भागवत पुराण · अध्याय 03.01
भ्प्_03.01.001।0 श्री-शुक उवाच
एवम् एतत् पुरा पृष्टो मैत्रेयो भगवान् किल ।
क्षत्त्रा वनं प्रविष्टेन त्यक्त्वा स्व-गृहम् ऋद्धिमत्
यद् वा अयं मन्त्र-कृद् वो भगवान् अखिलेश्वरः ।
पौरवेन्द्र-गृहं हित्वा प्रविवेशात्मसात् कृतम्
भ्प्_03.01.003।0 राजोवाच
कुत्र क्षत्तुर् भगवता मैत्रेयेणास सङ्गमः ।
कदा वा सह-संवाद एतद् वर्णय नः प्रभो
न ह्य् अल्पार्थोदयस् तस्य विदुरस्यामलात्मनः ।
तस्मिन् वरीयसि प्रश्नः साधु-वादोपबृंहितः
भ्प्_03.01.005।0 सूत उवाच
स एवम् ऋषि-वर्यो ऽयं पृष्टो राज्ञा परीक्षिता ।
प्रत्य् आह तं सुबहु-वित् प्रीतात्मा श्रूयताम् इति
भ्प्_03.01.006।0 श्री-शुक उवाच
यदा तु राजा स्व-सुतान् असाधून् पुष्णन् न धर्मेण विनष्ट-दृष्टिः ।
भ्रातुर् यविष्ठस्य सुतान् विबन्धून् प्रवेश्य लाक्षा-भवने ददाह
यदा सभायां कुरु-देव-देव्याः केशाभिमर्शं सुत-कर्म गर्ह्यम् ।
न वारयाम् आस नृपः स्नुषायाः स्वास्रैर् हरन्त्याः कुच-कुङ्कुमानि
द्यूते त्व् अधर्मेण जितस्य साधोः सत्यावलम्बस्य वनं गतस्य ।
न याचतो ऽदात् समयेन दायं तमो-जुषाणो यद् अजात-शत्रोः
यदा च पार्थ-प्रहितः सभायां जगद्-गुरुर् यानि जगाद कृष्णः ।
न तानि पुंसाम् अमृतायनानि राजोरु मेने क्षत-पुण्य-लेशः
यदोपहूतो भवनं प्रविष्टो मन्त्राय पृष्टः किल पूर्वजेन ।
अथाह तन् मन्त्र-दृशां वरीयान् यन् मन्त्रिणो वैदुरिकं वदन्ति
अजात-शत्रोः प्रतियच्छ दायं तितिक्षतो दुर्विषहं तवागः ।
सहानुजो यत्र वृकोदराहिः श्वसन् रुषा यत् त्वम् अलं बिभेषि
पार्थांस् तु देवो भगवान् मुकुन्दो गृहीतवान् सक्षिति-देव-देवः ।
आस्ते स्व-पुर्यां यदु-देव-देवो विनिर्जिताशेष-नृदेव-देवः
स एष दोषः पुरुष-द्विड् आस्ते गृहान् प्रविष्टो यम् अपत्य-मत्या ।
पुष्णासि कृष्णाद् विमुखो गत-श्रीस् त्यजाश्व् अशैवं कुल-कौशलाय
इत्य् ऊचिवांस् तत्र सुयोधनेन प्रवृद्ध-कोप-स्फुरिताधरेण ।
असत्-कृतः सत्-स्पृहणीय-शीलः क्षत्ता सकर्णानुज-सौबलेन
क एनम् अत्रोपजुहाव जिह्मं दास्याः सुतं यद्-बलिनैव पुष्टः ।
तस्मिन् प्रतीपः परकृत्य आस्ते निर्वास्यताम् आशु पुराच् छ्वसानः
स्वयं धनुर् द्वारि निधाय मायां भ्रातुः पुरो मर्मसु ताडितो ऽपि ।
स इत्थम् अत्युल्बण-कर्ण-बाणैर् गत-व्यथो ऽयाद् उरु मानयानः
स निर्गतः कौरव-पुण्य-लब्धो गजाह्वयात् तीर्थ-पदः पदानि ।
अन्वाक्रमत् पुण्य-चिकीर्षयोर्व्याम् अधिष्ठितो यानि सहस्र-मूर्तिः
पुरेषु पुण्योपवनाद्रि-कुञ्जेष्व् अपङ्क-तोयेषु सरित्-सरःसु ।
अनन्त-लिङ्गैः समलङ्कृतेषु चचार तीर्थायतनेष्व् अनन्यः
गां पर्यटन् मेध्य-विविक्त-वृत्तिः सदाप्लुतो ऽधः शयनो ऽवधूतः ।
अलक्षितः स्वैर् अवधूत-वेषो व्रतानि चेरे हरि-तोषणानि
इत्थं व्रजन् भारतम् एव वर्षं कालेन यावद् गतवान् प्रभासम् ।
तावच् छशास क्षितिम् एक चक्राम्ल् एकातपत्राम् अजितेन पार्थः
तत्राथ शुश्राव सुहृद्-विनष्टिं वनं यथा वेणुज-वह्नि-संश्रयम् ।
संस्पर्धया दग्धम् अथानुशोचन् सरस्वतीं प्रत्यग् इयाय तूष्णीम्
तस्यां त्रितस्योशनसो मनोश् च पृथोर् अथाग्नेर् असितस्य वायोः ।
तीर्थं सुदासस्य गवां गुहस्य यच् छ्राद्धदेवस्य स आसिषेवे
अन्यानि चेह द्विज-देव-देवैः कृतानि नानायतनानि विष्णोः ।
प्रत्यङ्ग-मुख्याङ्कित-मन्दिराणि यद्-दर्शनात् कृष्णम् अनुस्मरन्ति
ततस् त्व् अतिव्रज्य सुराष्ट्रम् ऋद्धं सौवीर-मत्स्यान् कुरुजाङ्गलांश् च ।
कालेन तावद् यमुनाम् उपेत्य तत्रोद्धवं भागवतं ददर्श
स वासुदेवानुचरं प्रशान्तं बृहस्पतेः प्राक् तनयं प्रतीतम् ।
आलिङ्ग्य गाढं प्रणयेन भद्रं स्वानाम् अपृच्छद् भगवत्-प्रजानाम्
कच्चित् पुराणौ पुरुषौ स्वनाभ्य- पाद्मानुवृत्त्येह किलावतीर्णौ ।
आसात उर्व्याः कुशलं विधाय कृत-क्षणौ कुशलं शूर-गेहे
कच्चित् कुरूणां परमः सुहृन् नो भामः स आस्ते सुखम् अङ्ग शौरिः ।
यो वै स्वस्-णां पितृवद् ददाति वरान् वदान्यो वर-तर्पणेन
कच्चिद् वरूथाधिपतिर् यदूनां प्रद्युम्न आस्ते सुखम् अङ्ग वीरः ।
यं रुक्मिणी भगवतो ऽभिलेभे आराध्य विप्रान् स्मरम् आदि-सर्गे
कच्चित् सुखं सात्वत-वृष्णि-भोज- दाशार्हकाणाम् अधिपः स आस्ते ।
यम् अभ्यषिञ्चच् छत-पत्र-नेत्रो नृपासनाशां परिहृत्य दूरात्
कच्चिद् धरेः सौम्य सुतः सदृक्ष आस्ते ऽग्रणी रथिनां साधु साम्बः ।
असूत यं जाम्बवती व्रताढ्या देवं गुहं यो ऽम्बिकया धृतो ऽग्रे
क्षेमं स कच्चिद् युयुधान आस्ते यः फाल्गुनाल् लब्ध-धनू-रहस्यः ।
लेभे ऽञ्जसाधोक्षज-सेवयैव गतिं तदीयां यतिभिर् दुरापाम्
कच्चिद् बुधः स्वस्त्य् अनमीव आस्ते श्वफल्क-पुत्रो भगवत्-प्रपन्नः ।
यः कृष्ण-पादाङ्कित-मार्ग-पांसुष्व् अचेष्टत प्रेम-विभिन्न-धैर्यः
कच्चिच् छिवं देवक-भोज-पुत्र्या विष्णु-प्रजाया इव देव-मातुः ।
या वै स्व-गर्भेण दधार देवं त्रयी यथा यज्ञ-वितानम् अर्थम्
अपिस्विद् आस्ते भगवान् सुखं वो यः सात्वतां काम-दुघो ऽनिरुद्धः ।
यम् आमनन्ति स्म हि शब्द-योनिं मनो-मयं सत्त्व-तुरीय-तत्त्वम्
अपिस्विद् अन्ये च निजात्म-दैवम् अनन्य-वृत्त्या समनुव्रता ये ।
हृदीक-सत्यात्मज-चारुदेष्ण- गदादयः स्वस्ति चरन्ति सौम्य
अपि स्व-दोर्भ्यां विजयाच्युताभ्यां धर्मेण धर्मः परिपाति सेतुम् ।
दुर्योधनो ऽतप्यत यत्-सभायां साम्राज्य-लक्ष्म्या विजयानुवृत्त्या
किं वा कृताघेष्व् अघम् अत्यमर्षी भीमो ऽहिवद् दीर्घतमं व्यमुञ्चत् ।
यस्याङ्घ्रि-पातं रण-भूर् न सेहे मार्गं गदायाश् चरतो विचित्रम्
कच्चिद् यशोधा रथ-यूथपानां गाण्डीव-धन्वोपरतारिर् आस्ते ।
अलक्षितो यच्-छर-कूट-गूढो माया-किरातो गिरिशस् तुतोष
यमाव् उतस्वित् तनयौ पृथायाः पार्थैर् वृतौ पक्ष्मभिर् अक्षिणीव ।
रेमात उद्दाय मृधे स्व-रिक्थं परात् सुपर्णाव् इव वज्रि-वक्त्रात्
अहो पृथापि ध्रियते ऽर्भकार्थे राजर्षि-वर्येण विनापि तेन ।
यस् त्व् एक-वीरो ऽधिरथो विजिग्ये धनुर् द्वितीयः ककुभश् चतस्रः
सौम्यानुशोचे तम् अधः-पतन्तं भ्रात्रे परेताय विदुद्रुहे यः ।
निर्यापितो येन सुहृत् स्व-पुर्या अहं स्व-पुत्रान् समनुव्रतेन
सो ऽहं हरेर् मर्त्य-विडम्बनेन दृशो नृणां चालयतो विधातुः ।
नान्योपलक्ष्यः पदवीं प्रसादाच् चरामि पश्यन् गत-विस्मयो ऽत्र
नूनं नृपाणां त्रि-मदोत्पथानां महीं मुहुश् चालयतां चमूभिः ।
वधात् प्रपन्नार्ति-जिहीर्षयेशो ऽप्य् उपैक्षताघं भगवान् कुरूणाम्
अजस्य जन्मोत्पथ-नाशनाय कर्माण्य् अकर्तुर् ग्रहणाय पुंसाम् ।
नन्व् अन्यथा को ऽर्हति देह-योगं परो गुणानाम् उत कर्म-तन्त्रम्
तस्य प्रपन्नाखिल-लोकपानाम् अवस्थितानाम् अनुशासने स्वे ।
अर्थाय जातस्य यदुष्व् अजस्य वार्तां सखे कीर्तय तीर्थ-कीर्तेः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0