भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 02.10

02.10.001

भ्प्_02.10.001।0 श्रीशुक उवाच
अत्र सर्गो विसर्गश्च स्थानं पोषणम् ऊतयः ।
मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः

02.10.002

दशमस्य विशुद्ध्यर्थं नवानाम् इह लक्षणम् ।
वर्णयन्ति महात्मानः श्रुतेनार्थेन चाञ्जसा

02.10.003

भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः ।
ब्रह्मणो गुणवैषम्याद्विसर्गः पौरुषः स्मृतः

02.10.004

स्थितिर्वैकुण्ठविजयः पोषणं तदनुग्रहः ।
मन्वन्तराणि सद्धर्म ऊतयः कर्मवासनाः

02.10.005

अवतारानुचरितं हरेश्चास्यानुवर्तिनाम् ।
पुंसाम् ईशकथाः प्रोक्ता नानाख्यानोपबृंहिताः

02.10.006

निरोधो ऽस्यानुशयनम् आत्मनः सह शक्तिभिः ।
मुक्तिर्हित्वान्यथा रूपं स्वरूपेण व्यवस्थितिः

02.10.007

आभासश्च निरोधश्च यतो ऽस्त्यध्यवसीयते ।
स आश्रयः परं ब्रह्म परमात्मेति शब्द्यते

02.10.008

यो ऽध्यात्मिको ऽयं पुरुषः सो ऽसावेवाधिदैविकः ।
यस्तत्रोभयविच्छेदः पुरुषो ह्याधिभौतिकः

02.10.009

एकम् एकतराभावे यदा नोपलभामहे ।
त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रयः

02.10.010

पुरुषो ऽण्डं विनिर्भिद्य यदासौ स विनिर्गतः ।
आत्मनो ऽयनम् अन्विच्छन्न् अपो ऽस्राक्षीच् छुचिः शुचीः

02.10.011

तास्ववात्सीत् स्वसृष्टासु सहस्रं परिवत्सरान् ।
तेन नारायणो नाम यदापः पुरुषोद्भवाः

02.10.012

द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।
यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया

02.10.013

एको नानात्वम् अन्विच्छन् योगतल्पात् समुत्थितः ।
वीर्यं हिरण्मयं देवो मायया व्यसृजत् त्रिधा

02.10.014

अधिदैवम् अथाध्यात्मम् अधिभूतम् इति प्रभुः ।
अथैकं पौरुषं वीर्यं त्रिधाभिद्यत तच् छृणु

02.10.015

अन्तः शरीर आकाशात् पुरुषस्य विचेष्टतः ।
ओजः सहो बलं जज्ञे ततः प्राणो महान् असुः

02.10.016

अनुप्राणन्ति यं प्राणाः प्राणन्तं सर्वजन्तुषु ।
अपानन्तम् अपानन्ति नरदेवम् इवानुगाः

02.10.017

प्राणेनाक्षिपता क्षुत् तृडन्तरा जायते विभोः ।
पिपासतो जक्षतश्च प्राङ् मुखं निरभिद्यत

02.10.018

मुखतस्तालु निर्भिन्नंजिह्वा तत्रोपजायते ।
ततो नानारसो जज्ञे जिह्वया यो ऽधिगम्यते

02.10.019

विवक्षोर्मुखतो भूम्नो वह्निर्वाग् व्याहृतं तयोः ।
जले चैतस्य सुचिरं निरोधः समजायत

02.10.020

नासिके निरभिद्येतां दोधूयति नभस्वति ।
तत्र वायुर्गन्धवहो घ्राणो नसि जिघृक्षतः

02.10.021

यदात्मनि निरालोकम् आत्मानं च दिदृक्षतः ।
निर्भिन्ने ह्यक्षिणी तस्य ज्योतिश्चक्षुर्गुणग्रहः

02.10.022

बोध्यमानस्य ऋषिभिरात्मनस्तज् जिघृक्षतः ।
कर्णौ च निरभिद्येतां दिशः श्रोत्रं गुणग्रहः

02.10.023

वस्तुनो मृदुकाठिन्य लघुगुर्वोष्णशीतताम् ।
जिघृक्षतस्त्वङ् निर्भिन्ना तस्यां रोममहीरुहाः ।
तत्र चान्तर्बहिर्वातस्त्वचा लब्धगुणो वृतः

02.10.024

हस्तौ रुरुहतुस्तस्य नानाकर्मचिकीर्षया ।
तयोस्तु बलवान् इन्द्र आदानम् उभयाश्रयम्

02.10.025

गतिं जिगीषतः पादौ रुरुहाते ऽभिकामिकाम् ।
पद्भ्यां यज्ञः स्वयं हव्यं कर्मभिः क्रियते नृभिः

02.10.026

निरभिद्यत शिश्नो वै प्रजानन्दामृतार्थिनः ।
उपस्थ आसीत् कामानां प्रियं तदुभयाश्रयम्

02.10.027

उत्सिसृक्षोर्धातुमलं निरभिद्यत वै गुदम् ।
ततः पायुस्ततो मित्र उत्सर्ग उभयाश्रयः

02.10.028

आसिसृप्सोः पुरः पुर्या नाभिद्वारम् अपानतः ।
तत्रापानस्ततो मृत्युः पृथक्त्वम् उभयाश्रयम्

02.10.029

आदित्सोरन्नपानानाम् आसन् कुक्ष्यन्त्रनाडयः ।
नद्यः समुद्राश्च तयोस्तुष्टिः पुष्टिस्तदाश्रये

02.10.030

निदिध्यासोरात्ममायां हृदयं निरभिद्यत ।
ततो मनश्चन्द्र इति सङ्कल्पः काम एव च

02.10.031

त्वक्चर्ममांसरुधिर मेदोमज्जास्थिधातवः ।
भूम्यप्तेजोमयाः सप्त प्राणो व्योमाम्बुवायुभिः

02.10.032

गुणात्मकानीन्द्रियाणि भूतादिप्रभवा गुणाः ।
मनः सर्वविकारात्मा बुद्धिर्विज्ञानरूपिणी

02.10.033

एतद्भगवतो रूपं स्थूलं ते व्याहृतं मया ।
मह्यादिभिश्चावरणैरष्टभिर्बहिरावृतम्

02.10.034

अतः परं सूक्ष्मतमम् अव्यक्तं निर्विशेषणम् ।
अनादिमध्यनिधनं नित्यं वाङ्मनसः परम्

02.10.035

अमुनी भगवद्रूपे मया ते ह्यनुवर्णिते ।
उभे अपि न गृह्णन्ति मायासृष्टे विपश्चितः

02.10.036

स वाच्यवाचकतया भगवान् ब्रह्मरूपधृक् ।
नामरूपक्रिया धत्ते सकर्माकर्मकः परः

02.10.037

प्रजापतीन् मनून् देवान् ऋषीन् पितृगणान् पृथक् ।
सिद्धचारणगन्धर्वान् विद्याध्रासुरगुह्यकान्

02.10.038

किन्नराप्सरसो नागान् सर्पान् किम्पुरुषान् नरान् ।
मात् रक्षःपिशाचांश्च प्रेतभूतविनायकान्

02.10.039

कूष्माण्डोन्मादवेतालान् यातुधानान् ग्रहान् अपि ।
खगान् मृगान् पशून् वृक्षान् गिरीन् नृप सरीसृपान्

02.10.040

द्विविधाश्चतुर्विधा ये ऽन्ये जलस्थलनभौकसः ।
कुशलाकुशला मिश्राः कर्मणां गतयस्त्विमाः

02.10.041

सत्त्वं रजस्तम इति तिस्रः सुरनृनारकाः ।
तत्राप्येकैकशो राजन् भिद्यन्ते गतयस्त्रिधा ।
यदैकैकतरो ऽन्याभ्यां स्वभाव उपहन्यते

02.10.042

स एवेदं जगद्धाता भगवान् धर्मरूपधृक् ।
पुष्णाति स्थापयन् विश्वं तिर्यङ्नरसुरादिभिः

02.10.043

ततः कालाग्निरुद्रात्मा यत् सृष्टम् इदम् आत्मनः ।
सन्नियच्छति तत् काले घनानीकम् इवानिलः

02.10.044

इत्थम्भावेन कथितो भगवान् भगवत्तमः ।
नेत्थम्भावेन हि परं द्रष्टुम् अर्हन्ति सूरयः

02.10.045

नास्य कर्मणि जन्मादौ परस्यानुविधीयते ।
कर्तृत्वप्रतिषेधार्थं माययारोपितं हि तत्

02.10.046

अयं तु ब्रह्मणः कल्पः सविकल्प उदाहृतः ।
विधिः साधारणो यत्र सर्गाः प्राकृतवैकृताः

02.10.047

परिमाणं च कालस्य कल्पलक्षणविग्रहम् ।
यथा पुरस्ताद्व्याख्यास्ये पाद्मं कल्पम् अथो शृणु

02.10.048

भ्प्_02.10.048।0 शौनक उवाच
यदाह नो भवान् सूत क्षत्ता भागवतोत्तमः ।
चचार तीर्थानि भुवस्त्यक्त्वा बन्धून् सुदुस्त्यजान्

02.10.049

क्षत्तुः कौशारवेस्तस्य संवादो ऽध्यात्मसंश्रितः ।
यद्वा स भगवांस्तस्मै पृष्टस्तत्त्वम् उवाच ह

02.10.050

ब्रूहि नस्तदिदं सौम्य विदुरस्य विचेष्टितम् ।
बन्धुत्यागनिमित्तं च यथैवागतवान् पुनः

02.10.051

भ्प्_02.10.051।0 सूत उवाच
राज्ञा परीक्षिता पृष्टो यदवोचन् महामुनिः ।
तद्वो ऽभिधास्ये शृणुत राअज्ञः प्रश्नानुसारतः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc