भागवत पुराण · अध्याय 03.08
भ्प्_03.08.001।0 मैत्रेय उवाच
सत्-सेवनीयो बत पूरु-वंशो यल् लोक-पालो भगवत्-प्रधानः ।
बभूविथेहाजित-कीर्ति-मालां पदे पदे नूतनयस्य् अभीक्ष्णम्
सो ऽहं नृणां क्षुल्ल-सुखाय दुःखं महद् गतानां विरमाय तस्य ।
प्रवर्तये भागवतं पुराणं यद् आह साक्षाद् भगवान् ऋषिभ्यः
आसीनम् उर्व्यां भगवन्तम् आद्यं सङ्कर्षणं देवम् अकुण्ठ-सत्त्वम् ।
विवित्सवस् तत्त्वम् अतः परस्य कुमार-मुख्या मुनयो ऽन्वपृच्छन्
स्वम् एव धिष्ण्यं बहु मानयन्तं यद् वासुदेवाभिधम् आमनन्ति ।
प्रत्यग्-धृताक्षाम्बुज-कोशम् ईषद् उन्मीलयन्तं विबुधोदयाय
स्वर्धुन्य्-उदार्द्रैः स्व-जटा-कलापैर् उपस्पृशन्तश् चरणोपधानम् ।
पद्मं यद् अर्चन्त्य् अहि-राज-कन्याः स-प्रेम नाना-बलिभिर् वरार्थाः
मुहुर् गृणन्तो वचसानुराग- स्खलत्-पदेनास्य कृतानि तज्-ज्ञाः ।
किरीट-साहस्र-मणि-प्रवेक- प्रद्योतितोद्दाम-फणा-सहस्रम्
प्रोक्तं किलैतद् भगवत्तमेन निवृत्ति-धर्माभिरताय तेन ।
सनत्-कुमाराय स चाह पृष्टः साङ्ख्यायनायाङ्ग धृत-व्रताय
साङ्ख्यायनः पारमहंस्य-मुख्यो विवक्षमाणो भगवद्-विभूतीः ।
जगाद सो ऽस्मद्-गुरवे ऽन्विताय पराशरायाथ बृहस्पतेश् च
प्रोवाच मह्यं स दयालुर् उक्तो मुनिः पुलस्त्येन पुराणम् आद्यम् ।
सो ऽहं तवैतत् कथयामि वत्स श्रद्धालवे नित्यम् अनुव्रताय
उदाप्लुतं विश्वम् इदं तदासीद् यन् निद्रयामीलित-दृङ् न्यमीलयत् ।
अहीन्द्र-तल्पे ऽधिशयान एकः कृत-क्षणः स्वात्म-रतौ निरीहः
सो ऽन्तः शरीरे ऽर्पित-भूत-सूक्ष्मः कालात्मिकां शक्तिम् उदीरयाणः ।
उवास तस्मिन् सलिले पदे स्वे यथानलो दारुणि रुद्ध-वीर्यः
चतुर्-युगानां च सहस्रम् अप्सु स्वपन् स्वयोदीरितया स्व-शक्त्या ।
कालाख्ययासादित-कर्म-तन्त्रो लोकान् अपीतान् ददृशे स्व-देहे
तस्यार्थ-सूक्ष्माभिनिविष्ट-दृष्टेर् अन्तर्-गतो ऽर्थो रजसा तनीयान् ।
गुणेन कालानुगतेन विद्धः सूष्यंस् तदाभिद्यत नाभि-देशात्
स पद्म-कोशः सहसोदतिष्ठत् कालेन कर्म-प्रतिबोधनेन ।
स्व-रोचिषा तत् सलिलं विशालं विद्योतयन्न् अर्क इवात्म-योनिः
तल् लोक-पद्मं स उ एव विष्णुः प्रावीविशत् सर्व-गुणावभासम् ।
तस्मिन् स्वयं वेदमयो विधाता स्वयम्भुवं यं स्म वदन्ति सो ऽभूत्
तस्यां स चाम्भो-रुह-कर्णिकायाम् अवस्थितो लोकम् अपश्यमानः ।
परिक्रमन् व्योम्नि विवृत्त-नेत्रश् चत्वारि लेभे ऽनुदिशं मुखानि
तस्माद् युगान्त-श्वसनावघूर्ण- जलोर्मि-चक्रात् सलिलाद् विरूढम् ।
