भागवत पुराण · अध्याय 03.07
भ्प्_03.07.001।0 श्री-शुक उवाच
एवं ब्रुवाणं मैत्रेयं द्वैपायन-सुतो बुधः ।
प्रीणयन्न् इव भारत्या विदुरः प्रत्यभाषत
भ्प्_03.07.002।0 विदुर उवाच
ब्रह्मन् कथं भगवतश् चिन्-मात्रस्याविकारिणः ।
लीलया चापि युज्येरन् निर्गुणस्य गुणाः क्रियाः
क्रीडायाम् उद्यमो ऽर्भस्य कामश् चिक्रीडिषान्यतः ।
स्वतस्-तृप्तस्य च कथं निवृत्तस्य सदान्यतः
अस्राक्षीद् भगवान् विश्वं गुण-मय्यात्म-मायया ।
तया संस्थापयत्य् एतद् भूयः प्रत्यपिधास्यति
देशतः कालतो यो ऽसाव् अवस्थातः स्वतो ऽन्यतः ।
अविलुप्तावबोधात्मा स युज्येताजया कथम्
भगवान् एक एवैष सर्व-क्षेत्रेष्व् अवस्थितः ।
अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिः कुतः
एतस्मिन् मे मनो विद्वन् खिद्यते ऽज्ञान-सङ्कटे ।
तन् नः पराणुद विभो कश्मलं मानसं महत्
भ्प्_03.07.008।0 श्री-शुक उवाच
स इत्थं चोदितः क्षत्त्रा तत्त्व-जिज्ञासुना मुनिः ।
प्रत्याह भगवच्-चित्तः स्मयन्न् इव गत-स्मयः
भ्प्_03.07.009।0 मैत्रेय उवाच
सेयं भगवतो माया यन् नयेन विरुध्यते ।
ईश्वरस्य विमुक्तस्य कार्पण्यम् उत बन्धनम्
यद् अर्थेन विनामुष्य पुंस आत्म-विपर्ययः ।
प्रतीयत उपद्रष्टुः स्व-शिरश् छेदनादिकः
यथा जले चन्द्रमसः कम्पादिस् तत्-कृतो गुणः ।
दृश्यते ऽसन्न् अपि द्रष्टुर् आत्मनो ऽनात्मनो गुणः
स वै निवृत्ति-धर्मेण वासुदेवानुकम्पया ।
भगवद्-भक्ति-योगेन तिरोधत्ते शनैर् इह
यदेन्द्रियोपरामो ऽथ द्रष्ट्रात्मनि परे हरौ ।
विलीयन्ते तदा क्लेशाः संसुप्तस्येव कृत्स्नशः
अशेष-सङ्क्लेश-शमं विधत्ते गुणानुवाद-श्रवणं मुरारेः ।
किं वा पुनस् तच्-चरणारविन्द- पराग-सेवा-रतिर् आत्म-लब्धा
भ्प्_03.07.015।0 विदुर उवाच
सञ्छिन्नः संशयो मह्यं तव सूक्तासिना विभो ।
उभयत्रापि भगवन् मनो मे सम्प्रधावति
साध्व् एतद् व्याहृतं विद्वन् नात्म-मायायनं हरेः ।
आभात्य् अपार्थं निर्मूलं विश्व-मूलं न यद् बहिः
यश् च मूढतमो लोके यश् च बुद्धेः परं गतः ।
ताव् उभौ सुखम् एधेते क्लिश्यत्य् अन्तरितो जनः
अर्थाभावं विनिश्चित्य प्रतीतस्यापि नात्मनः ।
तां चापि युष्मच्-चरण- सेवयाहं पराणुदे
यत्-सेवया भगवतः कूट-स्थस्य मधु-द्विषः ।
रति-रासो भवेत् तीव्रः पादयोर् व्यसनार्दनः
दुरापा ह्य् अल्प-तपसः सेवा वैकुण्ठ-वर्त्मसु ।
यत्रोपगीयते नित्यं देव-देवो जनार्दनः
सृष्ट्वाग्रे महद्-आदीनि स-विकाराण्य् अनुक्रमात् ।
तेभ्यो विराजम् उद्धृत्य तम् अनु प्राविशद् विभुः
यम् आहुर् आद्यं पुरुषं सहस्राङ्घ्र्य्-ऊरु-बाहुकम् ।
यत्र विश्व इमे लोकाः स-विकाशं त आसते
यस्मिन् दश-विधः प्राणः सेन्द्रियार्थेन्द्रियस् त्रि-वृत् ।
त्वयेरितो यतो वर्णास् तद्-विभूतीर् वदस्व नः
यत्र पुत्रैश् च पौत्रैश् च नप्तृभिः सह गोत्रजैः ।
प्रजा विचित्राकृतय आसन् याभिर् इदं ततम्
प्रजापतीनां स पतिश् चकॢपे कान् प्रजापतीन् ।
सर्गांश् चैवानुसर्गांश् च मनून् मन्वन्तराधिपान्
एतेषाम् अपि वेदांश् च वंशानुचरितानि च ।
उपर्य् अधश् च ये लोका भूमेर् मित्रात्मजासते
तेषां संस्थां प्रमाणं च भूर्-लोकस्य च वर्णय ।
तिर्यङ्-मानुष-देवानां सरीसृप-पतत्त्रिणाम् ।
वद नः सर्ग-संव्यूहं गार्भ-स्वेद-द्विजोद्भिदाम्
गुणावतारैर् विश्वस्य सर्ग-स्थित्य्-अप्ययाश्रयम् ।
सृजतः श्रीनिवासस्य व्याचक्ष्वोदार-विक्रमम्
वर्णाश्रम-विभागांश् च रूप-शील-स्वभावतः ।
ऋषीणां जन्म-कर्माणि वेदस्य च विकर्षणम्
यज्ञस्य च वितानानि योगस्य च पथः प्रभो ।
नैष्कर्म्यस्य च साङ्ख्यस्य तन्त्रं वा भगवत्-स्मृतम्
पाषण्ड-पथ-वैषम्यं प्रतिलोम-निवेशनम् ।
जीवस्य गतयो याश् च यावतीर् गुण-कर्मजाः
धर्मार्थ-काम-मोक्षाणां निमित्तान्य् अविरोधतः ।
वार्ताया दण्ड-नीतेश् च श्रुतस्य च विधिं पृथक्
श्राद्धस्य च विधिं ब्रह्मन् पित्-णां सर्गम् एव च ।
ग्रह-नक्षत्र-ताराणां कालावयव-संस्थितिम्
दानस्य तपसो वापि यच् चेष्टा-पूर्तयोः फलम् ।
प्रवास-स्थस्य यो धर्मो यश् च पुंस उतापदि
येन वा भगवांस् तुष्येद् धर्म-योनिर् जनार्दनः ।
सम्प्रसीदति वा येषाम् एतद् आख्याहि मे ऽनघ
अनुव्रतानां शिष्याणां पुत्राणां च द्विजोत्तम ।
अनापृष्टम् अपि ब्रूयुर् गुरवो दीन-वत्सलाः
तत्त्वानां भगवंस् तेषां कतिधा प्रतिसङ्क्रमः ।
तत्रेमं क उपासीरन् क उ स्विद् अनुशेरते
पुरुषस्य च संस्थानं स्वरूपं वा परस्य च ।
ज्ञानं च नैगमं यत् तद् गुरु-शिष्य-प्रयोजनम्
निमित्तानि च तस्येह प्रोक्तान्य् अनघ-सूरिभिः ।
स्वतो ज्ञानं कुतः पुंसां भक्तिर् वैराग्यम् एव वा
एतान् मे पृच्छतः प्रश्नान् हरेः कर्म-विवित्सया ।
ब्रूहि मे ऽज्ञस्य मित्रत्वाद् अजया नष्ट-चक्षुषः
सर्वे वेदाश् च यज्ञाश् च तपो दानानि चानघ ।
जीवाभय-प्रदानस्य न कुर्वीरन् कलाम् अपि
भ्प्_03.07.042।0 श्री-शुक उवाच
स इत्थम् आपृष्ट-पुराण-कल्पः कुरु-प्रधानेन मुनि-प्रधानः ।
प्रवृद्ध-हर्षो भगवत्-कथायां सञ्चोदितस् तं प्रहसन्न् इवाह
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0