भागवत पुराण · अध्याय 02.02
भ्प्_02.02.001।0 श्रीशुक उवाच
एवं पुरा धारणयात्मयोनिर् नष्टां स्मृतिं प्रत्यवरुध्य तुष्टात् ।
तथा ससर्जेदम् अमोघदृष्टिर् यथाप्ययात् प्राग् व्यवसायबुद्धिः
शाब्दस्य हि ब्रह्मण एष पन्था यन् नामभिर्ध्यायति धीरपार्थैः ।
परिभ्रमंस्तत्र न विन्दते ऽर्थान् मायामये वासनया शयानः
अतः कविर्नामसु यावदर्थः स्यादप्रमत्तो व्यवसायबुद्धिः ।
सिद्धे ऽन्यथार्थे न यतेत तत्र परिश्रमं तत्र समीक्षमाणः
सत्यां क्षितौ किं कशिपोः प्रयासैर् बाहौ स्वसिद्धे ह्युपबर्हणैः किम् ।
सत्यञ्जलौ किं पुरुधान्नपात्र्या दिग्वल्कलादौ सति किं दुकूलैः
चीराणि किं पथि न सन्ति दिशन्ति भिक्षां $ नैवाङ्घ्रिपाः परभृतः सरितो ऽप्यशुष्यन् &अम्प्;
रुद्धा गुहाः किम् अजितो ऽवति नोपसन्नान् % कस्माद्भजन्ति कवयो धनदुर्मदान्धान् ॥ भ्प्_02.02.005* ॥
एवं स्वचित्ते स्वत एव सिद्ध आत्मा प्रियो ऽर्थो भगवान् अनन्तः ।
तं निर्वृतो नियतार्थो भजेत संसारहेतूपरमश्च यत्र
कस्तां त्वनादृत्य परानुचिन्ताम् ऋते पशून् असतीं नाम कुर्यात् ।
पश्यञ् जनं पतितं वैतरण्यां स्वकर्मजान् परितापाञ् जुषाणम्
केचित् स्वदेहान्तर्हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तम् ।
चतुर्भुजं कञ्जरथाङ्गशङ्ख गदाधरं धारणया स्मरन्ति
रसन्नवक्त्रं नलिनायतेक्षणं कदम्बकिञ्जल्कपिशङ्गवाससम् ।
लसन्महारत्नहिरण्मयाङ्गदं स्फुरन्महारत्नकिरीटकुण्डलम्
उन्निद्रहृत्पङ्कजकर्णिकालये योगेश्वरास्थापितपादपल्लवम् ।
श्रीलक्षणं कौस्तुभरत्नकन्धरम् अम्लानलक्ष्म्या वनमालयाचितम्
विभूषितं मेखलयाङ्गुलीयकैर् महाधनैर्नूपुरकङ्कणादिभिः ।
स्निग्धामलाकुञ्चितनीलकुन्तलैर् विरोचमानाननहासपेशलम्
अदीनलीलाहसितेक्षणोल्लसद् भ्रूभङ्गसंसूचितभूर्यनुग्रहम् ।
ईक्षेत चिन्तामयम् एनम् ईश्वरं यावन् मनो धारणयावतिष्ठते
एकैकशो ऽङ्गानि धियानुभावयेत् पादादि यावद्धसितं गदाभृतः ।
जितं जितं स्थानम् अपोह्य धारयेत् परं परं शुद्ध्यति धीर्यथा यथा
यावन् न जायेत परावरे ऽस्मिन् विश्वेश्वरे द्रष्टरि भक्तियोगः ।
तावत् स्थवीयः पुरुषस्य रूपं क्रियावसाने प्रयतः स्मरेत
स्थिरं सुखं चासनम् आस्थितो यतिर् यदा जिहासुरिमम् अङ्ग लोकम् ।
काले च देशे च मनो न सज्जयेत् प्राणान् नियच्छेन् मनसा जितासुः
मनः स्वबुद्ध्यामलया नियम्य क्षेत्रज्ञ एतां निनयेत् तम् आत्मनि ।
आत्मानम् आत्मन्यवरुध्य धीरो लब्धोपशान्तिर्विरमेत कृत्यात्
न यत्र कालो ऽनिमिषां परः प्रभुः कुतो नु देवा जगतां य ईशिरे ।
न यत्र सत्त्वं न रजस्तमश्च न वै विकारो न महान् प्रधानम्
परं पदं वैष्णवम् आमनन्ति तद् यन् नेति नेतीत्यतदुत्सिसृक्षवः ।
विसृज्य दौरात्म्यम् अनन्यसौहृदा हृदोपगुह्यार्हपदं पदे पदे
इत्थं मुनिस्तूपरमेद्व्यवस्थितो विज्ञानदृग्वीर्यसुरन्धिताशयः ।
स्वपार्ष्णिनापीड्य गुदं ततो ऽनिलं स्थानेषु षट्सून्नमयेज् जितक्लमः
नाभ्यां स्थितं हृद्यधिरोप्य तस्माद् उदानगत्योरसि तं नयेन् मुनिः ।
ततो ऽनुसन्धाय धिया मनस्वी स्वतालुमूलं शनकैर्नयेत
तस्माद्भ्रुवोरन्तरम् उन्नयेत निरुद्धसप्तायतनो ऽनपेक्षः ।
स्थित्वा मुहूर्तार्धम् अकुण्ठदृष्टिर् निर्भिद्य मूर्धन् विसृजेत् परं गतः
यदि प्रयास्यन् नृप पारमेष्ठ्यं वैहायसानाम् उत यद्विहारम् ।
अष्टाधिपत्यं गुणसन्निवाये सहैव गच्छेन् मनसेन्द्रियैश्च
योगेश्वराणां गतिम् आहुरन्तर् बहिस्त्रिलोक्याः पवनान्तरात्मनाम् ।
न कर्मभिस्तां गतिम् आप्नुवन्ति विद्यातपोयोगसमाधिभाजाम्
वैश्वानरं याति विहायसा गतः सुषुम्णया ब्रह्मपथेन शोचिषा ।
विधूतकल्को ऽथ हरेरुदस्तात् प्रयाति चक्रं नृप शैशुमारम्
तद्विश्वनाभिं त्वतिवर्त्य विष्णोर् अणीयसा विरजेनात्मनैकः ।
नमस्कृतं ब्रह्मविदाम् उपैति कल्पायुषो यद्विबुधा रमन्ते
अथो अनन्तस्य मुखानलेन दन्दह्यमानं स निरीक्ष्य विश्वम् ।
निर्याति सिद्धेश्वरयुष्टधिष्ण्यं यद्द्वैपरार्ध्यं तदु पारमेष्ठ्यम्
न यत्र शोको न जरा न मृत्युर् नार्तिर्न चोद्वेग ऋते कुतश्चित् ।
यच् चित् ततो ऽदः कृपयानिदंविदां दुरन्तदुःखप्रभवानुदर्शनात्
ततो विशेषं प्रतिपद्य निर्भयस् तेनात्मनापो ऽनलमूर्तिरत्वरन् ।
ज्योतिर्मयो वायुम् उपेत्य काले वाय्वात्मना खं बृहदात्मलिङ्गम्
घ्राणेन गन्धं रसनेन वै रसं रूपं च दृष्ट्या श्वसनं त्वचैव ।
श्रोत्रेण चोपेत्य नभोगुणत्वं प्राणेन चाकूतिम् उपैति योगी
स भूतसूक्ष्मेन्द्रियसन्निकर्षं मनोमयं देवमयं विकार्यम् ।
संसाद्य गत्या सह तेन याति विज्ञानतत्त्वं गुणसन्निरोधम्
तेनात्मनात्मानम् उपैति शान्तम् आनन्दम् आनन्दमयो ऽवसाने ।
एतां गतिं भागवतीं गतो यः स वै पुनर्नेह विषज्जते ऽङ्ग
एते सृती ते नृप वेदगीते त्वयाभिपृष्टे च सनातने च ।
ये वै पुरा ब्रह्मण आह तुष्ट आराधितो भगवान् वासुदेवः
न ह्यतो ऽन्यः शिवः पन्था विशतः संसृताविह ।
वासुदेवे भगवति भक्तियोगो यतो भवेत्
भगवान् ब्रह्म कार्त्स्न्येन त्रिरन्वीक्ष्य मनीषया ।
तदध्यवस्यत् कूटस्थो रतिरात्मन् यतो भवेत्
भगवान् सर्वभूतेषु लक्षितः स्वात्मना हरिः ।
दृश्यैर्बुद्ध्यादिभिर्द्रष्टा लक्षणैरनुमापकैः
तस्मात् सर्वात्मना राजन् हरिः सर्वत्र सर्वदा ।
श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यो भगवान् नृणाम्
पिबन्ति ये भगवत आत्मनः सतां कथामृतं श्रवणपुटेषु सम्भृतम् ।
पुनन्ति ते विषयविदूषिताशयं व्रजन्ति तच्चरणसरोरुहान्तिकम्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0