उपाश्रितः कञ्जम् उ लोक-तत्त्वं नात्मानम् अद्धाविदद् आदि-देवः
क एष यो ऽसाव् अहम् अब्ज-पृष्ठ एतत् कुतो वाब्जम् अनन्यद् अप्सु ।
अस्ति ह्य् अधस्ताद् इह किञ्चनैतद् अधिष्ठितं यत्र सता नु भाव्यम्
स इत्थम् उद्वीक्ष्य तद्-अब्ज-नाल- नाडीभिर् अन्तर्-जलम् आविवेश ।
नार्वाग्-गतस् तत्-खर-नाल-नाल- नाभिं विचिन्वंस् तद् अविन्दताजः
तमस्य् अपारे विदुरात्म-सर्गं विचिन्वतो ऽभूत् सुमहांस् त्रि-णेमिः ।
यो देह-भाजां भयम् ईरयाणः परिक्षिणोत्य् आयुर् अजस्य हेतिः
ततो निवृत्तो ऽप्रतिलब्ध-कामः स्व-धिष्ण्यम् आसाद्य पुनः स देवः ।
शनैर् जित-श्वास-निवृत्त-चित्तो न्यषीदद् आरूढ-समाधि-योगः
कालेन सो ऽजः पुरुषायुषाभि- प्रवृत्त-योगेन विरूढ-बोधः ।
स्वयं तद् अन्तर्-हृदये ऽवभातम् अपश्यतापश्यत यन् न पूर्वम्
मृणाल-गौरायत-शेष-भोग- पर्यङ्क एकं पुरुषं शयानम् ।
फणातपत्रायुत-मूर्ध-रत्न- द्युभिर् हत-ध्वान्त-युगान्त-तोये
प्रेक्षां क्षिपन्तं हरितोपलाद्रेः सन्ध्याभ्र-नीवेर् उरु-रुक्म-मूर्ध्नः ।
रत्नोदधारौषधि-सौमनस्य वन-स्रजो वेणु-भुजाङ्घ्रिपाङ्घ्रेः
आयामतो विस्तरतः स्व-मान- देहेन लोक-त्रय-सङ्ग्रहेण ।
विचित्र-दिव्याभरणांशुकानां कृत-श्रियापाश्रित-वेष-देहम्
पुंसां स्व-कामाय विविक्त-मार्गैर् अभ्यर्चतां काम-दुघाङ्घ्रि-पद्मम् ।
प्रदर्शयन्तं कृपया नखेन्दु- मयूख-भिन्नाङ्गुलि-चारु-पत्रम्
मुखेन लोकार्ति-हर-स्मितेन परिस्फुरत्-कुण्डल-मण्डितेन ।
शोणायितेनाधर-बिम्ब-भासा प्रत्यर्हयन्तं सुनसेन सुभ्र्वा
कदम्ब-किञ्जल्क-पिशङ्ग-वाससा स्वलङ्कृतं मेखलया नितम्बे ।
हारेण चानन्त-धनेन वत्स श्रीवत्स-वक्षः-स्थल-वल्लभेन
परार्ध्य-केयूर-मणि-प्रवेक- पर्यस्त-दोर्दण्ड-सहस्र-शाखम् ।
अव्यक्त-मूलं भुवनाङ्घ्रिपेन्द्रम् अहीन्द्र-भोगैर् अधिवीत-वल्शम्
चराचरौको भगवन्-महीध्रम् अहीन्द्र-बन्धुं सलिलोपगूढम् ।
किरीट-साहस्र-हिरण्य-शृङ्गम् आविर्भवत् कौस्तुभ-रत्न-गर्भम्
निवीतम् आम्नाय-मधु-व्रत-श्रिया स्व-कीर्ति-मय्या वन-मालया हरिम् ।
सूर्येन्दु-वाय्व्-अग्न्य्-अगमं त्रि-धामभिः परिक्रमत्-प्राधनिकैर् दुरासदम्
तर्ह्य् एव तन्-नाभि-सरः-सरोजम् आत्मानम् अम्भः श्वसनं वियच् च ।
ददर्श देवो जगतो विधाता नातः परं लोक-विसर्ग-दृष्टिः
स कर्म-बीजं रजसोपरक्तः प्रजाः सिसृक्षन्न् इयद् एव दृष्ट्वा ।
अस्तौद् विसर्गाभिमुखस् तम् ईड्यम् अव्यक्त-वर्त्मन्य् अभिवेशितात्मा
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0