो ऽर्पितः कर्हिचिद् म्रियते न यत्र ॥ भ्प्_03.09.013* ॥
शश्वत् स्वरूप-महसैव निपीत-भेद- $ मोहाय बोध-धिषणाय नमः परस्मै &
शश्वत् स्वरूप-महसैव निपीत-भेद- $ मोहाय बोध-धिषणाय नमः परस्मै &
विश्वोद्भव-स्थिति-लयेषु निमित्त-लीला- % रासाय ते नम इदं चकृमेश्वराय ॥ भ्प्_03.09.014* ॥
यस्यावतार-गुण-कर्म-विडम्बनानि $ नामानि ये ऽसु-विगमे विवशा गृणन्ति &
यस्यावतार-गुण-कर्म-विडम्बनानि $ नामानि ये ऽसु-विगमे विवशा गृणन्ति &
ते ऽनैक-जन्म-शमलं सहसैव हित्वा % संयान्त्य् अपावृतामृतं तम् अजं प्रपद्ये ॥ भ्प्_03.09.015* ॥
यो वा अहं च गिरिशश् च विभुः स्वयं च $ स्थित्य्-उद्भव-प्रलय-हेतव आत्म-मूलम् &
यो वा अहं च गिरिशश् च विभुः स्वयं च $ स्थित्य्-उद्भव-प्रलय-हेतव आत्म-मूलम् &
भित्त्वा त्रि-पाद् ववृध एक उरु-प्ररोहस् % तस्मै नमो भगवते भुवन-द्रुमाय ॥ भ्प्_03.09.016* ॥
लोको विकर्म-निरतः कुशले प्रमत्तः $ कर्मण्य् अयं त्वद्-उदिते भवद्-अर्चने स्वे &
लोको विकर्म-निरतः कुशले प्रमत्तः $ कर्मण्य् अयं त्वद्-उदिते भवद्-अर्चने स्वे &
यस् तावद् अस्य बलवान् इह जीविताशां % सद्यश् छिनत्त्य् अनिमिषाय नमो ऽस्तु तस्मै ॥ भ्प्_03.09.017* ॥
यस्माद् बिभेम्य् अहम् अपि द्विपरार्ध-धिष्ण्यम् $ अध्यासितः सकल-लोक-नमस्कृतं यत् &
यस्माद् बिभेम्य् अहम् अपि द्विपरार्ध-धिष्ण्यम् $ अध्यासितः सकल-लोक-नमस्कृतं यत् &
तेपे तपो बहु-सवो ऽवरुरुत्समानस् % तस्मै नमो भगवते ऽधिमखाय तुभ्यम् ॥ भ्प्_03.09.018* ॥
तिर्यङ्-मनुष्य-विबुधादिषु जीव-योनिष्व् $ आत्मेच्छयात्म-कृत-सेतु-परीप्सया यः &
तिर्यङ्-मनुष्य-विबुधादिषु जीव-योनिष्व् $ आत्मेच्छयात्म-कृत-सेतु-परीप्सया यः &
रेमे निरस्त-विषयो ऽप्य् अवरुद्ध-देहस् % तस्मै नमो भगवते पुरुषोत्तमाय ॥ भ्प्_03.09.019* ॥
यो ऽविद्ययानुपहतो ऽपि दशार्ध-वृत्त्या $ निद्राम् उवाह जठरी-कृत-लोक-यात्रः &
यो ऽविद्ययानुपहतो ऽपि दशार्ध-वृत्त्या $ निद्राम् उवाह जठरी-कृत-लोक-यात्रः &
अन्तर्-जले ऽहि-कशिपु-स्पर्शानुकूलां % भीमोर्मि-मालिनि जनस्य सुखं विवृण्वन् ॥ भ्प्_03.09.020* ॥
यन्-नाभि-पद्म-भवनाद् अहम् आसम् ईड्य $ लोक-त्रयोपकरणो यद्-अनुग्रहेण &
यन्-नाभि-पद्म-भवनाद् अहम् आसम् ईड्य $ लोक-त्रयोपकरणो यद्-अनुग्रहेण &
तस्मै नमस् त उदर-स्थ-भवाय योग- % निद्रावसान-विकसन्-नलिनेक्षणाय ॥ भ्प्_03.09.021* ॥
सो ऽयं समस्त-जगतां सुहृद् एक आत्मा $ सत्त्वेन यन् मृडयते भगवान् भगेन &
सो ऽयं समस्त-जगतां सुहृद् एक आत्मा $ सत्त्वेन यन् मृडयते भगवान् भगेन &
तेनैव मे दृशम् अनुस्पृशताद् यथाहं % स्रक्ष्यामि पूर्ववद् इदं प्रणत-प्रियो ऽसौ ॥ भ्प्_03.09.022* ॥
एष प्रपन्न-वरदो रमयात्म-शक्त्या $ यद् यत् करिष्यति गृहीत-गुणावतारः &

एष प्रपन्न-वरदो रमयात्म-शक्त्या $ यद् यत् करिष्यति गृहीत-गुणावतारः &
तस्मिन् स्व-विक्रमम् इदं सृजतो ऽपि चेतो % युञ्जीत कर्म-शमलं च यथा विजह्याम् ॥ भ्प्_03.09.023* ॥
नाभि-ह्रदाद् इह सतो ऽम्भसि यस्य पुंसो $ विज्ञान-शक्तिर् अहम् आसम् अनन्त-शक्तेः &
नाभि-ह्रदाद् इह सतो ऽम्भसि यस्य पुंसो $ विज्ञान-शक्तिर् अहम् आसम् अनन्त-शक्तेः &
रूपं विचित्रम् इदम् अस्य विवृण्वतो मे % मा रीरिषीष्ट निगमस्य गिरां विसर्गः ॥ भ्प्_03.09.024* ॥
सो ऽसाव् अदभ्र-करुणो भगवान् विवृद्ध- $ प्रेम-स्मितेन नयनाम्बुरुहं विजृम्भन् &
सो ऽसाव् अदभ्र-करुणो भगवान् विवृद्ध- $ प्रेम-स्मितेन नयनाम्बुरुहं विजृम्भन् &
उत्थाय विश्व-विजयाय च नो विषादं % माध्व्या गिरापनयतात् पुरुषः पुराणः ॥ भ्प्_03.09.025*
0 मैत्रेय उवाच
स्व-सम्भवं निशाम्यैवं तपो-विद्या-समाधिभिः ।
यावन् मनो-वचः स्तुत्वा विरराम स खिन्नवत्

03.09.027

अथाभिप्रेतम् अन्वीक्ष्य ब्रह्मणो मधुसूदनः ।
विषण्ण-चेतसं तेन कल्प-व्यतिकराम्भसा

03.09.028

लोक-संस्थान-विज्ञान आत्मनः परिखिद्यतः ।
तम् आहागाधया वाचा कश्मलं शमयन्न् इव

03.09.029

भ्प्_03.09.029।0 श्री-भगवान् उवाच
मा वेद-गर्भ गास् तन्द्रीं सर्ग उद्यमम् आवह ।
तन् मयापादितं ह्य् अग्रे यन् मां प्रार्थयते भवान्

03.09.030

भूयस् त्वं तप आतिष्ठ विद्यां चैव मद्-आश्रयाम् ।
ताभ्याम् अन्तर्-हृदि ब्रह्मन् लोकान् द्रक्ष्यस्य् अपावृतान्

03.09.031

तत आत्मनि लोके च भक्ति-युक्तः समाहितः ।
द्रष्टासि मां ततं ब्रह्मन् मयि लोकांस् त्वम् आत्मनः

03.09.032

यदा तु सर्व-भूतेषु दारुष्व् अग्निम् इव स्थितम् ।
प्रतिचक्षीत मां लोको जह्यात् तर्ह्य् एव कश्मलम्

03.09.033

यदा रहितम् आत्मानं भूतेन्द्रिय-गुणाशयैः ।
स्वरूपेण मयोपेतं पश्यन् स्वाराज्यम् ऋच्छति

03.09.034

नाना-कर्म-वितानेन प्रजा बह्वीः सिसृक्षतः ।
नात्मावसीदत्य् अस्मिंस् ते वर्षीयान् मद्-अनुग्रहः

03.09.035

ऋषिम् आद्यं न बध्नाति पापीयांस् त्वां रजो-गुणः ।
यन् मनो मयि निर्बद्धं प्रजाः संसृजतो ऽपि ते

03.09.036

ज्ञातो ऽहं भवता त्व् अद्य दुर्विज्ञेयो ऽपि देहिनाम् ।
यन् मां त्वं मन्यसे ऽयुक्तं भूतेन्द्रिय-गुणात्मभिः

03.09.037

तुभ्यं मद्-विचिकित्सायाम् आत्मा मे दर्शितो ऽबहिः ।
नालेन सलिले मूलं पुष्करस्य विचिन्वतः

03.09.038

यच् चकर्थाङ्ग मत्-स्तोत्रं मत्-कथाभ्युदयाङ्कितम् ।
यद् वा तपसि ते निष्ठा स एष मद्-अनुग्रहः

03.09.039

प्रीतो ऽहम् अस्तु भद्रं ते लोकानां विजयेच्छया ।
यद् अस्तौषीर् गुणमयं निर्गुणं मानुवर्णयन्

03.09.040

य एतेन पुमान् नित्यं स्तुत्वा स्तोत्रेण मां भजेत् ।
तस्याशु सम्प्रसीदेयं सर्व-काम-वरेश्वरः

03.09.041

पूर्तेन तपसा यज्ञैर् दानैर् योग-समाधिना ।
राद्धं निःश्रेयसं पुंसां मत्-प्रीतिस् तत्त्वविन्-मतम्

03.09.042

अहम् आत्मात्मनां धातः प्रेष्ठः सन् प्रेयसाम् अपि ।
अतो मयि रतिं कुर्याद् देहादिर् यत्-कृते प्रियः

03.09.043

सर्व-वेद-मयेनेदम् आत्मनात्मात्म-योनिना ।
प्रजाः सृज यथा-पूर्वं याश् च मय्य् अनुशेरते

03.09.044

भ्प्_03.09.044।0 मैत्रेय उवाच
तस्मा एवं जगत्-स्रष्ट्रे प्रधान-पुरुषेश्वरः ।
व्यज्येदं स्वेन रूपेण कञ्ज-नाभस् तिरोदधे

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc