भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 03.02

03.02.001

भ्प्_03.02.001।0 श्री-शुक उवाच
इति भागवतः पृष्टः क्षत्त्रा वार्तां प्रियाश्रयाम् ।
प्रतिवक्तुं न चोत्सेह औत्कण्ठ्यात् स्मारितेश्वरः

03.02.002

यः पञ्च-हायनो मात्रा प्रातर्-आशाय याचितः ।
तन् नैच्छद् रचयन् यस्य सपर्यां बाल-लीलया

03.02.003

स कथं सेवया तस्य कालेन जरसं गतः ।
पृष्टो वार्तां प्रतिब्रूयाद् भर्तुः पादाव् अनुस्मरन्

03.02.004

स मुहूर्तम् अभूत् तूष्णीं कृष्णाङ्घ्रि-सुधया भृशम् ।
तीव्रेण भक्ति-योगेन निमग्नः साधु निर्वृतः

03.02.005

पुलकोद्भिन्न-सर्वाङ्गो मुञ्चन् मीलद्-दृशा शुचः ।
पूर्णार्थो लक्षितस् तेन स्नेह-प्रसर-सम्प्लुतः

03.02.006

शनकैर् भगवल्-लोकान् नृलोकं पुनर् आगतः ।
विमृज्य नेत्रे विदुरं प्रीत्याहोद्धव उत्स्मयन्

03.02.007

भ्प्_03.02.007।0 उद्धव उवाच
कृष्ण-द्युमणि निम्लोचे गीर्णेष्व् अजगरेण ह ।
किं नु नः कुशलं ब्रूयां गत-श्रीषु गृहेष्व् अहम्

03.02.008

दुर्भगो बत लोको ऽयं यदवो नितराम् अपि ।
ये संवसन्तो न विदुर् हरिं मीना इवोडुपम्

03.02.009

इङ्गित-ज्ञाः पुरु-प्रौढा एकारामाश् च सात्वताः ।
सात्वताम् ऋषभं सर्वे भूतावासम् अमंसत

03.02.010

देवस्य मायया स्पृष्टा ये चान्यद् असद्-आश्रिताः ।
भ्राम्यते धीर् न तद्-वाक्यैर् आत्मन्य् उप्तात्मनो हरौ

03.02.011

प्रदर्श्यातप्त-तपसाम् अवितृप्त-दृशां नृणाम् ।
आदायान्तर् अधाद् यस् तु स्व-बिम्बं लोक-लोचनम्

03.02.012

यन् मर्त्य-लीलौपयिकं स्व-योग- माया-बलं दर्शयता गृहीतम् ।
विस्मापनं स्वस्य च सौभगर्द्धेः परं पदं भूषण-भूषणाङ्गम्

03.02.013

यद् धर्म-सूनोर् बत राजसूये निरीक्ष्य दृक्-स्वस्त्ययनं त्रि-लोकः ।
कार्त्स्न्येन चाद्येह गतं विधातुर् अर्वाक्-सृतौ कौशलम् इत्य् अमन्यत

03.02.014

यस्यानुराग-प्लुत-हास-रास- लीलावलोक-प्रतिलब्ध-मानाः ।
व्रज-स्त्रियो दृग्भिर् अनुप्रवृत्त- धियो ऽवतस्थुः किल कृत्य-शेषाः

03.02.015

स्व-शान्त-रूपेष्व् इतरैः स्व-रूपैर् अभ्यर्द्यमानेष्व् अनुकम्पितात्मा ।
परावरेशो महद्-अंश-युक्तो ह्य् अजो ऽपि जातो भगवान् यथाग्निः

03.02.016

मां खेदयत्य् एतद् अजस्य जन्म- विडम्बनं यद् वसुदेव-गेहे ।
व्रजे च वासो ऽरि-भयाद् इव स्वयं पुराद् व्यवात्सीद् यद्-अनन्त-वीर्यः

03.02.017

दुनोति चेतः स्मरतो ममैतद् यद् आह पादाव् अभिवन्द्य पित्रोः ।
ताताम्ब कंसाद् उरु-शङ्कितानां प्रसीदतं नो ऽकृत-निष्कृतीनाम्

03.02.018

को वा अमुष्याङ्घ्रि-सरोज-रेणुं विस्मर्तुम् ईशीत पुमान् विजिघ्रन् ।
यो विस्फुरद्-भ्रू-विटपेन भूमेर् भारं कृतान्तेन तिरश्चकार

03.02.019

दृष्टा भवद्भिर् ननु राजसूये चैद्यस्य कृष्णं द्विषतो ऽपि सिद्धिः ।
यां योगिनः संस्पृहयन्ति सम्यग् योगेन कस् तद्-विरहं सहेत

03.02.020

तथैव चान्ये नर-लोक-वीरा य आहवे कृष्ण-मुखारविन्दम् ।
नेत्रैः पिबन्तो नयनाभिरामं पार्थास्त्र-पूतः पदम् आपुर् अस्य

03.02.021

स्वयं त्व् असाम्यातिशयस् त्र्यधीशः स्वाराज्य-लक्ष्म्य्-आप्त-समस्त-कामः ।
बलिं हरद्भिश् चिर-लोक-पालैः किरीट-कोट्य्-एडित-पाद-पीठः

03.02.022

तत् तस्य कैङ्कर्यम् अलं भृतान् नो विग्लापयत्य् अङ्ग यद् उग्रसेनम् ।
तिष्ठन् निषण्णं परमेष्ठि-धिष्ण्ये न्यबोधयद् देव निधारयेति

03.02.023

अहो बकी यं स्तन-काल-कूटं जिघांसयापाययद् अप्य् असाध्वी ।
लेभे गतिं धात्र्य्-उचितां ततो ऽन्यं कं वा दयालुं शरणं व्रजेम

03.02.024

मन्ये ऽसुरान् भागवतांस् त्र्यधीशे संरम्भ-मार्गाभिनिविष्ट-चित्तान् ।
ये संयुगे ऽचक्षत तार्क्ष्य-पुत्रम् अंसे सुनाभायुधम् आपतन्तम्

03.02.025

वसुदेवस्य देवक्यां जातो भोजेन्द्र-बन्धने ।
चिकीर्षुर् भगवान् अस्याः शम् अजेनाभियाचितः

03.02.026

ततो नन्द-व्रजम् इतः पित्रा कंसाद् विबिभ्यता ।
एकादश समास् तत्र गूढार्चिः स-बलो ऽवसत्

03.02.027

परीतो वत्सपैर् वत्सांश् चारयन् व्यहरद् विभुः ।
यमुनोपवने कूजद्- द्विज-सङ्कुलिताङ्घ्रिपे

03.02.028

कौमारीं दर्शयंश् चेष्टां प्रेक्षणीयां व्रजौकसाम् ।
रुदन्न् इव हसन् मुग्ध- बाल-सिंहावलोकनः

03.02.029

स एव गो-धनं लक्ष्म्या निकेतं सित-गो-वृषम् ।
चारयन्न् अनुगान् गोपान् रणद्-वेणुर् अरीरमत्

03.02.030

प्रयुक्तान् भोज-राजेन मायिनः काम-रूपिणः ।
लीलया व्यनुदत् तांस् तान् बालः क्रीडनकान् इव

03.02.031

विपन्नान् विष-पानेन निगृह्य भुजगाधिपम् ।
उत्थाप्यापाययद् गावस् तत् तोयं प्रकृति-स्थितम्

03.02.032

अयाजयद् गो-सवेन गोप-राजं द्विजोत्तमैः ।
वित्तस्य चोरु-भारस्य चिकीर्षन् सद्-व्ययं विभुः

03.02.033

वर्षतीन्द्रे व्रजः कोपाद् भग्नमाने ऽतिविह्वलः ।
गोत्र-लीलातपत्रेण त्रातो भद्रानुगृह्णता

03.02.034

शरच्-छशि-करैर् मृष्टं मानयन् रजनी-मुखम् ।
गायन् कल-पदं रेमे स्त्रीणां मण्डल-मण्डनः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc