भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 02.09

02.09.001

भ्प्_02.09.001।0 श्रीशुक उवाच
आत्ममायाम् ऋते राजन् परस्यानुभवात्मनः ।
न घटेतार्थसम्बन्धः स्वप्नद्रष्टुरिवाञ्जसा

02.09.002

बहुरूप इवाभाति मायया बहुरूपया ।
रममाणो गुणेष्वस्या ममाहम् इति मन्यते

02.09.003

यर्हि वाव महिम्नि स्वे परस्मिन् कालमाययोः ।
रमेत गतसम्मोहस्त्यक्त्वोदास्ते तदोभयम्

02.09.004

आत्मतत्त्वविशुद्ध्यर्थं यदाह भगवान् ऋतम् ।
ब्रह्मणे दर्शयन् रूपम् अव्यलीकव्रतादृतः

02.09.005

स आदिदेवो जगतां परो गुरुः स्वधिष्ण्यम् आस्थाय सिसृक्षयैक्षत ।
तां नाध्यगच्छद्दृशम् अत्र सम्मतां प्रपञ्चनिर्माणविधिर्यया भवेत्

02.09.006

स चिन्तयन् द्व्यक्षरम् एकदाम्भस्य् उपाशृणोद्द्विर्गदितं वचो विभुः ।
स्पर्शेषु यत् षोडशम् एकविंशं निष्किञ्चनानां नृप यद्धनं विदुः

02.09.007

निशम्य तद्वक्तृदिदृक्षया दिशो विलोक्य तत्रान्यदपश्यमानः ।
स्वधिष्ण्यम् आस्थाय विमृश्य तद्धितं तपस्युपादिष्ट इवादधे मनः

02.09.008

दिव्यं सहस्राब्दम् अमोघदर्शनो जितानिलात्मा विजितोभयेन्द्रियः ।
अतप्यत स्माखिललोकतापनं तपस्तपीयांस्तपतां समाहितः

02.09.009

तस्मै स्वलोकं भगवान् सभाजितः सन्दर्शयाम् आस परं न यत्परम् ।
व्यपेतसङ्क्लेशविमोहसाध्वसं स्वदृष्टवद्भिर्पुरुषैरभिष्टुतम्

02.09.010

प्रवर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः ।
न यत्र माया किम् उतापरे हरेर् अनुव्रता यत्र सुरासुरार्चिताः

02.09.011

श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः ।
सर्वे चतुर्बाहव उन्मिषन्मणि प्रवेकनिष्काभरणाः सुवर्चसः ।
प्रवालवैदूर्यमृणालवर्चसः परिस्फुरत्कुण्डलमौलिमालिनः

02.09.012

भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् ।
विद्योतमानः प्रमदोत्तमाद्युभिः सविद्युदभ्रावलिभिर्यथा नभः

02.09.013

श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः ।
प्रेङ्खं श्रिता या कुसुमाकरानुगैर् विगीयमाना प्रियकर्म गायती

02.09.014

ददर्श तत्राखिलसात्वतां पतिं श्रियः पतिं यज्ञपतिं जगत्पतिम् ।
सुनन्दनन्दप्रबलार्हणादिभिः स्वपार्षदाग्रैः परिसेवितं विभुम्

02.09.015

भृत्यप्रसादाभिमुखं दृगासवं प्रसन्नहासारुणलोचनाननम् ।
किरीटिनं कुण्डलिनं चतुर्भुजं पीतांशुकं वक्षसि लक्षितं श्रिया

02.09.016

अध्यर्हणीयासनम् आस्थितं परं वृतं चतुःषोडशपञ्चशक्तिभिः ।
युक्तं भगैः स्वैरितरत्र चाध्रुवैः स्व एव धामन् रममाणम् ईश्वरम्

02.09.017

तद्दर्शनाह्लादपरिप्लुतान्तरो हृष्यत्तनुः प्रेमभराश्रुलोचनः ।
ननाम पादाम्बुजम् अस्य विश्वसृग् यत् पारमहंस्येन पथाधिगम्यते

02.09.018

तं प्रीयमाणं समुपस्थितं कविं प्रजाविसर्गे निजशासनार्हणम् ।
बभाष ईषत्स्मितशोचिषा गिरा प्रियः प्रियं प्रीतमनाः करे स्पृशन्

02.09.019

भ्प्_02.09.019।0 श्रीभगवान् उवाच
त्वयाहं तोषितः सम्यग् वेदगर्भ सिसृक्षया ।
चिरं भृतेन तपसा दुस्तोषः कूटयोगिनाम्

02.09.020

वरं वरय भद्रं ते वरेशं माभिवाञ्छितम् ।
ब्रह्मञ् छ्रेयःपरिश्रामः पुंसां मद्दर्शनावधिः

02.09.021

मनीषितानुभावो ऽयं मम लोकावलोकनम् ।
यदुपश्रुत्य रहसि चकर्थ परमं तपः

02.09.022

प्रत्यादिष्टं मया तत्र त्वयि कर्मविमोहिते ।
तपो मे हृदयं साक्षादात्माहं तपसो ऽनघ

02.09.023

सृजामि तपसैवेदं ग्रसामि तपसा पुनः ।
बिभर्मि तपसा विश्वं वीर्यं मे दुश्चरं तपः

02.09.024

भ्प्_02.09.024।0 ब्रह्मोवाच
भगवन् सर्वभूतानाम् अध्यक्षो ऽवस्थितो गुहाम् ।
वेद ह्यप्रतिरुद्धेन प्रज्ञानेन चिकीर्षितम्

02.09.025

तथापि नाथमानस्य नाथ नाथय नाथितम् ।
परावरे यथा रूपेजानीयां ते त्वरूपिणः

02.09.026

यथात्ममायायोगेन नानाशक्त्युपबृंहितम् ।
विलुम्पन् विसृजन् गृह्णन् बिभ्रदात्मानम् आत्मना

02.09.027

क्रीडस्यमोघसङ्कल्प ऊर्णनाभिर्यथोर्णुते ।
तथा तद्विषयां धेहि मनीषां मयि माधव

02.09.028

भगवच्छिक्षितम् अहं करवाणि ह्यतन्द्रितः ।
नेहमानः प्रजासर्गं बध्येयं यदनुग्रहात्

02.09.029

यावत् सखा सख्युरिवेश ते कृतः प्रजाविसर्गे विभजामि भो जनम् ।
अविक्लवस्ते परिकर्मणि स्थितो मा मे समुन्नद्धमदो ञ्ज मानिनः

02.09.030

भ्प्_02.09.030।0 श्रीभगवान् उवाच
ज्ञानं परमगुह्यं मे यद्विज्ञानसमन्वितम् ।
सरहस्यं तदङ्गं च गृहाण गदितं मया

02.09.031

यावान् अहं यथाभावो यद्रूपगुणकर्मकः ।
तथैव तत्त्वविज्ञानम् अस्तु ते मदनुग्रहात्

02.09.032

अहम् एवासम् एवाग्रे नान्यद्यत् सदसत् परम् ।
पश्चादहं यदेतच् च यो ऽवशिष्येत सो ऽस्म्यहम्

02.09.033

ऋते ऽर्थं यत् प्रतीयेत न प्रतीयेत चात्मनि ।
तद्विद्यादात्मनो मायां यथाभासो यथा तमः

02.09.034

यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु ।
प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम्

02.09.035

एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनात्मनः ।
अन्वयव्यतिरेकाभ्यां यत् स्यात् सर्वत्र सर्वदा

02.09.036

एतन् मतं समातिष्ठ परमेण समाधिना ।
भवान् कल्पविकल्पेषु न विमुह्यति कर्हिचित्

02.09.037

भ्प्_02.09.037।0 श्रीशुक उवाच
सम्प्रदिश्यैवम् अजनो जनानां परमेष्ठिनम् ।
पश्यतस्तस्य तद्रूपम् आत्मनो न्यरुणद्धरिः

02.09.038

अन्तर्हितेन्द्रियार्थाय हरये विहिताञ्जलिः ।
सर्वभूतमयो विश्वं ससर्जेदं स पूर्ववत्

02.09.039

प्रजापतिर्धर्मपतिरेकदा नियमान् यमान् ।
भद्रं प्रजानाम् अन्विच्छन्न् आतिष्ठत् स्वार्थकाम्यया

02.09.040

तं नारदः प्रियतमो रिक्थादानाम् अनुव्रतः ।
शुश्रूषमाणः शीलेन प्रश्रयेण दमेन च

02.09.041

मायां विविदिषन् विष्णोर्मायेशस्य महामुनिः ।
महाभागवतो राजन् पितरं पर्यतोषयत्

02.09.042

तुष्टं निशाम्य पितरं लोकानां प्रपितामहम् ।
देवर्षिः परिपप्रच्छ भवान् यन् मानुपृच्छति

02.09.043

तस्मा इदं भागवतं पुराणं दशलक्षणम् ।
प्रोक्तं भगवता प्राह प्रीतः पुत्राय भूतकृत्

02.09.044

नारदः प्राह मुनये सरस्वत्यास्तटे नृप ।
ध्यायते ब्रह्म परमं व्यासायामिततेजसे

02.09.045

यदुताहं त्वया पृष्टो वैराजात् पुरुषादिदम् ।
यथासीत् तदुपाख्यास्ते प्रश्नान् अन्यांश्च कृत्स्नशः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc